संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३८ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३८ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥द्वारकायाश्च माहात्म्यं शृणु पौत्र मयोदितम् ॥शृण्वतो गदतश्चापि मुक्तिः कृष्णाद्भवेद्ध्रुवम् ॥१॥पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति ॥२॥यस्य पुत्रः शुचिर्दक्षः पूर्वे वयसि धार्मिकः ॥विष्णुभक्तिं च कुरुते तं पुत्रं कवयो विदुः ॥३॥हेमशृंगं रौप्यखुरं सवत्सं कांस्यदोहनम्॥सवस्त्रं कपिलानां तु सहस्रं च दिनेदिने ॥४॥दत्त्वा यत्फलमाप्नोति ब्राह्मणे वेदपारगे ॥तत्फलं स्नानमात्रेण गोमत्यां मधुभिद्दिने ॥५॥यस्त्वेकं भोजयेद्विप्रं द्वारकायां च संस्थितम् ॥सुभिक्षे भो द्विजश्रेष्ठाः फलं लक्षगुणं भवेत्॥६॥फलं लक्षगुणं प्रोक्तं दुर्भिक्षे कृष्णसन्निधौ॥एवं धर्मानुसारेण दयाद्भिक्षां तु भिक्षुके ॥७॥अपि नः स कुले कश्चिद्भविष्यति नरोत्तमः ॥यो यतीनो कलौ प्राप्ते पितॄनुद्दिश्य दास्यति ॥८॥द्वारकायां विशे षेण सत्कृत्य कृष्णसन्निधौ ॥अन्नदानं यतीनां तु कौपीनाच्छादनानि च ॥९॥नात्मनः क्रतुभिः स्विष्टैर्नास्ति तीर्थैः प्रयोजनम्॥यत्र वा तत्र वा कार्य्यं यतीनां प्रीणनं सदा ॥१०॥श्वपचादयोऽपि ते धन्या ये गता द्वारकां पुरीम् ॥प्राप्य भागवतान्ये वै पितॄनुद्दिश्य पुत्रकाः ॥ ॥११॥भक्त्या संपूजयिष्यंति वस्त्रैर्दानैश्च भूरिभिः ॥१२॥गयापिंडेन नास्माकं तृप्तिर्भवति तादृशी ॥यादृशी विष्णुभक्तानां सत्कारेणोप जायते ॥१३॥वैशाखे ये करिष्यंति द्वादशीं कृष्णसन्निधौ ॥कृष्णं संपूजयन्तश्च रात्रौ कुर्वंति जागरम् ॥१४॥माहात्म्यं पठनीयं तु द्वारकासंभवं शुभम् ॥कृष्णस्य बालचरितं बालकृष्णादिदर्शनम् ॥१५॥क्रीडनं गोकुलस्यैव क्रीडा गोपीजनस्य च ॥कृष्णावतारकर्माणि श्रोतव्यानि पुनःपुनः ॥१६॥रुक्मशृंगीं रौप्यखुरीं मुक्तालांगूलभूषिताम्॥सवत्सां ब्राह्मणे दत्त्वा होमार्थं चाहिताग्नये ॥१७॥ निमिषस्पर्शनांशेन फलं कृष्णस्य जागरे ॥यत्किंचित्कुरुते पापं कोटिजन्मसु मानवः ॥कृष्णस्य जागरे रात्रौ दहते नात्र संशयः ॥१८॥पठेद्भागवतं रात्रौ पुराणं दयितं हरेः ॥यावत्सूर्य्यकृताऽऽलोको यावच्चन्द्रकृता निशा ॥१९॥यावत्ससागरा पृथ्वी यावच्च कुलपर्वताः ॥तावत्कालं वसेत्स्वर्गे नान्यथा मम भाषितम् ॥२०॥आस्फोटयंति पितरः प्रहर्षंति पितामहाः ॥एवं तं स्वसुतं दृष्ट्वा शृण्वानं कृष्णसंभवम् ॥२१॥द्वारकायाश्च माहात्म्यं यत्र नो जागरे पठेत् ॥तन्म्लेच्छसदृशं स्थानमपवित्रं परित्यजेत् ॥२२॥शालिग्रामशिला नैव यत्र भागवता न हि ॥त्यजेत्तीर्थं महापुण्यं पुण्यमायतनं त्यजेत् ॥२३॥त्यजेद्गुह्यं तथाऽरण्यं यत्र न द्वादशीव्रतम् ॥२४॥सुदेशोऽपि भवेन्निंद्यो यत्र नो वैष्णवा व्रतम्॥कुदेशोऽपि भवेत्पुण्यो यत्र भागवताः कलौ ॥२५॥संकीर्णयोनयः पूता ये भक्ता मधुसूदने ॥म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने ॥२६॥रथारूढं प्रकुर्वंति ये कृष्णं मधुमाधवे ॥मुक्तिं प्रयांति ते सर्वे कुलकोटिसमन्विताः ॥२७॥देवकीनन्दनस्यार्थे रथं कारापयन्ति ये ॥कल्पांतं विष्णुलोके ते वसन्ति पितृभिः सह ॥२८॥द्वारकायास्तु माहात्म्यं श्रावयेद्यः कलौ नृणाम्॥भावमुत्पादयेद्यो वै लभेत्क्रतुशतंफलम् ॥२९॥यो नार्चयति पापिष्ठो देवमन्यत्र गच्छति ॥कोटिजन्मार्जितं पुण्यं हरते रुक्मिणीपतिः ॥३०॥शंखोद्धारसमुद्भूतां नित्यं देहे बिभर्त्ति हि ॥मृत्तिकां दैत्यराजेन्द्र शृणु वक्ष्यामि यत्फलम् ॥३१॥यो ददाति यतीनां च वैष्णवानां प्रयच्छति ॥स्वर्णभारशतं पुण्ड्रं नित्यं प्राप्नोति मानवः ॥३२॥गृहे यस्य सदा तिष्ठेच्छंखोद्धारस्य मृत्तिका ॥नित्य क्रियाकृतंपुण्यं लभेत्कोटिगुणं बले ॥३३॥यस्य पुण्ड्रं ललाटे तु गोपीचंदनसंज्ञकम् ॥न जहाति गृहं तस्य लक्ष्मीः कृष्णप्रिया द्विजाः ॥३४॥न ग्रहो बाधते तस्य नोरगो न च राक्षसः ॥पिशाचा न च कूष्मांडा न च प्रेता न जंभकाः ॥३५॥नाग्निचौरभयं तस्य दरीणां चैव बन्धनम् ॥विद्युदुल्काभयं चैव न चोत्पातसमुद्भवम् ॥३६॥नारिष्टं नापशकुनं दुर्निमित्तादिकं च यत् ॥सत्कृते विष्णुभक्ते च शालिग्रामशिलार्चने ॥३७॥पीते पादोदके विप्रा नैवेद्यस्यापि भक्षणे ॥तुलसीसन्निधौ विष्णोर्विलयावसरे कृते ॥३८॥पुरा देवेन कथितं शृणु पात्रं वदाम्यहम् ॥प्रिया भागवता येषां तेषां दासोऽस्म्यहं सदा ॥३९॥विहाय मथुरां काशीमवन्तीं सर्वपापहाम् ॥मायां कांचीमयोध्यां च संप्राप्ते च कलौ युगे॥४०॥वसाम्यहं द्वारकायां सर्वसेनासमावृतः ॥तीर्थव्रतैर्यज्ञदानै रुद्राद्यैर्मुनिचारणैः ॥४१॥श्रद्धात्यागेन भक्त्या वा यस्तोषयितुमिच्छति ॥गत्वा द्वारवतीं रम्यां द्रष्टव्योऽहं कलौ युगे ॥४२॥त्रैलोक्ये यानि तीर्थानि मया शुद्धानि भूरिशः ॥।विन्यस्तानि च गोमत्यां चक्रतीर्थेऽतिपावने ॥४३॥दिनेनैकेन गोमत्यां चक्रतीर्थे कलौ युगे ॥त्रैलोक्यसंभवैस्तीर्थैः स्नातो भवति मानवः ॥४४॥कोटिपापविनिर्मुक्तो मत्समं वसते नरः ॥मम लोके न संदेहः कुलकोटिसमन्वितः ॥४५॥नापराधकृतैः पापैर्लिप्तः स्यादु त्कटैः कृतैः ॥शतजन्मायुतानीह लक्ष्मीर्न च्यवते गृहात् ॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरगत द्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनं-नामाष्टात्रिंशत्तमोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP