द्वारकामाहात्म्यम् - अध्याय १६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
प्रह्लाद उवाच॥
ततो गच्छेद्द्विजश्रेष्ठा गदातीर्थमनुत्तमम्॥
यत्र स्नात्वा नरो भक्त्या लभेद्भूदानजं फलम् ॥१॥
तर्पयेत्पितृदेवांश्च ऋषींश्चैव यथाक्रमम् ॥
श्राद्धं च कारयेत्तत्र पितॄणां तृप्तिहेतवे ॥२॥
गदातीर्थे तु देवेशं विष्णुं वाराहरूपिणम् ॥
समभ्यर्च्य नरो भक्त्या विष्णुलोके महीयते ॥३॥
नागतीर्थं ततो गच्छेत्सरः परमशो भनम्॥
यत्र स्नात्वा नरः सम्यङ्नागलोकमवाप्नुयात् ॥४॥
भद्रतीर्थं ततो गच्छेत्सरस्त्रिभुवनार्चितम् ॥
स्नानमात्रेण लभते तिलधेनुफलं नरः ॥५॥
चित्रातीर्थं ततो गच्छेत्सरः परमशोभनम् ॥
स्नानमात्रेण लभते घृतधेनुफलं नरः ॥६॥
यदा द्वारावती विप्रा प्लाविता सागरेण हि ॥
पुण्यानि बहुतीर्थानि च्छन्नानि जलपांसुभिः ॥७॥
दृश्यानि कतिचित्संति ह्यदृश्यान्यपराणि च ॥
तानि सर्वाणि विप्रेन्द्राः कथयिष्यामि सर्वतः ॥८॥
चंद्रभागां ततो गच्छेत्सर्वपापप्रणाशिनीम् ॥
यत्र स्नात्वा नरो भक्त्या वाजपेयफलं लभेत् ॥९॥
देवी चंद्रार्चिता यत्र यशोदा नंदनंदिनी ॥
कौमारिका शक्तिहस्ता खङ्गखेटकधारिणी ॥१०॥
केश्यादिदैत्यदलिनी स्वसा वै रामकृष्णयोः ॥
यस्या दर्शनमात्रेण सर्वान्कामानवाप्नुयात् ॥११॥
ततो गच्छेत विप्रेन्द्रास्तीर्थं महिषसंज्ञकम् ॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥१२॥
मुक्तिद्वारं ततो गच्छेत्तीर्थं पाप प्रणाशनम् ॥१३॥
वसिष्ठेन समानीता मुनिना यत्र गोमती ॥
स्नातो भवति गंगायां यत्र स्नात्वा कलौ युगे ॥१४॥
गोमती निःसृता यस्मा त्प्रविष्टा वरुणालयम् ॥
तत्र स्नात्वा नरो भक्त्या अश्वमेधफलं लभेत् ॥१५॥
भृगुणा हि तपस्तप्तं स्थापिता यत्र चांबिका ॥
भृग्वर्चिता ततो देवी प्रसिद्धा श्रूयते क्षितौ ॥१६॥
संसिद्धिं परमां याति यस्याः संस्मरणान्नरः ॥
शिवलिंगान्यनेकानि यत्र सन्ति महीतले ॥१७॥
ततो गच्छेत विप्रेन्द्राः कालिन्दीसर उत्तमम्॥
कालिन्दी सूर्यतनया सरश्चक्रे त्वनुत्तमम् ॥१८॥
तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥
सांबतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ॥१९॥
कृत्वा श्राद्धं च विधिवल्लभेद्गोदानजं फलम् ॥२०॥
गच्छेच्च शांकरं तीर्थं ततस्त्रैलोक्यपावनम् ॥
यत्र स्नात्वा नरो भक्त्या लभेद्बहुसुवर्णकम् ॥२१॥
ततो नागसरो गच्छेत्तीर्थं पापप्रणाशनम् ॥
पितॄन्सन्तर्प्य विधिवन्नागलोकमवाप्नुयात् ॥२२॥
लक्ष्मीं नदीं ततो गच्छेद्गच्छन्तीं सागरं प्रति ॥
यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥२३॥
श्राद्धे कृते तु विप्रेन्द्राः पितरो मुक्तिमाप्नुयुः ॥
दाने मनोरथावाप्तिर्जायते नात्र संशयः ॥२४॥
कंबुसरस्ततो गच्छेत्तीर्थं पापप्रणाशनम्॥
तर्पणे च कृते श्राद्धे ह्यग्निष्टोमफलं लभेत् ॥२५॥
कुशतीर्थं ततो गच्छेत्स्नात्वा सन्तर्पयेत्पितॄन्॥
दानं दत्त्वा यथाशक्त्या निर्मलं लोकमाप्नुयात् ॥२६॥
द्युम्नतीर्थं च तत्रैव सर्वपापप्रणाशनम्॥
कृत्वा श्राद्धं च तत्रैव वाजिमेधफलं लभेत् ॥२७॥
कुशतीर्थं ततो गच्छेत्पितॄणां तृप्तिरक्षया ॥
यत्र श्राद्धात्तर्पणाच्च जायते नात्र संशयः ॥ ॥२८॥
जालतीर्थं ततो गच्छेत्सर्वपापहरं शुभम् ॥
दुर्वाससा यत्र शप्ताः कोपाद्यदुकुमारकाः ॥२९॥
देवो जालेश्वरस्तत्र सं बभूव उमापतिः ॥
जालेश्वरं नरो दृष्ट्वा सद्यः पापात्प्रमुच्यते ॥३०॥
संपूज्य देवं भक्त्या च शिवलोकमवाप्नुयात् ॥३१॥
चक्रस्वामिसुतीर्थं च ततो गच्छेद्धि मानवः ॥
कृत्वा स्नानं पितॄंस्तर्प्य विष्णुलोकमवाप्नुयात् ॥३२॥
जरत्कारुकृतं तीर्थं सर्वपापप्रणाशनम् ॥
स्नात्वा तत्र द्विजश्रेष्ठा न दुर्गतिमवाप्नुयात् ॥३३॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं खञ्जनकाभिधम् ॥
आसीत्खञ्जनको नाम दैत्यश्चातिबलान्वितः ॥३४॥
ततः खञ्जनकं तीर्थं तस्य नाम्नेति विश्रुतम् ॥
तत्र स्नात्वा नरो याति सोमलोकं न संशयः ॥३५॥
सन्ति तीर्थान्यनेकानि सुगुप्तानि द्विजोत्तमाः ॥
तानि गच्छेत्तु विप्रेन्द्राः सर्वपापापनुत्तये ॥३६॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थमानकदुन्दुभेः ॥
शूरतीर्थं परमकं गदतीर्थमतः परम् ॥३७॥
गावल्गणस्य तीर्थं च अक्रूरस्य महात्मनः ॥
बलदेवस्य तीर्थं तु उग्रसेनस्य चापरम् ॥३८॥
अर्जुनस्य च तीर्थं तु सुभद्रातीर्थमेव च ॥
देवकीतीर्थमाद्यं तु रोहिणीतीर्थमेव च ॥३९॥
उद्धवस्य च तीर्थं तु सारंगाख्यं तथैव च ॥
सत्यभामाकृतं तीर्थं भद्रातीर्थमतः परम् ॥४०॥
जामदग्न्यस्य तीर्थं तु रामस्य च महात्मनः ॥
भासतीर्थं च तत्रैव शुकतीर्थमतः परम् ॥४१॥
कर्दमस्य च तीर्थं तु कपिलस्य महात्मनः ॥
सोमतीर्थं च तत्रैव रोहिणीतीर्थमेव च ॥४२॥
एतान्यन्यानि संक्षेपान्मया वः कथितानि च ॥
सर्वपापहराणीह मोक्षदानि न संशयः ॥४३॥
प्रच्छन्नानि द्विजवरास्तीर्थानि कलिसंक्रमे ॥
प्लावितानि समुद्रेण पांसुनाऽप्युदकेन च ॥४४॥
एतन्मया वः कथितं संक्षेपात्तीर्थविस्तरम् ॥
आत्मप्रज्ञानुमानेन किमन्यच्छ्रोतुमिच्छथ ॥४५॥
शृणुयात्परया भक्त्या तीर्थयात्रामिमां द्विजाः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्ये तीर्थवृन्दमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : February 04, 2025

TOP