संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २५ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २५ Translation - भाषांतर ॥इंद्रद्युम्न उवाच॥कथयस्व मुनिश्रेष्ठ किंचित्कौतूहलं मम ॥पुण्यं पवित्रं पापघ्नं तीर्थं तु वद विस्तरात् ॥१॥ ॥मार्कण्डेय उवाच॥मथुरा द्वारकाऽयोध्या कलिकाले पुरीत्रयम् ॥धर्मार्थकामदं भूप मोक्षदं हरिवल्लभम् ॥२॥मधुरायां तु कालिंदी गोमती कृष्णसन्निधौ ॥अयोध्यायां तु सरयूर्मुक्तिदा सेविता सदा ॥३॥द्रारवत्यामयोध्यायां कृष्णं रामं शुभप्रदम् ॥मथुरायां हरिं विष्णुं स्मृत्वा मुक्तिमवाप्नुयात् ॥४॥धन्या सा मथुरा लोके यत्र जातो हरिः स्वयम् ॥द्वारका सफला लोके क्रीडितं यत्र विष्णुना ॥५॥धन्यानामपि सा पूज्या अयोध्या सर्वकामदा ॥या स्वयं रामदेवेन पालिता धर्मबुद्धिना ॥६॥यद्ददाति फलं काशी सेविता कल्पसंख्यया ॥कला ददाति मथुरा वासरेणापि तत्फलम् ॥७॥मन्वंतरसहस्रे तु प्रयागे यत्फलं भवेत् ॥निमिषार्द्धेन वसतां द्वारकायां तु तत्फलम् ॥८॥प्रभासे च कुरुक्षेत्रे यत्फलं वत्सरैः शतैः ॥वसतां निमिषार्द्धेन ह्ययोध्यायां च तद्भवेत् ॥९॥अयोध्याधिपतिं रामं मथुरायां तु केशवम् ॥द्वारकावासिनं कृष्णं कीर्तनं चापि दुर्ल्लभम् ॥..5.१०॥मथुराकीर्तनेनापि श्रवणाद्द्वारकापुरः ॥अयोध्यादर्शनेनापि त्रिशुद्धं च पदं व्रजेत् ॥११॥कृष्णं स्वयंभुवं देवं द्वारका त्रिदिवोपमा ॥श्रुता चाप्यथवा दृष्टा कुरुते जन्मसंक्षयम् ॥१२॥श्रुताभिलिखिता दृष्टा ह्ययोध्या मथुरापुरी ॥पापं हरति कल्पोत्थं द्वारका च तृतीयका ॥१३॥कृष्णं विष्णुं हरिं देवं विश्रांतं च कलौ स्मृतम् ॥द्वादश्यां जागरे रात्रावश्वमेधायुतं फलम् ॥१४॥बालक्रीडनकं स्थानं ये स्मरंति दिनेदिने ॥स्वर्णशैलपदं नृणां जायते राजसत्तम ॥१५॥धन्यास्ते मानवा लोके कलिकाले नरोत्तम॥प्लवनं सिंधुतोयेन गोमत्यां यैर्नरैः कृतम् ॥१६॥पश्चिमाशां नरः स्नात्वा कृत्वा वै करसंपुटम् ॥द्वारकां ये स्मरिष्यंति तेषां कोटिगुणं फलम् ॥१७॥मनसा चिन्तयेद्यो वै कलौ द्वारवतीं पुरीम् ॥कपिलाऽयुतपुण्यं च लभते हेलया नरः ॥१८॥गंगासागरजं पुण्यं गंगाद्वारभवं तथा ॥कलौ द्वारवतीं गत्वा प्राप्नोति मनुजाधिप ॥१९॥सप्तकल्पस्मरो भूप मार्कण्डेयः स्मराम्यहम् ॥समाना वाऽधिका वापि द्वारवत्या न कापि पूः ॥..5.२०॥दुर्वाससा समो धन्यो नास्ति नाप्यधिको नृप ॥भाषाबंधं येन कृत्वा द्वारकायां धृतो हरिः ॥२१॥मा काशीं मा कुरुक्षेत्रं प्रभासं मा च पुष्करम् ॥द्वारकां गच्छ राजर्षे पश्य कृष्णमुखं शुभम् ॥२२॥अश्वमेधसहस्रं तु राजसूयशतं कलौ ॥पदेपदे च लभते द्वारकां याति यो नरः ॥२३॥सफलं जीवितं तेषां कलौ नृपवरोत्तम ॥येषां न स्खलितं चित्तं द्वारकां प्रति गच्छताम् ॥२४॥माता च पुत्रिणी तेन पिता चैव पितामहाः ॥पिंडदानं कृतं येन गोमत्यां कृष्णसन्निधौ ॥२५॥गोपीचन्दनमुद्रां तु कृत्वा भ्रमति भूतले ॥सोऽपि देशो भवेत्पूतः कि पुनर्यत्र संस्थितम् ॥२६॥द्वारकायां समुद्भूतां तुलसीं कृष्णसेविताम् ॥नित्यं बिभर्ति शिरसा स भवेत्त्रिदशाधिपः ॥२७॥दैत्यारेर्भगवत्तिथिश्च विजया नीरं च गगोद्भवं नित्यंकाशिपुरी तथैव तुलसी धात्रीफलं वल्लभम् ॥२८॥शास्त्रं भागवतं तथा च दयितं रामायणं द्वारका पुण्यं मालतिसम्भवं सुदयितं गीतं कृतं जागरम् ॥२९॥गृहे यस्य सदा तिष्ठेद्गोपीचन्दनमृत्तिका ॥द्वारका तिष्ठते तत्र कृष्णेन सहिता कलौ ॥..5.३०॥कृतघ्नो वाऽथ गोघ्नोऽपि हैतुकः कृत्स्नपापकृत् ॥गोपीचन्दनसंपर्कात्पूतो भवति तत्क्षणात् ॥३१॥गोपीचन्दनखंडं तु यो ददातीह वैष्णवे ॥कुलमेकोत्तरं तेन शतं तारितमेव वा ॥३२॥द्वारकासम्भवा भूप तुलसी यस्य मंदिरे ॥तस्य वैवस्वतो नित्यं बिभेति सह किंकरैः ॥३३॥द्वारकासंभवा मृत्स्ना तुलसीकृष्णकीर्तनम् ॥क्रतुकोटिशतं पुण्यं कथितं व्याससूनुना ॥३४॥आलोड्य सर्वशास्त्राणि पुराणानि पुनःपुनः ॥मया दृष्टा महीपाल न द्वारकासमा पुरी ॥३५॥द्वारकागमनं येन कृतं कृष्णस्य कीर्तनम् ॥स्नातं तीर्थसहस्रैस्तु तेनेष्टं क्रतुकोटिभिः ॥३६॥इद्रियाणां तु दमनं किं करिष्यति देहिनाम् ॥सांख्यमध्ययनं चापि द्वारकां गच्छते न चेत् ॥३७॥पशवस्ते न सन्देहो गर्दभेन समा जनाः ॥दृष्टं कृष्णमुखं यैर्न गत्वा द्वारवतीं पुरीम् ॥३८॥कृतकृत्यास्तु ते धन्या द्वादश्यां जागरे हरेः ॥कृत्वा जागरणं भक्त्या नृत्यमाना मुहुर्मुहुः ॥३९॥कृष्णालयं तु यो गत्वा गोमत्यां पिंडपातनम् ॥करोति शक्त्या दानं च मुक्तास्तस्य पितामहाः ॥..5.४०॥प्रेतत्वं च पिशा चत्वं न भवेत्तस्य देहिनः ॥जन्मजन्मनि राजेंद्र यो गतो द्वारकां पुरीम् ॥४१॥अनशनेन यत्पुण्यं प्रयागे त्यजतस्तनुम् ॥द्वादश्यां निमिषार्द्धेन तत्फलं कृष्णसन्निधौ ॥४२॥सूर्यग्रहे गवां कोटिं दत्त्वा यत्फलमाप्नुयात् ॥तत्फलं कलिकाले तु द्वारवत्यां दिनेदिने ॥४३॥कोटिभारं सुवर्णस्य ग्रहणे चंद्रसूर्ययोः ॥दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णदर्शने ॥४४॥दोलासंस्थं च ये कृष्णं पश्यंति मधुमाधवे ॥तेषां पुत्राश्च पौत्राश्च मातामहपितामहाः ॥४५॥श्वशुराद्याः सभृत्याश्च पशवश्च नरोत्तम ॥क्रीडंति विष्णुना सार्द्धं यावदाभूतसंप्लवम् ॥४६॥या काचिद्द्वादशी भूप जायते कृष्णसन्निधौ ॥पश्यामि नांतरं किञ्चित्कलिकाले विशेषतः ॥४७॥कृष्णस्य सन्निधौ नित्यं वासरा द्वादशीसमाः ॥युगादिभिः समाः सर्वे नित्यं कृष्णस्य सन्निधौ॥४८॥कलौ द्वारवती सेव्या ज्ञात्वा पुण्यं विशेषतः ॥षटपुर्यश्चैव सुलभा दुर्ल्लभा द्वारका कलौ॥४९॥स्मरणात्कीर्तनाद्यस्माद्भुक्तिमुक्ती सदा नृणाम् ॥दुर्वाससा तु ऋषिणा रक्षिता तिष्ठते पुरी॥..5.५०॥कलौ न शक्यते गंतुं विना कृष्णप्रसादतः ॥कृष्णस्य दर्शनं कर्तुं यान्ति रुद्रादयः सुराः॥५१॥त्रिकालं जगतीनाथ रुक्मिणीदर्शनाय च ॥सफला भारती तस्य कृष्णकृष्णेति या वदेत्॥५२॥द्वारका यायिनं दृष्ट्वा गायंति दिविसंस्थिताः ॥नरकात्पितरो मुक्ताः प्रचलंति हसंति च ॥५३॥गोप्यं यत्पातकं पुंसां गोमती तद्व्यपोहति ॥स्मरणात्कीर्त्तनाद्वापि किं पुनः प्लवने कृते ॥५४॥रुक्मिणीसहितं देवं शंखोद्धारे च शंखिनम् ॥पिंडारके चतुर्बाहुं दृष्ट्वाऽन्यैः किं करिष्यति ॥५५॥रुक्मिणी देवकीपुत्रश्चक्रतीर्थं च गोमती ॥गोपीनां चंदनं लोके तुलसी दुर्लभा कलौ ॥५६॥दुर्लभास्ते सुता ज्ञेया धरणीपापनाशकाः ॥गयां गत्वा तु ये पिंडं द्वारकां कृष्णदर्शनम् ॥करिष्यंति कलौ प्राप्ते वंजुलीसमुपोषणम् ॥५७॥समं पुण्यफलं तेषां वंजुली द्वारका समा ॥येन न्यूना नाधिकाऽपि कथितं विष्णुना स्वयम् ॥५८॥वंजुली चाधिकां राजञ्छृणु वक्ष्यामि कारणम्॥द्वादश्यामुपवासेन द्वादश्यां पारणेन तु ॥प्राप्यते हेलया चैव तद्विष्णोः परमं पदम् ॥५९॥गृहेषु वसतां तीर्थं गृहेषु वसतां तपः ॥गृहेषु वसतां मोक्षो वंजुलीसमुपोषणात् ॥..5.६०॥वंजुली द्वारका गंगा गया गोविंदकीर्त्तनम् ॥गोमती गोकुलं गीता दुर्ल्लभं गोपिचन्दनम् ॥६१॥एतच्छृणोति यो भक्त्या कृत्वा मनसि केशवम् ॥अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥६२॥श्रोष्यंति जागरे ये वै माहात्म्यं केशवस्य च ॥सर्वपापविनिर्मुक्ताः पदं यास्यंति वैष्णवम् ॥६३॥पठिष्यंति नरा नित्यं ये वै श्रोप्यंति भक्तितः ॥तुलापुरुषदानस्य फलं ते प्राप्नुवंति हि ॥६४॥कृष्णजागरणे दानं यच्चाल्पमपि दीयते ॥सर्वं कोटिगुणं ज्ञेयमित्याहुः कवयो नृप ॥६५॥मानकूटं तुलाकूटं कन्याहयगवां क्रयात् ॥तत्सर्वं विलयं याति द्वादश्यां जागरे कृते ॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये वंजुलीद्वारकागंगागयागोविन्दगोमतीगोकुल गीतागोपीचन्दनमाहात्म्यवर्णनंनाम पञ्चविंशतितमोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP