संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३६ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३६ Translation - भाषांतर ॥सूत उवाच॥प्रह्लादस्य वचः श्रुत्वा स्थितस्तत्र सभास्थले ॥पप्रच्छात्युत्सुकमना बलिस्तत्क्षेत्रवैभवम् ॥१॥प्रह्लादस्तद्वचः श्रुत्वा भक्तिभावपुरस्कृतम् ॥अभिनन्द्य च तं प्रेम्णा प्रवक्तुमुपचक्रमे ॥२॥ ॥प्रह्लाद उवाच॥एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥पुण्यं क्रतुसहस्राणां फलं भवति देहिनाम् ॥३॥येऽपीच्छंति मनोवृत्त्या गमनं द्वारकां प्रति ॥तेषां प्रलीयते पापं पूर्वजन्मायुतार्जितम् ॥४॥अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥यावन्न गच्छते जंतुः कलौ द्वारवतीं प्रति ॥५॥लोभेनाऽप्युपरोधेन दंभेन कपटेन वा ॥चक्रतीर्थे तु यो गच्छेन्न पुनर्विशते भुवि ॥६।हीनवर्णोऽपि पापात्मा मृतः कृष्णुपुरीं प्रति ॥कलि कालकृतैर्दोषैरत्युग्रैरपि मानवः ॥भक्त्या कृष्णमुखं दृष्ट्वा न लिप्यति कदाचन ॥७॥तावद्विराजते काशी ह्यवंती मथुरापुरी ॥यावन्न पश्यते जंतुः पुरीं कृष्णेन पालिताम् ॥८॥येषां कृष्णालये प्राणा गता दानवनायक ॥न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥९॥दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं कलौ ॥१०॥नित्यं कृष्णपुरीं रम्यां ये स्मरंति गृहे स्थिताः ॥न तेषां पातकं किंचिद्देहमाश्रित्य तिष्ठति ॥११॥केशवार्चा गृहे यस्य न तिष्ठति महीपते ॥तस्यान्नं न च भोक्तव्यमभक्ष्येण समं स्मृतम् ॥१२॥नोष्णत्वं द्विज राजे वै न शीतत्वं हुताशने ॥वैष्णवानां न पापत्वमेकादश्युपवासिनाम् ॥१३॥नास्ति नास्ति महाभागाः कलिकालसमं युगम् ॥स्मरणात्कीर्त्तनाद्विष्णोः प्राप्यते परमव्ययम् ॥१४॥सत्यभामापतिर्यत्र यत्र पुण्या च गोमती ॥नरा मुक्तिं प्रयास्यंति तत्र स्नात्वा कलौ युगे ॥१५॥माधवे शुक्लपक्षे तु त्रिस्पृशां द्वादशीं यदि ॥लभते द्वारकायां तु नास्ति धन्यतरस्ततः ॥१६॥त्रिस्पृशां द्वादशीं प्राप्य गत्वा कृष्णपुरीं नरः ॥यः करोति हरेर्भक्त्या सोऽश्वमेधफलं लभेत् ॥१७॥नंदायां तु जयायां वै भद्रा चैव भवेद्यदि ॥उपवासार्चने गीते दुर्ल्लभा कृष्णसन्निधौ ॥१८॥उदयैकादशी स्वल्पा अंते चैव त्रयोदशी ॥संपूर्णा द्वादशी मध्ये त्रिस्पृशा च हरेः प्रिया ॥१९॥एकेन चोपवासेन उपवासाऽयुतं फलम् ॥जागरे शतसाहस्रं नृत्ये कोटिगुणं कलौ ॥२०॥तत्फलं लभते मर्त्त्यो द्वारकायां दिनेदिने ॥गृहेषु वसतामेतत्किं पुनः कृष्णसंनिधौ ॥ ॥२१॥वाङ्मनःकायजैर्दोषैर्हता ये पापबुद्धयः ॥द्वारवत्यां विमुच्यंते दृष्ट्वा कृष्णमुखं शुभम् ॥२२॥दैत्येश्वर नराः श्लाघ्या द्वारवत्यां गताश्च ये ॥२३॥दुर्ल्लभानीह तीर्थानि दुर्लभाः पर्वतोत्तमाः ॥दुर्ल्लभा वैष्णवा लोके द्वारकावसतिः कलौ ॥२४॥गवां कोटिसहस्राणि रत्नको टिशतानि च ॥दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णसन्निधौ ॥२५॥यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥नश्यते दर्शनादेव तां पुरीं को न सेवते ॥२६॥चक्रांकिता शिला यत्र गोमत्युदधिसंगमे ॥यच्छति पूजिता मोक्षं तां पुरीं को न सेवते ॥२७॥सिंहस्थे च गुरौ विप्रा गोदावर्य्यां तु यत्फलम्॥तत्फलं स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥२८॥द्वारकाऽवस्थितं तोयं षण्मासं पिबते नरः ॥तस्य चक्रांकितो देहो भवते नात्र संशयः ॥२९॥मन्वन्तरसहस्राणि काशीवासेन यत्फलम् ॥तत्फलं द्वारकायां च वसतः पंचभिर्द्दिनैः ॥३०॥तावन्मृतप्रजा नारी दुर्भगा दैत्यपुंगव ॥यावन्न पश्यते भक्त्या कलौ कृष्णप्रियां पुरीम् ॥३१॥रुक्मिणीं सत्यभामां च देवीं जांबवतीं तथा ॥मित्रविंदां च कालिंदीं भद्रां नाग्नजितीं तथा ॥३२॥संपूज्य लक्ष्मणां तत्र वैष्णवीः कृष्णवल्लभाः ॥एताः संपूज्य विधिवच्छ्रेष्ठपुत्रश्च लभ्यते ॥३३॥तावद्भवभयं पुंसां गृहभंगश्च मूर्खता ॥यावन्न पश्यते भक्त्या कलौ कृष्णपुरीं नरः ॥३४॥न सर्वत्र महापुण्यं संगमे सरितांपतेः ॥जाह्नवीसंगमान्मुक्तिर्गोमतीनीरसंगमात् ॥संपर्के गोमतीनीरपूतोऽहं कृष्णसन्निधौ ॥३५॥गोमतीनीरसंपृक्तं ये मां पश्यंति मानवाः ॥न तेषां पुनरावृत्तिरित्याह सरितांपतिः ॥३६॥द्वारकां गच्छमानस्य विपत्तिश्च भवेद्यदि ॥न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥३७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP