संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ३० प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ३० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३० Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥तदा तेषां सुतीर्थानां क्षेत्राणामभवन्मुदः ॥गन्तुं द्वारवतीं पुण्यां सर्वेषामपि सर्वशः ॥१॥द्वारकागमने दृष्ट्वा तथा नारदगौतमौ ॥महोत्सवो महांस्तत्र भविष्यति मनोहरः ॥२॥तीर्थानां कृष्णयात्रायां गन्तव्यमित्यवो चतुः ॥अथ ते ह्यृषयो देवाः सर्वतीर्थसमन्विताः ॥३॥गौतमीं तु पुरस्कृत्य ययुर्द्वारवतीं मुदा ॥तदा सर्वाणि तीर्थानि क्षेत्रारण्यानि कृत्स्नशः ॥द्वारकागमनं चक्रुः सानन्दा ऋषयः सुराः ॥४॥श्रद्धया परया भक्त्या कृष्णदर्शनलालसाः॥वीणानिनादतत्त्वज्ञं नारदं पथि तेऽ ब्रुवन् ॥५॥ ॥ऋषय ऊचुः॥राशयः पुण्यपुञ्जानां कृता वै तपसां तथा ॥यज्ञदानव्रतानां च तीर्थानां महतां भुवि ॥६॥संप्राप्तस्तत्प्रसादोऽयं यद्द्रक्ष्यामः कुशस्थलीम् ॥पृच्छामहेऽधुना त्वां वै योगिनां परमं गुरुम् ॥७॥द्वारकायास्तु यात्रायां को विधिः संप्रकीर्तितः ॥नियमः कोऽत्र कर्त्तव्यो वर्जनीयं च किं मुने ॥८॥श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं किं च वै पथि ॥उत्सवाश्चात्र के प्रोक्ता द्वारकायाश्च तत्पथि॥।एकैकश्च महाभाग भक्तानन्दविवर्द्धनम् ॥एतत्सर्वं महाभाग कृपया संप्रकीर्त्यताम् ॥१०॥ ॥श्रीनारद उवाच॥कृताभ्यंगस्तु पूर्वेद्युः संपूज्य श्रद्धया हरिम्॥भोजयेद्वैष्णवान्विप्रान्स्वशक्त्या संप्रहर्षितः ॥११॥अनुज्ञातो महाविष्णोः प्रसादमुपयुज्य वै ॥शयीत भुवि सुप्रीतो द्वारकां कृष्णमानसः ॥१२॥श्वोभूते तु शुचिः स्नातः संपूज्य जगदीश्वरम् ॥प्रदक्षिणं नमस्कृत्य महाविष्णोरनुज्ञया ॥पृष्ट्वा कुलवृद्धांश्च ब्राह्मणान्वैष्णवान्प्रियान् ॥१२॥ततस्तु तदनुज्ञातो गीतवादित्रसंस्तवैः ॥यात्रारंभं प्रकुर्वीत द्वारकायां प्रहर्षितः ॥१४॥द्वारकां गच्छमानस्तु शान्तो दांतः शुचिः सदा ॥ब्रह्मचर्यमधः शय्यां कुर्वीत नियतेन्द्रियः ॥१५॥सहस्रनामपठनं पुराणपठनं तथा ॥कर्त्तव्यं सकृपं चित्तं सतां शुश्रूषणं तथा ॥१६॥अन्नदानादिकं सर्वं विभवे सति मानवः ॥अपि स्वल्पं स्वशक्त्या वै कृतं कोटिगुणं भवेत् ॥१७॥पथि कृष्णस्य यो भक्त्या ग्रासमेकं प्रयच्छति ॥द्वीपांता तेन दत्ता भूः पुण्यस्यान्तो न विद्यते ॥१८॥किं पुनर्द्वारकाक्षेत्रे कृष्णस्य च समीपतः ॥कलावेकेकसिक्थे च राजसूयायुतं फलम् ॥१९॥गयाश्राद्धसहस्राणि कृतानि शतसंख्यया ॥अन्नदानं कृतं यैस्तु द्वारकापथि मानवैः ॥२०॥औषधं चान्नपानीयं पादुके कंबलं तथा॥वासांस्युपानहौ चैव वित्तं च विभवे सति ॥वर्जयेत्संकरं विद्वान्यूथालापांस्तथैव च ॥२१॥परनिन्दां च पैशुन्यं परस्य परिवञ्चनम् ॥परान्नं परपाकं च सति वित्ते त्यजेद्बुधः ॥२२॥न दोषो हीनवित्तस्य तावन्मात्रपरिग्रहे ॥श्रोतव्या सत्कथा विष्णोर्नामसंकीर्त्तनामृतम् ॥२३॥द्वारकापथिगच्छद्भिरन्योन्यं भक्तिवर्द्धनम् ॥जप्तव्यं वैदिकं जाप्यं स्तोत्रमागमिकं तथा ॥२४॥यात्रायां यत्फलं प्रोक्तं श्रीकृष्णस्य च वै कलौ ॥न शक्यते मया वक्तुं वदनैर्युगसंख्यया ॥२५॥इत्येतत्कथितं सर्वं यत्पृष्टं तु द्विजोत्तमाः ॥यतध्वं तत्प्रयत्नेन विष्णुप्राप्तौ च सत्वरम् ॥२६॥ ॥श्रीप्रह्लाद उवाच॥एवं ते नारदेनोक्ता मुनयो हृष्टमानसाः ॥चक्रुस्ते सहिताः सर्वे कृष्णदेवस्य तत्पथि ॥२७॥केचिच्छृण्वन्ति ता विष्णोः सत्कथा लोकविश्रुताः ॥यासां संश्रवणादेव भगवान्विशते हृदि ॥२८॥कीर्त्यमानानि नामानि महापुण्यप्रदानि वै ॥पावनानि सदा लोके कलौ विप्रा विशेषतः ॥२९॥पुराणसंहिता दिव्या मुनिभिः परिकीर्तिताः ॥प्रकाशयंति या विष्णोर्महिमानं सुमंगलम् ॥३०॥सद्गुणाः कर्मवीर्य्याणि कृतानि विष्णुना पुरा ॥लीलावताररूपैस्तु शृण्वन्ति परया मुदा॥३१॥अपरे वासुदेवस्य चरितानि सुमंगलाः ॥वदंति परया भक्त्या सानन्दाः साश्रुलोचनाः ॥३२॥अन्ये स्मरंति देवेशमनादिनिधनं विभुम्॥केचिज्जपंति मुनयः स्तोत्राणि परया मुदा ॥३३॥केचित्तु शतनामानि जपन्ति मुनयः पथि ॥अन्ये सहस्रनामानि लक्षनाम तथाऽपरे ॥३४॥केचिल्लौकिकगीतानि हरिनामानि हर्षिताः ॥उत्सवैश्च व्रजंत्यन्ये पताकादिविभूषिताः ॥३५॥गीतवादित्रघोषेण करतालस्वनेन च॥नास्ति धन्यतमस्तस्मात्त्रिषु लोकेषु कश्चन ॥३६॥दर्शनं यस्य संजातं वैष्णवानामनुत्तमम्॥तथैव जाह्नवी पुण्या यमुना च सरस्वती ॥३७॥रेवाद्याः सरितः सर्वाः प्रचक्रुर्गीतनर्त्तनम् ॥प्रयागादीनि तीर्थानि सागराः पर्वतोत्तमाः ॥३८॥वाराणसी कुरुक्षेत्रं पुण्यान्यन्यानि कृत्स्नशः ॥त्रैलोक्ये यानि तीर्थानि क्षेत्राणि देवनायकाः ॥चक्रुर्गीतं च नृत्यं च द्वारकायाश्च सत्पथि ॥३९॥एकैकस्मिन्पदे दत्ते द्वारकापथि गच्छताम् ॥पुण्यं क्रतुसहस्राणां तत्पादरजसंख्यया ॥४०॥अथ ते मुनयः सर्वे तीर्थक्षेत्रादिसंयुताः ॥श्रीमत्कृष्णालयं दूराद्ददृशुर्नारदादयः ॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकां प्रति गोदावर्यादितीर्थक्षेत्रदेव महर्षिगमनोत्सवयात्रावर्णनंनाम त्रिंशत्तमोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP