संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥प्रह्लाद उवाच॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं पापप्रणाशनम् ॥
कृकलासमिति ख्यातं नृगतीर्थमनुत्तमम् ॥१॥
नृगो यत्र महीपालः कृकलासवपुर्धरः ॥
कृष्णेन सह संगत्य संप्राप परमां गतिम् ॥२॥; ॥
 ॥ऋषय ऊचुः॥
नृगो नाम नृपः कोऽयं कथं कृष्णेन संगतः ॥
कर्मणा कृकलासत्वं केन तद्वद विस्तरात् ॥३॥
 ॥प्रह्लाद उवाच॥
नृगो नाम नृपो विप्राः सार्वभौमो बलान्वितः ॥
बुद्धिमान्धृतिमान्दक्षः श्रीमान्सर्वगुणान्वितः ॥४॥
अनेकशतसाहस्रा भूमिपा अपि तद्वशाः ॥॥
हस्त्यश्वरथसंघैश्च पत्तिभिर्बहुभिर्वृतः ॥५॥
सैन्यं च तस्य नृपतेः कोशं चैवाक्षयं तथा ॥
स नित्यं गुरुभक्तश्च देवताराधने रतः ॥६॥
महा दानानि विप्रेन्द्रा ददात्यनुदिनं नृपः ॥
शश्वत्स गोसहस्रं तु ददाति नृपसत्तमः ॥७॥
प्रक्षाल्य चरणौ भक्त्या ह्युपविश्यासने शुभे ॥
परिधाप्य शुभे क्षौमे सुगन्धेनोपलिप्य च ॥८॥
संपूज्य पुष्पमालाभि धूपेन च सुगन्धिना ॥
ददौ दक्षिणया सार्द्धं प्रतिविप्राय गां तदा ॥
तांबूलसहितां भक्त्या विष्णुर्मे प्रीयतामिति ॥९॥
एवं प्रददतस्तस्य यजतश्च तथा मखैः ॥
ययौ कालो द्विजश्रेष्ठा भोगांश्चैवानुभुञ्जतः ॥१०॥
एकदा तु द्विजश्रेष्ठं जैमिनिं संशितव्रतम् ॥
श्रद्धया तं च नृपतिः प्रतिग्रहपराङ्मुखम् ॥
उवाच वाक्यं नृपतिः कृतांजलिपुटः स्थितः ॥११॥
मामुद्धर महाभाग कृपां कुरु तपोनिधे ॥
गृहाण गां मया दत्तां दयां कृत्वा ममोपरि ॥१२॥
तच्छ्रुत्वा वचनं तस्य अनिच्छन्नपि गौरवात् ॥
नृपस्य चाब्रवीद्विप्र एवमस्त्विति लज्जितः ॥१३॥
अवनिज्य ततः पादौ शिरसा धारयज्जलम् ॥
सुवर्णशृंगसहितां रौप्यखुरविभूषिताम् ॥१४॥
रत्नपुच्छां कांस्यदोहां सितवस्त्रावगुंठिताम् ॥
समभ्यर्च्य च विप्रेन्द्रं ददौ दक्षिणयान्विताम् ॥१५॥
आसीमान्तमनुव्रज्य हृष्टो राजा बभूव ह ॥
तरुणीं हंसवर्णां च हंसीनामेति विश्रुताम् ॥१६॥
गां गृह्य स्वगृहं प्राप्तो दाम्ना बद्धां सवत्सकाम् ॥
स तस्यै यवसं चार्द्रं ददौ ब्राह्मणसत्तमः ॥१७॥॥
सुतृप्ता यवसेनैव मध्याह्ने तृषितां तदा ॥
गृहीत्वा निर्ययौ विप्रो दामबद्धां जलाशयम् ॥१८॥
मार्गे गजाश्वसंबाधे त्रस्ता सा उष्ट्रदर्शनात् ॥
हस्तादाच्छिद्य सा धेनुर्ब्राह्मणस्य ययौ तदा ॥१९॥
विचिन्वन्सकलामुर्वीं नापश्यत्तां द्विजर्षभः ॥
सा ययौ विद्रुता धेनुस्तन्महद्राजगोधनम् ॥२०॥
द्वितीयेऽह्नि पुनर्विप्रमाहूय नृपसत्तमः ॥
संपूज्य विधिवद्भक्त्या वस्त्रालंकारभूषणैः ॥२१॥
विधिवद्गां ददौ तां च स नृपः सोमशर्मणे ॥
गृहीत्वा राजभवनान्निर्ययौ गां द्विजर्षभः ॥२२॥
आशंसमानो राजानं धर्मज्ञमिति कोविदम् ॥
स च विप्रो विचिन्वानः सर्वतो गां सुदुःखितः ॥ ॥२३॥
ददर्श पथि गच्छन्तीं पृष्ठतः सोमशर्मणः ॥
दृष्ट्वा तां गां च स मुनिर्जैमिनिस्तमभाषत ॥२४॥
मम गां चापि हृत्वा त्वं नयसे दस्युवत्कथम् ॥
स तस्य वचनं श्रुत्वा विस्मयं दस्युकीर्त्तनात् ॥२५॥
राजतो हि मया लब्धां गां नयामि स्वमन्दिरम् ॥
गोहर्त्तेति च मां कस्माद्ब्रवीषि द्विजसत्तम ॥२६॥
 ॥ब्राह्मण उवाच॥
मयापि राजतो लब्धा ममेयं गौर्न संशयः ॥
कथं नयसि विप्र त्वं मयि जीवति मन्दिरम् ॥२७॥
सोऽब्रवीदद्य मे लब्धा कथं मां वदसे मृषा ॥
सोऽब्रवीद्ध्यो मया लब्धा बलान्नेतुं त्वमिच्छसि ॥२८॥
ममेयमिति संक्रुद्धः सोमशर्माऽब्रवीद्वचः ॥
प्रज्वलत्क्रोधरक्ताक्षो ममेयमिति सोऽपरः ॥२९॥
विवदतौ तथा विप्रौ राजद्वारमुपागतौ ॥
कुर्वाणौ कलहं घोरं त्यक्तुकामौ स्वजीवितम् ॥३०॥
संक्रुद्धौ ब्राह्मणौ दृष्ट्वा शपन्तौ तौ परस्परम् ॥
राज्ञे निवेदयामास द्वास्थं प्रणयपूर्वकम् ॥३१॥
अवज्ञाय तदा विप्रौ विवदन्तौ रुषान्वितौ ॥
कामव्याकुलचेतस्को न बहिर्निःसृतो नृपः ॥३२॥
एवं विवदमानौ तौ त्रिरात्रं समुपस्थितौ ॥
अवज्ञातौ नृपेणाथ राजानं प्रति च क्रुधा ॥३३॥
ऊचतुः कुपितो वाक्यं सामर्षौ नृपतिं प्रति ॥
अवमन्यसे नौ यस्मात्त्वं न निर्गच्छसि मन्दिरात् ॥३४॥
शास्ता भवान्प्रजानां हि न न्यायेन नियोक्ष्यति ॥
भविष्यति भवांस्तस्मात्कृकलासो न संशयः ॥३५॥
एवं शप्त्वा तदा विप्रावन्यस्मै गां प्रदाय तौ ॥
क्षुधितौ खेदसंयुक्तौ स्वगृहं गन्तुमुद्यतौ ॥३६॥
प्रस्थितौ तौ नृगो द्वार आगत्य समुपस्थितः ॥
दंडवत्प्रणिपत्याऽऽशु कृतांजलिरभाषत ॥३७॥
अमोघवचना यूयं तत्तथा न तदन्यथा ॥
ममोपरि कृपां कृत्वा शापांत उपदिश्यताम् ॥३८॥
तस्य तद्वचनं श्रुत्वा ऊचतुर्वचनं नृपम् ॥
द्वापरस्य युगस्यान्तं भगवान्देवकीसुतः ॥३९॥
वसुदेवगृहे राजन्हरिराविर्भविष्यति ॥
तस्य संस्पर्शनादेव शापमुक्तिर्भविष्यति ॥४०॥
इत्युक्त्वा तौ तदा विप्रौ प्रयातौ स्वनिवेशनम् ॥
राजा बहुविधान्भोगान्भुक्त्वा दत्त्वा च भूरिशः ॥४१॥
इष्ट्वा च विविधैर्यज्ञैः कालधर्ममुपेयिवान् ॥
ततः स गतवान्विप्रा धर्मराजनिवेशनम् ॥४२॥
सत्कृत्योक्तो यमेनाथ स्वागतेन नृपोत्तमः ॥
प्रथमं सुकृतं राजन्नथवा दुष्कृतं त्वया ॥
भोक्तव्यमिति मे ब्रूहि तत्ते संपाद्यते मया ॥४३॥
 ॥नृग उवाच॥
यद्यस्ति दुष्कृतं किंचित्प्रथमं प्रतिपादय ॥
अनुज्ञातो यमेनैवं कृकलासो भवेति वै ॥
ततो वर्षसहस्राणि कृकलासत्वमाप्तवान् ॥४४॥
एकस्मिन्दिवसे विप्राः सर्वे यदुकुमारकाः ॥
वनं जग्मुर्मृगान्हन्तुं सर्वे कृष्णसमन्विताः ॥४५॥
तृषार्द्दिताश्च मध्याह्ने विचिन्वंतो जलं ह्रदे ॥
सत्वं च सुमहत्तत्र कृकलासं च संस्थितम् ॥४६॥
चक्रुश्चोद्धरणे तस्य यत्नं यदुकुमारकाः ॥
आकृष्यमाणः स तदा गुरुत्वान्न चचाल ह ॥४७॥
यदा न शेकुस्ते सर्व आचख्युः कृष्णरामयोः ॥
ददर्श तं तदा कृष्णो नृगं मत्वा हसन्निव ॥४८॥
चिक्षेप वामहस्तेन लीलयैव जगत्पतिः ॥
स संस्पृष्टो भगवता विमुक्तः शापबंधनात् ॥४९॥
त्यक्त्वा कलेवरं राजा दिव्यमाल्यानुलेपनः ॥
कृतांजलिरुवाचेदं भक्त्या परमया युतः ॥५०॥
नमस्ते जगदाधार सर्गस्थित्यंतकारिणे ॥
सहस्रशिरसे तुभ्यं ब्रह्मणेऽनंतशक्तये ॥५१॥
एवं संस्तुवतः प्राह भगवान्देवकीसुतः ॥
ददामि ते वरं तुष्टो यत्ते मनसि वर्त्तते ॥५२॥
याहि पुण्यकृताँल्लोकान्दर्शनात्स्पर्शनाच्च मे ॥
एवमुक्तः स देवेन संप्रहृष्टतनूरुहः ॥५३॥
उवाच यदि तुष्टोऽसि यदि देयो वरो मम ॥
गर्त्तेयं मम नाम्ना तु ख्यातिं गच्छतु केशव ॥५४॥
यः स्नात्वा परया भक्त्या पितॄन्संतर्पयिष्यति ॥
त्वत्प्रसादेन गोविंद विष्णुलोकं स गच्छतु ॥५५॥
एवमुक्त्वा स भगवान्पुनर्द्वारावतीमगात् ॥५६॥
स च राजा विमानेन दिव्यमाल्यानुलेपनः ॥
जगाम भवनं विष्णोर्विबुधैरनुसंस्तुतः ॥५७॥
 ॥प्रह्लाद उवाच॥
तदाप्रभृति विप्रेंद्राः स कूपो नृगसंज्ञया ॥
वरदानाच्च कृष्णस्य पावनः सर्वदेहिनाम् ॥५८॥
तत्र गत्वा द्विजश्रेष्ठा ह्यर्घ्यं दद्याद्यथाविधि ॥
फलपुष्पाक्षतैर्युक्तं चंदनेन च भूसुराः ॥५९॥
नमस्ते विश्वरूपाय विष्णवे परमात्मने ॥
अर्घ्यं गृहाण देवेश कूपेऽस्मिन्नृगसंज्ञके ॥६०॥
ततः स्नायाद्द्विजश्रेष्ठा मृदमालिप्य पाणिना ॥
संतर्पयेत्पितॄन्देवान्मनुष्यांश्च यथाक्रमात् ॥६१॥
ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयान्वितः ॥
विप्रेभ्यो भोजनं दद्याद्दक्षिणां च स्वशक्तितः ॥६२॥
विशेषतः प्रदातव्या सवत्सा गौः स्वलंकृता ॥
शय्या सोपस्करां दद्याद्विष्णुर्मे प्रीयतामिति ॥६३॥
दीनांधकृपणानां च सदा तत्तीरवासिनाम् ॥
दद्याद्दानं स्वशक्त्या च वित्त शाठ्यविवर्जितः ॥६४॥
स्नानमात्रेण विप्रेन्द्रा लभेद्गोदानजं फलम्॥
पितृणां श्राद्धदानेन वियोनिं न च गच्छति ॥६५॥
कृकलासे कृतं श्राद्धं येनैव तर्पणं तथा ॥
स गच्छेद्विष्णुलोकं तु पितृभिः सहितो नरः ॥६६॥
तथा मनोरथावाप्तिर्यात्रा च सफला भवेत् ॥
सर्वतीर्थफलावाप्तिं लभते नात्र संशयः ॥६७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कृकलासापरनामकनृग तीर्थमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥१०॥छ ॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP