द्वारकामाहात्म्यम् - अध्याय १
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥शौनक उवाच॥
कथं सूत युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥
बहुपाखंडसंकीर्णे प्राप्स्यामो मधुसूदनम् ॥१॥
युगत्रये व्यतिक्रान्ते धर्माचारपरे सदा ॥
प्राप्ते कलियुगे घोरे क्व विष्णुर्भगवानिति ॥२॥
॥सूत उवाच॥
दिवं याते महाराजे रामे दशरथात्मजे ॥
दुष्टराजन्यभारेण पीडिते धरणीतले ॥३॥
देवानां कार्यसिद्ध्यर्थं भूभारहरणाय च ॥
वसुदेवगृहे साक्षादाविर्भूते जनार्दने ॥४॥
नंदव्रजं गते देवे पूतनाशोषणे सति ॥
घातिते च तृणावर्ते शकटे परिवर्तिते ॥५॥
दमिते कालिये नागे प्रलंबे च निषूदिते ॥
धृते गोवर्धने शैले परित्राते च गोकुले ॥६॥
सुरभ्या चाभिषिक्ते तु इन्द्रे च विमदीकृते ॥
रासक्रीडारते देवे दारिते केशिदानवे ॥७॥
अक्रूरवचनाद्देवे मथुरायां गते हरौ ॥
हते कुवलयापीडे मल्लराजे च घातिते ॥८॥
पश्यतां देव दैत्यानां भोजराजे निपातिते ॥
यदुपुर्यामभिषिक्त उग्रसेने नराधिपे ॥९॥
जरासंधबले रौद्रे यवने च हते क्षितौ ॥
राजसूये क्रतुवरे चैद्ये चैव निपातिते ॥१०॥
निवृत्ते भारते युद्धे भारे च क्षपिते भुवः ॥
यात्राव्याजसमानीते प्रभासं यादवे कुले ॥११॥
मद्यपानप्रसक्ते तु परस्परवधो द्यते ॥
कलहेनातिरौद्रेण विनष्टे यादवे कुले ॥१२॥
गात्रं संत्यज्य चात्रैव गतेऽनंते धरातलात् ॥
अश्वत्थमूललमाश्रित्य समासीने जनार्दने ॥ ॥१३॥
व्याधप्रहारभिन्नांगे परित्यक्ते कलेवरे ॥
स्वधामसंस्थिते देवे पार्थे च पुनरागते ॥१४॥
यदुपुर्य्यां प्लावितायां सागरेण समंततः ॥
शक्रप्रस्थं ततो गत्वा कारयित्वा हरेर्गृहम् ॥१५॥
द्वापरे च व्यतिक्रांते धर्माधर्मविमिश्रिते ॥
संप्राप्ते च महारौद्रे युगे वै कलिसंज्ञिते ॥१६॥
क्षीयमाणे च सद्धर्मे विधर्मे प्रबले तथा ॥
नष्टधर्मक्रियायोगे वेदवादबहिष्कृते ॥
एकपादे स्थिते धर्मे वर्णाश्रमविवर्जिते ॥१७॥
अस्मिन्युगे विलुलिते ह्यृषयो वनचारिणः ॥
समेत्यामंत्रयन्सर्वे गर्गच्यवनभार्गवाः ॥१८॥
असितो देवलो धौम्यः क्रतुरुद्दालकस्तथा ॥
एते चान्ये च बहवः परस्परमथाब्रुवन् ॥१९॥
पश्यध्वं मुनयः सर्वे कलिव्याप्तं दिगंतरम् ॥
समंतात्परिधावद्भिर्दस्युभिर्बाध्यते प्रजा ॥२०॥
अधर्मपरमैः पुंभिः सत्यार्जवनिराकृतैः ॥
कथं स भगवान्विष्णुः संप्राप्यो मुनिसत्तमाः ॥२१॥
को वा भवाब्धौ पततस्तारयिष्यति संगतान् ॥
न कलौ संभवस्तस्य त्रियुगो मधुसूदनः ॥
तं विना पुंडरीकाक्षं कथं स्याम कलौ युगे ॥२२॥
तेषां चिंतयतामेवं दुःखितानां तपस्विनाम् ॥
उवाच वचनं तत्र ऋषिरुद्दालकस्तदा ॥२३॥
उद्दालक उवाच ॥
यावन्न कलिदोषेण लिप्यामो मुनिसत्तमाः ॥
अपापा ब्रह्मसदनं गच्छामः परिसंगताः ॥२४॥
पृच्छामो लोकधातारं स्थितं विष्णुं कलौ युगे ॥
यदि विष्णुः कलौ न स्याद्रुद्रेण ब्रह्मणाऽसह ॥२५॥
तं विना पुंडरीकाक्षं त्यक्ष्यामः स्वकलेवरम् ॥
विना भगवता लोके कः स्थास्यति कलौ युगे ॥२६॥
तच्छ्रुत्वा वचनं तस्य ऋषयः संशितव्रताः ॥
साधुसाध्विति ते चोक्त्वा प्रस्थिता ब्रह्मणोंऽतिकम् ॥२७॥
कथयन्तः कथां विष्णोः स्वरूपमनुवर्णनम् ॥
तापसाः प्रययुः सर्वे संहृष्टा ब्रह्मणोंऽतिकम् ॥२८॥
ददृशुस्ते तदा देवमासीनं परमासने ॥
पितामहभूतगणैर्मूर्तामूर्तैर्वृतं तथा ॥२९॥
दृष्ट्वा चतुर्मुखं देवं दंडवत्प्रणताः क्षितौ ॥
प्रणम्य देवदेवं तु स्तोत्रेण तुषुवुस्तदा ॥३०॥
॥ऋषय ऊचुः॥
नमस्ते पद्मसंभूत चतुर्वक्त्राक्षयाव्यय ॥
नमस्ते सृष्टिकर्त्रे तु पितामह नमोऽस्तु ते ॥३१॥
एवं स्तुतः सन्मुनिभिः सुप्रीतः कमलोद्भवः ॥
पाद्यार्घ्येणाभिवन्द्यैतान्पप्रच्छ मुनिपुंगवान् ॥३२॥
॥ब्रह्मोवाच ॥
किमागमनकृत्यं वो ब्रूत तत्त्वेन पुत्रकाः ॥
कुशलं वो महाभागाः पुत्रशिष्याग्निबन्धुषु ॥३३॥
॥ऋषय ऊचुः॥
भवत्प्रसादात्सकलं प्राप्तं नस्तपसः फलम् ॥
यद्भवंतं प्रपश्यामः सर्वदेवगुरुं प्रभुम् ॥३४॥
शृण्वेतत्कारणं शंभो एते प्राप्तास्तवांतिकम् ॥
युगत्रये व्यतिक्रांते कृतादिद्वापरांतके ॥३५॥
प्राप्ते कलियुगे घोरे क्व विष्णुः पृथिवीतले ॥
यं दृष्ट्वा परमां मुक्तिं यास्यामो मुक्तबन्धनाः ॥३६॥
॥ब्रह्मोवाच॥
मत्स्यकूर्मादिरूपैश्च भगवाञ्ज्ञायते मया ॥
विष्णोः पारमिकां मूर्तिं न जानामि द्विजोत्तमाः ॥३७॥
॥ऋषय ऊचुः॥
यदि त्वं न विजानासि तात विष्णोरवस्थितिम् ॥
गत्वा प्रयागं तत्रैव संत्यक्ष्यामः कलेवरम् ॥३८॥
॥ब्रह्मोवाच॥
मा विषादं व्रजध्वं हि उपदेक्ष्यामि वो हितम् ॥
इतो व्रजध्वं पातालं यत्रास्ते दैत्यसत्तमः ॥३९॥
तं गत्वा परिपृच्छध्वं प्रह्लादं दैत्यसत्तमम् ॥
स ज्ञास्यति हरेः स्थानं याथातथ्येन भो द्विजाः ॥२४०॥
तच्छुत्वा वचनं तस्य ब्रह्मणः परमात्मनः ॥
प्रणिपत्य च देवेशं प्रस्थितास्ते तपोधनाः ॥४१॥
जग्मुः संहृष्टमनसः स्तुवन्तो दैत्यसत्तमम् ॥
धन्यः स दैत्यराजोऽयं यो जानाति जनार्द्दनम् ॥४२॥
इति संचिंतयानास्ते प्राप्ता वै सुतलं द्विजाः ॥४३॥
गत्वा ते तस्य नगरं विविशुर्भवनोत्तमम् ॥
दूरादेव स तान्दृष्ट्वा बलिर्वैरोचनिस्तदा ॥
प्रत्युत्थायार्हयाञ्चक्रे प्रह्लादेन समन्वितः ॥४४॥
मधुपर्कं च गां चैव दत्त्वा चार्घ्यं तथैव च ॥
उवाच प्रांजलिर्भूत्वा प्रहृष्टेनांतरात्मना ॥४५॥
स्वागतं वो महाभागाः सुव्युष्टा रजनी मम॥
भवतो यत्प्रपश्यामि ब्रूत किं करवाणि च ॥४६॥
एवं हि दैत्यराजेन सत्कृतास्ते द्विजोत्तमाः॥
ऊचुः प्रहृष्टमनसो दानवेन्द्रसुतं तदा ॥४७॥
ऋषय ऊचुः॥
कार्यार्थिनस्तु संप्राप्ताः प्रह्लाद हरिवल्लभ ॥
तदस्माकं महाबाहो भवांस्त्राता भवार्णवात् ॥४८॥
कथं दैत्य युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥
भविष्यामो विना विष्णुं भीतानामभयप्रदम् ॥४९॥
अस्मिन्युगे ह्यधर्मेण जितो धर्मः सनातनः ॥
अनृतेन जितं सत्यं विप्राश्च वृषलैर्जिताः ॥५०॥
विटैर्जिता वेदमार्गाः स्त्रीभिश्च पुरुषा जिताः ॥
ब्राह्मणाश्चापि वध्यन्ते म्लेच्छ राजन्यरूपिभिः ॥५१॥
अस्मिन्विलुलितप्राये वर्णाश्रमविवर्जिते ॥
अविलुप्ते वेदमार्गे क्व विष्णुर्भगवानिति ॥५२॥
विना ज्ञानाद्विना ध्यानाद्विना चेंद्रियनिग्रहात् ॥
प्राप्यते भगवान्यत्र तद्गुह्यं कथयस्व नः ॥५३॥
दैत्यराज त्वमस्माकं सुहृन्मार्गप्रदर्शकः ॥
कथयस्व महाभाग यत्र तिष्ठति केशवः ॥५४॥
एवं स द्विजमुख्यैश्च संपृष्टो दैत्यसत्तमः ॥
प्रणम्य ब्राह्मणान्सर्वान्भक्त्या संहृष्टमानसः ॥५५॥
स नमस्कृत्य देवेभ्यो ब्रह्मणे परमात्मने ॥
भगवद्भक्तिर्युक्तः सन्व्याहर्त्तुमुपचक्रमे ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कलिभीतमहर्षिभिर्ब्रह्मवचनात्प्रह्लादसंनिधौ कलियुगे भगवत्स्थितिविषये प्रश्नकरणवर्णनंनाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP