संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २२ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥शृणुध्वं द्विजशार्दूला यथावत्कथयामि वः ॥स्नापयित्वा जगन्नाथं तथा गंधैर्विलिप्य च ॥पूजयित्वा तुलस्या तु भूषयित्वा च भूषणैः ॥१॥नैवेद्येन च सन्तर्प्य तथा नीराजनादिभिः ॥दुर्वाससं तथा पूज्य पुंडरीकाक्षमेव च ॥२॥अनंतं वैनतेयादीन्भक्त्या सम्पूज्य मानवः ॥दद्याद्दानं स्वशक्त्या च वित्तशाठ्यविवर्जितः ॥३॥दीनांधकृपणांस्तत्र तर्पयेच्च समाश्रितान् ॥४॥रुक्मिणीं च ततो गच्छेद्विदर्भतनयां नरः ॥उपहृत्योपहारांश्च बलिभिर्गंधदीपकैः ॥५॥पीडयंति ग्रहास्तावद्व्याधयोऽभिभवंति च ॥भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥६॥उपसर्गभयं तावद्दुःखं च भूतसंभवम् ॥भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥७॥भवेद्दरिद्री दुःखी च तावद्वै परयाचकः ॥भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥८॥तावन्मृतप्रजा नारी दुर्भाग्या दुःखसंयुता ॥भक्त्या न पश्यति यदा नारीकृष्णप्रियां तथा ॥९॥तावच्छत्रुभयं पुंसां गृहभंगं च मूर्खता ॥भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ॥२१०॥संपूज्य क्रृष्णं विधिवद्रुक्मिणीं पूजयेत्ततः ॥स्नापयेद्दधिदुग्धाभ्यां मधुशर्करया तथा ॥११॥घृतेन विविधैर्गन्धैस्तथैवेक्षुरसेन च ॥तीर्थोदकेन संस्नाप्य सर्वान्कामानवाप्नुयात् ॥१२॥एवं यः स्नापये द्देवीं रुक्मिणीं क्रृष्णवल्लभाम् ॥न तस्य दुर्ल्लभं किंचिदिह लोके परत्र च ॥१३॥श्रीखण्डकुंकुमेनैव तथा मृगमदेन च ॥विलेपयेदपुत्रस्तु स पुत्रं लभते धुवम् ॥१४॥सदा स भोगी भवति रूपवाञ्जनपूजितः ॥पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः ॥१५॥करवीरैर्मल्लिकाभिश्च चम्पकैस्तु विशेषतः ॥कमलैर्वारिसंभूतैः केतकीभिश्च पाटलैः ॥१६॥धूपेनागुरुणा चैव पूजयेद्गौग्गु लेन च ॥वस्त्रैः सुकोमलैः शुभ्रैर्नानादेशसमुद्भवैः ॥१७॥भक्त्या संछाद्य वैदर्भीं रुक्मिणीं कृष्णवल्लभाम् ॥भूषणैर्भूषयेद्देवीं मणिरत्न समन्वितैः ॥१८॥तस्मिन्कुले नाऽसुखः स्यान्नाऽधर्मो नाऽधनस्तथा ॥नाऽपुत्रो न विकर्मस्थः कितवो नीचसेवकः ॥१९॥यैः पूजिता जगन्माता रुक्मिणी मानवैः कलौ ॥नैवेद्यैर्भक्ष्यभोज्याद्यैर्देवी मे प्रीयतामिति ॥तांबूलं च सकर्पूरं भावेन विनिवेदयेत् ॥२०॥गृहीत्वा च फलं शुभ्रं ह्यक्षतैश्च समन्वितम्॥मन्त्रेणानेन वै विप्रा ह्यर्घ्यं दद्याद्विधानतः ॥२१॥कृष्णप्रिये नमस्तुभ्यं विदर्भाधिपनंदिनि ॥सर्वकामप्रदे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥२२॥आरार्तिकं ततः कुर्याज्ज्वलन्तं भावनान्वितः ॥नीराजनं प्रकर्तव्यं कर्पूरेण विशेषतः ॥२३॥शंखे कृत्वा तु पानीयं भ्रामयेद्भावसंयुतः ॥भ्रामयित्वा च शिरसा धारणीयं विशुद्धये ॥२४॥दण्डवत्प्रणमेद्भूमौ नमः कृष्णप्रियेति च ॥विप्रपत्नीश्च विप्रांश्च पूजयेच्छक्तितो द्विजाः ॥२५॥ग्रीवासूत्रकसिन्दूरैर्वासोभिः कञ्चुकैस्तथा ॥सुगन्धकुसुमैरर्च्य कुंकुमेन विलिप्य च ॥२६॥कौसुंभकैः कज्जलेन तांबूलेन च तोषयेत् ॥भक्ष्यैर्भोज्यैमोदकैश्च इक्षुभिर्मधुसर्पिभिः ॥२७॥प्रीतो भवति देवेशो रुक्मिण्या सह केशवः ॥विशेषतः फलानीह दातव्यानि द्विजोत्तमाः ॥२८॥उन्मत्तकं ततो देवं द्वारपालं प्रपूजयेत् ॥स्नापयित्वा सुगन्धेन कुंकुमेन विलिप्य च ॥२९॥धूपेन धूपयित्वा तु पुष्पाद्यैः संप्रपूजयेत ॥नैवेद्यैर्भक्ष्यभोज्यैश्च मांसेन सुरया तथा ॥३०॥प्रभूतबलिभिश्चैव पिष्टेन विविधेन च ॥योगिनीनां चतुःषष्टिं तस्मिन्पीठे प्रपूजयेत् ॥३१॥अर्चयेद्धरसिद्धिं च क्षेत्रपालं च सर्वशः ॥विरूपस्वामिनीं तत्र तथा वै सप्तमातरः ॥३२॥अष्टमूर्तीः कृष्णपत्नीः पीठे तस्मिन्प्रपूजयेत् ॥रुक्मिणीं सत्यभामां च शुभां जांबवतीं तथा ॥३३॥मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा ॥अष्टमीं लक्ष्मणां तत्र पूजयेत्कृष्णवल्लभाः ॥३४॥एताः संपूज्य विधिवत्संतर्प्य दधिपायसैः ॥गीतवादित्रघोषेण दीपैर्जागरणेन च ॥३५॥पुत्र पौत्रसमायुक्तो धनधान्यसमन्वितः ॥सर्वान्कामानवाप्नोति तस्य विष्णुः प्रसीदति ॥३६॥किं तस्य वहुदानैस्तु किं व्रतैर्नियमैस्तथा ॥येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥३७॥किं यज्ञैर्बहुभिस्तस्य संपूर्णवरदक्षिणैः ॥येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥३८॥तेन दत्तं हुतं तेन जप्तं तेन सनातनम् ॥येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥३९॥हेलया तेन संप्राप्ताः सिद्धयोऽष्टौ न संशयः ॥गत्वा द्वारवतीं येन दृष्टा केशववल्लभा ॥४०॥सफलं जीवितं तस्य सफलाश्च मनोरथाः ॥कलौ कृष्णपुरीं गत्वा दृष्ट्वा माधववल्लभाम् ॥४१॥देव राज्येन किं तस्य तथा मुक्तिपदेन च ॥न दृष्टा चेज्जगन्माता रुक्मिणी कृष्णवल्लभा ॥४२॥तस्मात्सर्वप्रयत्नेन रुक्मिणी कृष्णवल्लभा ॥सदाऽर्चनीया मनुजैर्द्रष्टव्या सर्वकामदा॥४३॥विशेषतः पूजनीया नवरात्रे सदाश्विने ॥नवम्यां तु नरैर्यैस्तु पूजिता हरिवल्लभा॥४१॥स्नानगन्धादि वस्त्रैस्तु प्रभूतबलिभिस्तथा ॥गीतवादित्रघोषेण दीपजागरणेन च ॥तोषिता भीष्मकसुता सर्वान्कामान्प्रयच्छति ॥४५॥तथा दीपोत्सवदिने चतुर्द्दश्यां समाहितः ॥पूजयित्वा यथाशास्त्रमीप्सितं लभते फलम् ॥४६॥माघमासे सिताष्टम्यां कन्दर्प्पजननी तु यैः ॥पूजिता गन्धपुष्पाद्यैरुपहारैरनेकशः ॥सफलं जीवितं तेषां सफलाश्च मनोरथाः ॥४७॥द्वादश्यां चैत्रमासे तु कृष्णेन सह रुक्मिणीम् ॥ये पश्यंति नरा देवीं रुक्मिणीं मधुमाधवे ॥कृष्णेन सह गच्छन्तीं धन्यास्ते मानवा भुवि ॥४८॥पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः॥जीविते व्याधिनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥४९॥ज्येष्ठाष्टम्यां नरैर्यैस्तु पूजिता कुष्णवल्लभा ॥तेषां मनोरथावाप्तिर्जायते नात्र संशयः ॥५०॥तथा भाद्रपदे मासि मातुः पूजा कृता तु यैः ॥सर्वपापविनिर्मुक्ता यांति विष्णुपदे नराः ॥५१॥कार्त्तिके मासि द्वादश्यां रुक्मिणीं कृष्णसंयुताम् ॥ये पश्यंति नरास्तेषां न भयं विद्यते क्वचित् ॥५२॥यस्त्वेकत्र स्थितां पश्येद्रुक्मिणीं कृष्णसंयुताम् ॥सफलं जीवितं तस्य ह्यक्षया पुत्रसंततिः ॥अक्षयं धनधान्यं च कदा नैव दरिद्रता ॥५३॥य एवं रुक्मिणीं पश्येत्पूजयेत्कृष्णवल्लभाम् ॥सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥५४॥यः स्नायात्सर्वतीर्थेषु दानं शक्त्या ददाति यः ॥तस्य पुण्यफलं चैव लोके यज्जायते द्विजाः ॥कथितं तदशेषेण कलौ कृष्णस्य संस्थितौ ॥५५॥द्वारावतीं विना विप्रा मुक्तिर्न प्राप्यते कलौ ॥पुराणसंहितामेतां कृतवान्बलिबन्धनः ॥ददौ स तु प्रसादेन पूर्वं मह्यं द्विजोत्तमाः ॥५६॥इहार्थे च पुरा प्रोक्तं इतिहासो द्विजोत्तमाः ॥प्रद्युम्नेन सुसंवादे मार्कण्डेन महात्मना ॥५७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीपूजनमाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ॥२२॥छ॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP