द्वारकामाहात्म्यम् - अध्याय २६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥श्रीमार्कण्डेय उवाच॥
प्रह्लादं सर्वधर्मज्ञं वेदशास्त्रार्थपारगम् ॥
वैष्णवागमतत्त्वज्ञं भगवद्भक्तितत्परम् ॥१॥
सुखासीनं महाप्राज्ञमृषयो द्रष्टुमागताः ॥
सर्वशास्त्रार्थतत्त्वज्ञाः स्वधर्मप्रतिपालकाः ॥ ॥२॥
॥ऋषय ऊचुः॥
विना ज्ञानाद्विना ध्यानाद्विना चेन्द्रियनिग्रहात् ॥
अनायासेन येनैतत्प्राप्यते परमं पदम् ॥३॥
संक्षेपात्कथय स्नेहाद्दृष्टादृष्टफलोदयम् ॥
धर्मान्मनुजशार्दूल ब्रूहि सर्वानशेषतः ॥४॥
इत्युक्तोऽसौ महाभागो नारायणपरायणः ॥
कथयामास संक्षेपात्सर्वलोकहितोद्यतः ॥५॥
॥श्रीप्रह्लाद उवाच॥
श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं महत् ॥
यस्य संश्रवणादेव सर्वपापक्षयो भवेत् ॥६॥
अष्टादशपुराणानां सारात्सारतरं च यत् ॥
तदहं कथयिष्यामि भुक्तिमुक्तिफलप्रदम् ॥७॥
सुखासीनं महादेवं जगतः कारणं परम् ॥
पप्रच्छ षण्मुखो भक्त्या सर्वलोकहितोद्यतः ॥८॥
॥स्कन्द उवाच॥
भगवन्सर्वलोकानां दुःखसंसारभेषजम् ॥
कथयस्व प्रसादेन सुखोपायं विमुक्तये ॥९॥
॥ईश्वर उवाच॥
चतुर्विधं तु यत्पापं कोटिजन्मार्जितं कलौ ॥
जागरे वैष्णवं शास्त्रं वाचयित्वा व्यपोहति ॥१०॥
वैष्णवस्य तु शास्त्रस्य यो वक्ता जागरे हरेः ॥
मद्भक्तं तं विजानीयाद्विपन्नस्त्वन्यथा भवेत् ॥११॥
हरिजागरणं कार्यं मद्भक्तेन विजानता ॥
अन्यथा पापिनो ज्ञेया ये द्विषन्ति जनार्द्दनम् ॥१२॥
जागरं ये च कुर्वंति गायंति हरिवासरे ॥
अग्निष्टोमफलं तेषां निमिषार्द्धेन षण्मुख ॥१३॥
जागरे पश्यतां विष्णोर्मुखं रात्रौ मुहुर्मुहुः ॥
येषां हृष्यंति रोमाणि रात्रौ जागरणे हरेः ॥
कुलानि दिवि तावंति वसंति हरिसन्निधौ ॥१४॥
यमस्य पथि निर्मुक्ता जनाः पापशतैर्वृताः॥
गीतशास्त्रविनोदेन द्वादशीजागरान्विताः ॥१५॥
सुप्रभाता निशा तेषां धन्याः सुकृतिनो नराः ॥
प्राणात्ययेन मुह्यंति यैः कृतं जागरं हरेः ॥१६॥
पुत्रिणस्ते नरा लोके धनिनः ख्यातपौरुषाः ॥
येषां वंशोद्भवाः पुत्राः कुर्वंति हरिजागरम् ॥१७॥
इष्टं मखैः कृतं दानं दत्तं पिंडं गयाशिरे ॥
स्नातं नित्यं प्रयागे तु यैः कृतं जागरं हरेः ॥१८॥
दयिता विष्णुभक्ताश्च नित्यं मम षडानन ॥
कुर्वंति वासरं विष्णोर्यस्माज्जागरणं हितम् ॥१९॥
श्रुत्वा हर्षं न चाप्नोति जागरं न करोति यः ॥
प्रकटीकरोति तन्नूनं जनन्या दुर्विचेष्टितम् ॥२०॥
संप्राप्य वासरं विष्णोर्न येषां जागरो हरेः ॥
व्यर्थं गतं च तत्पुण्यं तेषां वर्षशतोद्भवम् ॥२१॥
पुत्रो वा पुत्रपुत्रो वा दौहित्रो दुहिताऽपि वा ॥।
करिष्यति कुलेऽस्माकं कलौ जागरणं हरेः ॥२२॥
पात्यमानाः प्रजल्पंति पितरो यमकिंकरैः ॥
मुक्तिर्भविष्यत्यस्माकं नरकाज्जागरे कृते ॥२३ ॥।
नान्यथा जायतेऽस्माकं मुक्तिर्यज्ञशतैरपि ॥
विना जागरणेनैव नरलोकात्कथंचन ॥
तस्माज्जागरणं कार्यं पितॄणां हितमिच्छता ॥२४॥
भक्तिर्भागवतानां च गोविंदस्यापि कीर्तनम् ॥
न देहग्रहणं तस्मात्पुनर्लोके भविष्यति ॥२५॥
जागरं कुरुते यश्च संगमे विजयादिने ॥
पुनर्द्देहप्रजननं दग्धं तेनाऽऽत्मना स्वयम् ॥२६॥
त्रिस्पृशा वासरं येन कृतं जागरणान्वितम् ॥
केशवस्य शरीरे तु स लीनो नात्र संशयः ॥२७॥
उन्मीलिनी कृता येन रात्रौ जागरणान्विता ॥
प्रभवंति न पापानि स्थूलसूक्ष्माणि तस्य तु ॥२८॥
सतालवाद्यसंयुक्तं संगीतं जागरं हरेः ॥
यः कारयति देवस्य द्वादश्यां दानसंयुतम् ॥२९॥
तस्य पुण्यं प्रवक्ष्यामि महाभागवतस्य हि ॥
तिलप्रस्थहस्रं तु सहिरण्यं द्विजातये ॥
दत्त्वा यत्फलमाप्नोति ह्ययने रविसंक्रमे ॥३०॥
हेमभारशतं नित्यं सवत्सं कपिलायुतम् ॥
प्रेक्षणीयप्रदानेन तत्फलं प्राप्नुयात्कलौ ॥३१॥
यः पुनर्वासरे पुत्र दिव्यैर्ऋषिकृतैः स्तवैः ॥
तोषयेत्पद्मनाभं वै वैदिकैर्विष्णुसामभिः ॥३२॥
ऋग्यजुःसामसम्भूतैवैष्णवैश्चैव पुत्रक ॥
संस्कृतैः प्राकृतैः स्तोत्रैरन्यैश्च विविधैस्तथा ॥३३॥
प्रीतिं करोति देवेशो द्वादश्यां जागरे स्थितः ॥
शृणु पुण्यं समासेन यद्गीतं ब्रह्मणा मम ॥३४॥
त्रिःसप्तकृत्वो धरणीं त्रिगुणीकृत्य षण्मुख ॥
दत्त्वा यत्फलमाप्नोति तत्फलं प्राप्नुयान्नरः ॥३५॥
गवां शतसहस्रेण सवत्सेनापि यत्फलम् ॥
तत्फलं प्राप्नुयान्मर्त्त्यः स्तोत्रैर्यस्तोषयेद्धरिम् ॥३६॥
वैदिकी दशगुणा प्रीतिर्यामेनैकेन जागरे ॥
एवं फलानुसारेण कार्य्यं जागरणं हरेः ॥३७॥
यः पुनः पठते रात्रौ गीतां नामसहस्रकम् ॥
द्वादश्यां पुरतो विष्णोर्वेष्णवानां समीपतः ॥३८॥
पुण्यं भागवतं स्कांदपुराणं दयितं हरेः ॥
माधुरं बालचरितं गोपीनां चरितं तथा ॥३९॥
एतान्पठति रात्रौ यः पूजयित्वा तु केशवम् ॥
न वेद्म्यहं फलं वत्स यदि ज्ञास्यति केशवः ॥४०॥
दीपं प्रज्वालयेद्रात्रौ यः स्तवैर्हरिजागरे ॥
न चास्तं गच्छते तस्य पुण्यं कल्पशतैरपि ॥४१॥
मंजरीसहितैः पत्रैस्तुलसीसम्भवैर्हरिम् ॥
जागरे पूजयेद्भक्त्या नास्ति तस्य पुनर्भवः ॥४२॥
स्नानं विलेपनं पूजा धूपं दीपं च संस्तवम् ॥
नैवेद्यं च सतांबूलं जागरे दत्तमक्षयम् ॥४३॥
ध्यातुमिच्छति षड्वक्त्रं यो मां भक्तिपरायणः ॥
स करोतु महाभक्त्या द्वादश्यां जागरं हरेः ॥४४॥
वासरे वासुदेवस्य सर्वे देवाः सवासवाः ॥
देहमाश्रित्य तिष्ठंति ये प्रकुर्वंति जागरम् ॥४५॥
जागरेवासुदेवस्य महाभारतकीर्तनम् ॥
ये कुर्वंति गतिं यांति योगिनां ते न संशयः ॥४६॥
चरितं रामदेवस्य ये वधं रावणस्य च ॥
पठंति जागरे विष्णोस्ते यांति परमां गतिम ॥४७
अधीत्य चतुरो वेदान्कृत्वा चैवार्चनं हरेः ॥
स्नात्वा च सर्वतीर्थेषु जागरे तत्फलं हरेः ॥४९॥
रथानामयुतैर्यत्तु सहस्रैर्वरवारणैः ॥लक्षेणाश्ववराणां तु तत्फलं जागरे हरेः ॥४९॥
धान्यशैलसहस्रैस्तु तुलापुरुषको टिभिः ॥
यत्फलं मुनिभिः प्रोक्तं तत्फलं जागरे हरेः ॥५०॥
कन्याकोटिप्रदानं च स्वर्णभारशतं तथा ॥
दत्तं रत्नायुतशतं यैः कृतो जागरो हरेः ॥५१॥
अष्टादशपुराणैस्तु पठितैर्यत्फलं भवेत् ॥
तत्फलं शतसाहस्रं कृते जागरणे हरेः ॥५२॥
मन्वादि पठतां शास्त्रं यत्फलं हि द्विजन्मनः ॥
अधिकं फलमाप्नोति कुर्वाणो जागरं हरेः ॥५३॥
दुर्भिक्षे चान्नदातॄणां पुंसां भवति यत्फलम् ॥
संन्यासिनां सहस्रैस्तु यत्फलं भोजितैः कलौ ॥
फलं तत्समवाप्नोति कुर्वतां जागरं हरेः ॥५४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : February 04, 2025

TOP