द्वारकामाहात्म्यम् - अध्याय ४१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥श्रीप्रह्लाद उवाच॥
धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः ॥
पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः ॥१॥
न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे ॥
तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः ॥२॥
अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् ॥
द्वारकायां तु चैकेन भोजितेन ततोऽधिकम् ॥३॥
अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् ॥
निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता ॥४॥
ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम्॥
द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः ॥५॥
मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा ॥६॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये ॥
एकविंशतिः पितृगणा द्वारकायां वसंति ते ॥७॥
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥
कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च ॥८॥
गयादिपितृतीर्थानि प्रभासाद्यानि यानि च ॥
स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै ॥९॥
काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे ॥
नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा ॥१०॥
वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः ॥
वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु ॥११॥
चंद्रसूर्योपरागेषु मन्वादिषु न संशयः ॥
व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक ॥१२॥
तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः ॥
तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम् ॥१३॥
येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् ॥
तेषामत्राक्षया तृप्तिः पितॄणामुपजायते ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : February 04, 2025

TOP