संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - चन्द्रदशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - चन्द्रदशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नित्यं विभूषामणिवस्त्रलाभं मिष्टान्नपानं प्रमदानुरागम् ।

चान्द्री दशा साधु फलं नराणां लभेत पूजां नृपतैः सदैव ॥१॥

चन्द्रमध्ये चन्द्रफलम् ।

चन्द्रे स्वान्तर्गतें सौख्यं सर्वत्र विजयो भवेत् ।

स्वपक्षवैरं कन्यानां जन्म निद्रारतिर्भवेत् ॥२॥

चन्द्रमध्ये भौमफलम् ।

शस्त्ररोगभयैर्युक्तो वह्निचोरधनक्षयः ।

विधोरन्तर्गते भौमे मनोदुःखं भवेन्नृणाम् ॥३॥

चन्द्रमध्ये बुधफलम् ।

सर्वत्र लभते लाभं गजाश्वैर्गोधनादिकम् ।

जायते कन्यकालाभश्चन्द्रस्यान्तर्गते बुधे ॥४॥

चन्द्रमध्ये शनिफलम् ।

बन्धुवैरं स्थानहानिः शोको वा कलहो विपत् ।

विधोरन्तर्गते मन्दे संदिग्धो भवति ध्रुवम् ॥५॥

चन्द्रमध्ये गुरुफलम् ।

धर्मवित्तसुखानि स्युर्वसनाभरणादिकम् ।

विजयो राजसम्मानो विधोरन्तर्गते गुरौ ॥६॥

चन्द्रमध्ये राहुफलम् ।

बन्धुनाशः स्थानभ्रंशः शत्रोर्बहुभयं तथा ।

न कुत्रापि सुखं राहौ विधोरन्तर्गते सति ॥७॥

चन्द्रमधे शुक्रफलम् ।

कन्याजन्मसुखप्राप्तिः स्त्रीसङ्गो विजयः सुखम् ।

मुक्ताहेममणिप्राप्तिश्चन्द्रस्यान्तर्गते सिते ॥८॥

चन्द्रमध्ये रविफलम् ।

भूपाश्रयसुखं राज्यं रिपुरोगक्षयो भवेत् ।

ऐश्वर्यसौख्यमतुलं चन्द्रस्यान्तर्गते रवौ ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP