संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर ॥प्रह्लाद उवाच॥सर्वेषामपि भूतानां दैत्यदानवरक्षसाम् ॥भवन्तो वै पूज्यतमा देवादीनां तथैव च ॥१॥अनुज्ञया तु युष्माकं प्रसादात्केशवस्य हि ॥अधिष्ठानं भगवतः कथयामि निबोधत ॥२॥पश्चिमस्य समुद्रस्य तीरमाश्रित्य तिष्ठति ॥कुशस्थलीति या पूर्वं कुशेन स्थापिता पुरी ॥३॥वहते गोमती यत्र सागरेण समंततः ॥द्वारावतीति सा विप्रा आनर्त्तेषु प्रकीर्त्तिता ॥४॥तस्यां वसति विश्वात्मा सर्वकामप्रदो हरिः ॥कला षोडशसंयुक्तो मूर्तिं द्वादशकान्वितः ॥५॥तदेव परमं धाम तदेव परमं पदम् ॥द्वारका सा च वै धन्या यत्राऽऽस्ते मधुसूदनः ॥६॥यत्र कृष्णश्चतुर्बाहुः शंखचक्रगदाधरः ॥नरा मुक्तिं प्रयास्यंति तत्र गत्वा कलौ युगे ॥७॥तच्छ्रुत्वा वचनं तस्य प्रह्लादस्य महात्मनः ॥विस्मयाविष्टमनसस्त- मूचुर्मुनिसत्तमाः ॥८॥ ॥ऋषय ऊचुः॥क्षयं यदुकुले याते भारे चोपहृते भुवः ॥प्रभासे यादवश्रेष्ठः स्वस्थानमगमद्धरिः ॥९॥द्वारावत्या प्लावितायां समंतात्सागरेण हि ॥कथं स भगवांस्तत्र कलौ दैत्य प्रकीर्त्यते ॥१०॥कथयस्व सुरश्रेष्ठ कथं विष्णुर्महीतले ॥स्थितश्चानर्त्तविषय एतद्विस्तरतो वद ॥११॥उग्रसेने नरपतौ प्रशासति वसुन्धराम् ॥कृष्णो यदुपुरीमेतां शोभयामास सर्वतः ॥१२॥रममाणे रमानाथे रामाभिरमणे हरौ ॥एकदा तु समासीने सभायां यदुसत्तमे १३॥कथाभिः क्रियमाणाभिर्विचित्राभिरनेकधा ॥उद्धवः कथयामास प्रचारं यदुनंदनम् ॥१४॥यात्रायामनुसंप्राप्तं दुर्वाससमकल्मषम् ॥स्थितं तं गोमतीतीरे चक्रतीर्थसमीपतः ॥१५॥तच्छ्रुत्वा सहसोत्थाय भगवान्रुक्मिणीगृहम् ॥जगाम हृष्टमनसा विश्वशक्तिरधोक्षजः ॥१६॥आगत्योवाच वैदर्भीं संप्राप्तमृषिसत्तमम् ॥तपोनिर्धूत पाप्माऽयमत्रिपुत्रो महातपाः ॥१७॥आतिथ्येनार्चितो विप्रो दास्यते च महोदयम्॥गृहिणी न गृहे यस्य सत्पात्रागमनं वृथा ॥१८॥तस्य देवा न गृह्णंति पितरश्च तथोदकम्॥तदागच्छस्व गच्छामो निमंत्रयितुमत्रिजम् ॥१९॥तथेत्युक्त्वा तु सा देवी रथमारुरुहे सती ॥रथमारुह्य देवेशो रुक्मिण्या सहितो हरिः ॥जगाम तत्र यत्रास्ते दुर्वासा मुनिसत्तमः ॥२०॥दृष्ट्वा ज्वलंतं तपसा कूले नदनदीपतेः ॥कापालिकस्य पुरतः सुस्नातं वरसीकरैः ॥२१॥प्रणम्य भगवान्भक्त्या पप्रच्छाऽनामयं ततः ॥पश्चाद्विदर्भतनया रुक्मिणी प्रणनाम तम् ॥२२॥दुर्वासाश्चापि तौ दृष्ट्वा दर्शनार्थमुपागतौ ॥पप्रच्छ कुशलं तत्र स्वागतेनाभिनंद्य च ॥२३॥ ॥दुर्वासा उवाच॥कुशलं कृष्ण सर्वत्र कुत्र वासस्तवाऽधुना ॥कति दारा धनापत्यमेतद्विस्तरतो वद ॥२४॥ ॥श्रीकृष्ण उवाच॥समुद्रेण प्रदत्ता मे भूभिर्द्वादशयोजना ॥तस्यां निवसतो ब्रह्मन्पुरी हेममयी मम ॥२५॥प्रासादास्तत्र सौवर्णा नवलक्षाणि संख्यया ॥तस्यां वसामि संहृष्टस्त्वत्प्रसादात्सुनिर्भयः ॥२६॥तच्छुत्वा वचनं तस्य विस्मयाविष्टमानसः ॥प्रत्युवाच स दुर्वासाः प्रहस्य मधुसूदनम् ॥२७॥वसंति तावका ये च तेषां संख्या वदस्व भोः ॥यावत्यश्च महिष्यस्ते पुत्राः परिजनास्तथा ॥२८॥ ॥श्रीकृष्ण उवाच॥ब्रह्मन्षोडशसाहस्रं भार्य्याश्चाष्टाधिका मम॥तासां मध्येऽभीष्टतमा विदर्भाधिपतेः सुता ॥२९॥एकैकस्या दश सुताः कन्या चैका तथा मुने ॥षट्पंचाशद्यदूनां तु कोट्यः परिजनो मम॥३०॥शेषाः प्रकृतयो ब्रह्मंस्तेषां संख्या न विद्यते ॥तच्छ्रुत्वा चिंतयामास किमेतदिति विस्मितः ॥३१॥अहो ह्यनंतवीर्यस्य मायामाश्रित्य तिष्ठतः ॥अनंता सर्वकर्तृत्वे प्रवृत्तिर्दृश्यतामिय म्॥३२॥ ॥दुर्वासा उवाच॥स्वागतं ते महाबाहो ब्रूहि किं करवाणि ते ॥दर्शनेन त्वदीयेन प्रीतिमेति च मे मनः॥३३॥ ॥श्रीकृष्ण उवाच॥यदि प्रसन्नो भगवांस्तदागच्छस्व मे गृहम्॥शिरसा धार्य्य पादांबु प्रयास्यामि पवित्रताम् ॥३४॥दुर्वासा उवाच॥अक्षमासारसर्वस्वं किं मां नयसि माधव॥नय मां यदि मद्वाक्यं करोषि सह भार्यया॥३५॥प्रह्लाद उवाच॥एवमस्त्विति चोक्त्वा स प्रस्थितः स्वरथेन हि।तं दृष्ट्वा प्रस्थितं विष्णुं प्रहस्योवाच भर्त्सयन् ॥३६॥ ॥दुर्वासा उवाच॥दुर्वाससं न जानासि मुञ्चेमान्हयसत्तमान् ॥त्वं च भार्या तथा चेयं वहतं स्वरथेन माम् ॥३७॥॥श्रीकृष्ण उवाच॥भगवन्यथा प्रब्रवीषि विप्र कर्तास्मि तत्तथा ॥त्वया कृपालुना ब्रह्मन्पारितोऽहं सबांधवः ॥३८॥ ॥प्रह्लाद उवाच॥तौ तथा ऋषिवर्य्योऽसौ युक्तां देवीं रथे स्वके ॥तथैव पुण्डरीकाक्षं याहि याहीत्यभाषत ॥३९॥तं दृष्ट्वा देवताः सर्वा वहमानं रथं हरिम् ॥साधुसाध्विति भाषंत ऊचुः सर्वे परस्परम् ॥४०॥अहो ब्रह्मण्यदेवस्य परां भक्तिं प्रपश्यत ॥स्कन्धे कृत्वा धुरं यो हि वहते भार्य्यया सह ॥४१॥विकीर्यमाणः कुसुमैः सुरसंघैर्जनार्दनः ॥जगाम स रथं गृह्य सभार्यो द्वारकां प्रति ॥४२॥उह्यमाने रथे तस्मिन्रुक्मिणी तृषिताऽभवत् ॥उवाच कृष्णं वैदर्भी श्रमव्याकुललोचना ॥४३॥श्रान्ता भारपरिक्लिष्टा वहती कोपनं द्विजम् ॥पाययित्वोदकं कान्त नय मां मन्दिरं स्वकम् ॥४४॥तच्छ्रुत्वा वचनं तस्याः पादाक्रान्त्या धरातलात् ॥आनयामास भगवान्गगां त्रिपथगां शुभाम् ॥४५॥तद्दृष्ट्वा निर्मलं शीतं सुगंधं पावनं तथा ॥पपौ पिपासिता देवी रुक्मिणी जाह्नवीजलम् ॥४६॥पीतं तया जलं दृष्ट्वा चुकोप ऋषिसत्तमः ॥जज्वाल ज्वलनप्रख्यः शशाप परमेश्वरीम् ॥४७॥ ॥दुर्वासा उवाच ॥मामपृष्ट्वा जलं यस्मात्पीतवत्यसि रुक्मिणी॥तस्मात्पानरता नित्यं भविष्यसि न संशयः ॥४८॥अवियुक्ता रथाद्यस्मान्मामपृष्ट्वा जलं त्वया॥पीतं तस्माच्च कृष्णेन वियुक्ता त्वं भविष्यसि ॥४९॥ ॥प्रह्लाद उवाच॥एतावदुक्त्वा वचनं क्रोधसंरक्तलोचनः ॥परित्यज्य रथं विप्रो भूमावेवावतिष्ठति ॥५०॥एवं शप्ता तदा देवी रुदोदातीव विह्वला ॥उवाच कृष्णं करुणं कथं स्थास्ये त्वया विना ॥५१॥ ॥श्रीकृष्ण उवाच॥आयास्ये प्रत्यहं देवि द्विकालं भवनं तव ॥यो मां पश्यति चात्रस्थं स त्वामेव प्रपश्यति ॥५२॥मां हि दृष्ट्वा नरो यस्तु त्वां न पश्यति भक्तितः ॥अर्द्ध्ं यात्रा फलं तस्य भविष्यति न संशयः ॥५३॥आश्वास्य च प्रियामेवं ब्राह्मणं यदुनन्दनः ॥ततः प्रसादयामास दुर्वाससमकल्मषम् ॥५४॥बाह्यो पवनमध्ये तु पूजयामास तं तथा ॥अवनिज्य स्वयं पादौ विप्रपादावनेजनम् ॥धारयामास शिरसा जगतः पावनो हरिः ॥५५॥दत्त्वार्घ्यं गां च विप्राय मधुपर्कं स भक्तितः ॥विधिवद्भोजयामास षड्रसेन द्विजोत्तमम् ॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये दुर्वासो द्वारकानयन दुर्वासोदत्त रुक्मिणीशापवृत्तान्तवर्णनं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP