संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २७ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २७ Translation - भाषांतर ॥ईश्वर उवाच॥स्थित्वा द्वादशिजागरे क्रतु समे दुःखापहे पुण्यदे रम्यं भागवतं शृणोति पुरुषः कृत्वा हरेः पूजनम् ॥पुण्यं वाजिमखस्य कोटिगुणितं संप्राप्य भक्तोत्तमश्छित्त्वा पाशसमूह पक्षनिचयं प्राप्नोति कृष्णालयम् ॥१॥हत्यापापसमूहकोटिनिचयैर्गुर्वंगना- कोटिभिःस्तेयैर्लक्षगुणैर्गुरोर्वधकरैः संवेष्टितो यद्यपि ॥श्रुत्वा भागवतं छिनत्ति सकलं कृत्वा हरेर्जागरं मुक्तिं याति नरेन्द्र निर्मलवपुर्भित्त्वा रवेर्मंडलम् ॥२॥एकादशी द्वादशिसंप्रविष्टा कृता नभस्ये श्रवणेन युक्ता ॥विशेषतः सोमसुतेन संगमे करोति मुक्तिं प्रपितामहानाम् ॥३॥यद्दीयते द्वादशिवासरे शुभे विष्णुं समुद्दिश्य तथा पितॄणाम् ॥पर्य्याप्तमिष्ठैः क्रतुतीर्थदानैर्भक्त्या प्रदत्तं खलु मेरुतुल्यम् ॥४॥महानदीं प्राप्य दिनं च विष्णोस्तोयांजलिं यस्तुपितॄन्ददाति ॥श्राद्धं कृतं तेन समाः सहस्रं यच्छन्ति कामान्पितरः सुतृप्ताः ॥५॥शरणागतानां परिपालनेन ह्यन्नप्रदानेन शृणुष्व पुत्र ॥ऋणप्रदाने द्विजदेवतानां तद्वै फलं जागरणेन् विष्णोः ॥६॥यः स्वर्णधेनुं मधुनीरधेनुं कृष्णाजिनं रौप्यसुवर्णमेरु ॥ब्रह्मांडदानं प्रददाति याति स वै फलं जागरणेन विष्णोः ॥७॥सत्येन शौचेन दमेन यत्फलं क्षमादयादानबलेन षण्मुख ॥दशाश्वमेधैर्बहुदक्षिणैश्च तेषां फलं जागरणेन विष्णोः ॥८॥स्नानेन यत्प्राप्य नदीं वीरष्ठां यत्पिंडदानेन पितुर्गयायाम् ॥यद्धेमदानात्कुरुजांगले च तत्स्यात्फलं जागरणेन विष्णोः ॥९॥हत्यायुतानां यदि संचितानिस्तेयानि रुक्मस्य तथामितानि ॥निहंत्यनेकानि पुराकृतानि श्रीजागरे ये प्रपठंति गीतम् ॥१०॥मार्गं न ते सौरपुरस्य दूतान्वनांतरं षण्मुख किंचिदन्यत् ॥स्वप्ने न पश्यंति च ते मनुष्या येषां गता जागरणेन निद्रा ॥११॥काषायवस्त्रैश्च जटाभरैश्च पूर्ताग्निहोत्रैः किमु चान्य मन्त्रैः ॥धर्मार्थकामवरमोक्षकरीं च भद्रामेकां भजस्व कलिकालविनाशिनीं च ॥१२॥इत्युक्तपूर्वं किल नारदेन श्रेयोर्थबुद्ध्या विनतासुताय ॥कृष्णात्परं नान्यदिहास्ति दैवं व्रतं तदह्नः परमं न किंचित् ॥१३॥भोभोः सुराः शृणुत नारद इत्यवोचद्भोभोः खगेन्द्रऋषिसिद्धमुनीन्द्रसंघाः ॥उत्क्षिप्य बाहुमथ भक्तजनेन चोक्तं नैकादशीव्रतसमं व्रतमस्ति किंचित् ॥१४॥पक्षीन्द्र पापपुरुषा न हरिं भजंति तद्भक्तिशास्त्रनिरता न कलौ भवंति ॥कुर्वंति मूढमनसो दशमीविमिश्रामेकादशीं शुभदिनं च परित्यजंति ॥१५॥आर्त्तः सदा चैव सदा च रोगी पापी सदा चैव सदा च दुःखी ॥सदा कुलघ्नोऽथ सदा च नारकी विद्धं मुरारेर्दिनमाश्रयेत्तु यः ॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणस्य सर्वतोवरेण्यत्ववर्णनंनाम सप्तविंशतितमोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP