संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ५ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५ Translation - भाषांतर ॥प्रह्लाद उवाच॥ततो गच्छेद्द्विजश्रेष्ठा गोमतीं कृष्णसंश्रयाम् ॥यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥सर्वपापविनिर्मुक्तः कृष्णसायुज्यमाप्नुयात् ॥१॥दुरितौघक्षयकरममंगल्यविनाशनम् ॥सर्वकामप्रदं नॄणां प्रणमेद्गोमतीजलम् ॥२॥महापापक्षयकरमगतीनांगतिप्रदम् ॥पूर्वपुण्यवशात्प्राप्तं प्रणमेद्गोमतीजलम् ॥३॥ ॥ऋषय ऊचुः॥दैत्येन्द्र संशयोऽस्माकं तं त्वं छेत्तुमिहार्हसि ॥इयं का गोमती तत्र केनानीता महामते ॥४॥केन कार्यवशेनेह संप्राप्ता वरुणालयम् ॥सर्वं भागवतश्रेष्ठ ह्येतद्विस्तरतो वद ॥५॥ ॥प्रह्लाद उवाच॥एकार्णवे पुरा भूते नष्टे स्थावर जंगमे ॥तदा ब्रह्मा समभवद्विष्णोर्नाभिसरोरुहात् ॥६॥आदिष्टः प्रभुणा ब्रह्मा सृजस्व विविधाः प्रजाः ॥इति धाता समादिष्टो हरिणा सृष्टि कारणे ॥७॥उक्त्वा बाढमिति ब्रह्मा ततः सृष्टौ मनो दधे ॥ससर्ज मानसात्सद्यः सनकाद्यान्कुमारकान् ॥उवाच वचनं ब्रह्मा प्रजाः सृजत पुत्रकाः ॥८॥ब्रह्मणो वचनं श्रुत्वा ते कृतांजलयोऽब्रुवन् ॥भगवन्भगवद्रूपं द्रष्टुकामा वयं प्रभो ॥९॥न बन्धमनुवर्त्तामः सृष्टिरूपं दुरासदम्॥इत्युक्त्वा ते ययुः सर्वे सनकाद्या कुमारकाः ॥..5.१०॥पश्चिमां दिशमास्थाय तीरे नदनदीपतेः ॥तेजोमयस्य रूपस्य द्रष्टुकामा महात्मनः ॥तस्मिन्मानसमाधाय तेपिरे परमं तपः ॥११॥बहुवर्षसहस्रैस्तु प्रसन्ने धरणीधरे ॥भित्त्वा जलं समुत्तस्थौ तेजोरूपं दुरासदम् ॥ ॥१२॥अनेकदैत्यदमनं बहुयंत्रविदारणम् ॥सूर्यकोटिप्रभाभासं सहस्रारं सुदर्शनम् ॥१३॥तं दृष्ट्वा विस्मिताः सर्वे ब्रह्मपुत्राः परस्परम् ॥वीक्षमाणा भगवतः परमायुधमुत्तमम् ॥१४॥तान्विलोक्य तथाभूतान्वागुवाचाशरीरिणी ॥भो ब्रह्मपुत्रा भगवाञ्छ्रीघ्रमाविर्भविष्यति ॥१५॥अर्हणार्थं भगवतः शीघ्रमर्घ्यं प्रकल्प्यताम्॥आयुधं लोकनाथस्य द्विजाः शीघ्रं प्रसाद्यताम् ॥१६॥तच्छ्रुत्वाऽऽकाशवचनं तुष्टुवुस्ते सुदर्शनम् ॥१॥ऋषय उचुः॥ज्योतिर्मय नमस्तेऽस्तु नमस्ते हरिवल्लभ ॥सुदर्शन नमस्तेऽस्तु सहस्राराऽक्षराऽव्यय ॥१८॥नमस्ते सूर्यरूपाय ब्रह्म रूपाय ते नमः ॥अमोघाय नमस्तुभ्यं रथांगाय नमोनमः ॥१९॥एवं ते पूजयामासुः सुमनोभिस्तथाऽक्षतैः ॥..5.२०॥स्तवैर्नानाविधैः स्तुत्वा प्रणेमुर्हरिवल्लभम् ॥तत्प्रसाद्य सुनाभं तु प्रभुसंदर्शनोत्सुकाः ॥२०॥अस्मरन्मनसा देवं ब्रह्माणं पितरं स्वकम् ॥तेषां तु चिंतितं ज्ञात्वा ब्रह्मा गंगामथाब्रवीत् ॥२१॥याहि शीघ्रं सरिच्छ्रेष्ठे पृथिव्यां हरिकारणात् ॥गां गता त्वं महाभागे ततो बहुमताऽसि मे ॥२२॥उर्व्यां ते गोमती नाम सुप्रसिद्धं भविष्यति ॥२३॥वसिष्ठस्यानुगा भूत्वा याहि शीघ्रं धरातलम् ॥तातं पुत्रीवानुयाता वसिष्ठतनया भव ॥२४॥बाढमित्येव सा देवी प्रस्थिता वरुणालयम् ॥वसिष्ठस्त्वग्रतो याति तं गंगा पृष्ठतोऽन्वगात् ॥२५॥तां दृष्ट्वा मनुजाः सर्वे वसिष्ठेन समन्विताम् ॥नमश्चक्रुर्महाभागां गच्छतो पश्चिमार्णवम् ॥२६॥आविर्बभूव तत्रैव यत्र ते मुनयः स्थिताः ॥द्रष्टुकामा हरे रूपं श्रिया जुष्टं चतुर्भुजम् ॥२७॥दृष्ट्वा वसिष्ठमनुगामायान्तीं सुरपावनीम् ॥अवाकिरन्महाभागां सुमनोभिश्च सर्वशः ॥२८॥दिव्यैर्माल्यैः सुगन्धैश्च गन्धधूपैस्तथाऽक्षतैः ॥संपूज्य हृष्टमनसः साधुसाध्विति चाब्रुवन् ॥२९॥वसिष्ठं तेऽग्रगं दृष्ट्वा ह्युदतिष्ठंस्ततो द्विजाः ॥अर्घ्यादिसत्क्रियां कृत्वा प्रहृष्टा इदमब्रुवन् ॥..5.३०॥यस्मात्त्वया समानीता ह्यस्मिँल्लोके सरिद्वरा ॥तस्मात्तव सुतेत्येवं ख्यातिं लोके गमिष्यति ॥३१॥गोः स्वर्गादागता यस्मादिदं स्थानं मती मता ॥तस्माद्धि गोमतीनाम ख्यातिं लोके गमिष्यति ॥३२॥अस्या दर्शनमात्रेण मुक्तिं यास्यंति मानवाः ॥किं पुनः स्नान दानादि कृत्वा यांति हरेः पदम् ॥३३॥तामेव चार्घ्यं दत्त्वा ते योगींद्रा ईडिरे हरिम् ॥परं पुरुषसूक्तेन पुरुषं शेषशायिनम् ॥३४॥इति संस्तुवतां तेषां हरिराविर्बभूव ह ॥पीतकौशेयवसनो वनमालाविभूषितः ॥दिव्यमाल्यानुलिप्तांगो दिव्याभरणभूषितः ॥३५॥शेषासनगतं देवं दिव्यानेकोद्यतायुधम् ॥ज्वलत्किरीटमुकुटं स्फुरन्मकरकुंडलम् ॥३६॥भक्ताभयप्रदं शांतं श्रीवत्सांकं महाभुजम् ॥सदा प्रसन्नवदनं घनश्यामं चतुर्भुजम् ॥३७॥पादसंवाहनासक्तलक्ष्म्या जुष्टं मनोहरम् ॥तं दृष्ट्वा मुनयः सर्वे हर्षोत्कर्षसमन्विताः ॥विष्णुं ते विष्णुसूक्तैश्च तुष्टुवुर्वेदसंभवैः ॥३८॥एवं संस्तुवता तेषां विष्णुर्दीनानुकंपकः ॥उवाच सुप्रसन्नेन मनसा द्विजसत्तमान् ॥३९॥ ॥श्रीभगवानुवाच॥भोभोः कुमारास्तुष्टोऽहं प्रदास्यामि यथेप्सितम् ॥भविष्यथ ज्ञानयुता अस्पृष्टा मम मायया ॥..5.४०॥यस्मान्मोक्षार्थिभिर्विप्रा जलेनाहं प्रसादितः ॥तस्मादिदं परं तीर्थं सर्वकामप्रदं परम् ॥४१॥अनुग्रहाय भवतां यत्र चक्रं सुदर्शनम् ॥निःसृतं प्रथमं विप्रा जलं भित्त्वा ममाग्रतः ॥४२॥चक्रतीर्थमिति ख्यातं तस्मादेतद्भविष्यति ॥ममापि नियतं वासो भविष्यति महार्णवे ॥४३॥येऽत्र स्नानं प्रकुर्वंति प्रसंगेनापि मानवाः ॥चक्रतीर्थे द्विजश्रेष्ठास्तेषां मुक्तिः करे स्थिता ॥४४॥भवतोऽपि सदा ह्यत्र तिष्ठध्वं च द्विजर्षभाः ॥वायुभूतांतरिक्षस्थाः सर्वकामस्य दायकाः ॥४५॥ ॥प्रह्लाद उवाच॥तच्छ्रुत्वा हृष्टमनसः कृत्वार्घ्यं सुरपावनीम् ॥अवनिज्य हरेः पादौ मूर्ध्नाऽपश्चाप्यधारयन् ॥४६॥प्रक्षाल्य सा हरेः पादौ प्रविष्टा वरुणालयम् ॥तस्मिन्महापापहरा गोमती सागरं गता ॥४७॥वरं दत्त्वा ततो विष्णुस्तत्रैवान्तर धीयत ॥सनकाद्या ब्रह्मसुतास्तस्थुस्तत्र समाहिताः ॥४८॥एवं सा गोमती तत्र संजाता सागरंगमा ॥सर्वपापहरा प्रोक्ता पूर्वगंगेति या श्रुता ॥४९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्यं सनत्कुमारतपोबलेन भगवत्प्रादुर्भाव वृत्तान्तवर्णनपुरःसर गोमत्युत्पत्तिमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP