संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीप्रह्लाद उवाच॥
जया च विजया चैव जयंती पापनाशिनी ॥
उन्मीलिनी वंजुली च त्रिस्पृशा पक्षवर्द्धिनी ॥१॥
पुण्यं सर्वपुराणानां ते लभंते दिनेदिने ॥
पक्वान्नं ये प्रकुर्वंति हविर्द्धान्यसमुद्भवम् ॥२॥
जागरे पद्मनाभस्य घृतेनैव सुपाचितम् ॥
वर्तिद्वयसमायुक्तं दीपं घृतसमन्वितम् ॥३॥
यः कुर्य्याज्जागरे विष्णोः शालिग्रामशिलाग्रतः ॥
शालग्रामशिलाग्रे तु ये प्रकुर्वंति जागरम् ॥४॥
कुर्वंति नृत्यवाद्ये च लोकानां रंजनाय च ॥
संछादयंति कुसुमैः शालिग्रामशिलां च ये ॥५॥
चक्रांकितां विशेषेण प्रतिमां वैष्णवीं द्विजाः ॥
चंदनं च सकर्पूरं कृष्णागुरुसमन्वितम् ॥६॥
युक्तं मृगमदेनापि यः करोति विलेपनम् ॥
द्वादश्यां देवदेवस्य रात्रौ जागरणे सदा ॥७॥
तस्य पुण्यं प्रवक्ष्यामि संक्षेपेण च वोऽग्रतः ॥
तत्फलं कोटितीर्थे तु उज्जयिन्यां महालये ॥८॥
वाराणस्यां कुरुक्षेत्रे मथुरायां त्रिपुष्करे ॥
अयोध्यायां प्रयागे च तीर्थे सागरसंगमे ॥९॥
सर्वपुण्येषु तीर्थेषु देवतायतनेषु च ॥
कृतैर्यज्ञायुतैस्तत्र व्रतदानैश्च पुष्कलैः ॥१०॥
वेदैरधीतैर्यत्पुण्यं पुराणैश्चावगाहितैः ॥
तपोभिश्चरितैः पुण्यं सम्यगाश्रम पालनैः ॥११॥
यत्फलं मुनिभिः प्रोक्तं वेदव्यासेन पुत्रक ॥
तत्फलं जागरे विष्णोः पक्षयोः शुक्लकृष्णयोः ॥१२॥
हैमवत्यै पुरा प्रोक्तं कैलासे शूलपाणिना ॥
नारदाय पुरा प्रोक्तं ब्रह्मणा मत्समीपतः ॥१३॥
अरुणेन वज्रहस्ताय कथितं पृच्छते पुरा ॥
द्वादशीजागरस्योक्तं फलं विप्रा मया च वः॥
तत्कुरुध्वं द्विजा यूयं जागरं विष्णुवासरे ॥१४॥
 ॥सूत उवाच॥
इत्युक्त्वा ब्राह्मणान्प्राह बलिं पौत्रं स्वकं ततः ॥
त्वमपि श्रद्धया पौत्र कुरु जागरणं हरेः ॥१५॥
द्वारका मनसा ध्याता पापं वर्षशतान्वितम् ॥
कीर्तनाच्छतजन्मोत्थं दहते नात्र संशयः ॥१६॥
पापं जन्मसहस्रोत्थं पदमात्रेण गच्छताम् ॥
द्वारका हरते नूनं मुक्तिः कृष्णस्य दर्शनात् ॥१७॥
न शक्नोति यदा गंतुं द्वारकां चैव मानवः ॥
माहात्म्यं पठनीयं तु द्वारकासंभवं गृहे ॥१८॥
दातव्यं वैष्णवानां तु श्रोतव्यं भक्तिभावतः ॥
द्वादश्यां च विशेषेण पठनीयं तु जागरे ॥१९॥
द्वारका संभवं पुण्यं स संप्राप्नोति मानवः ॥
प्रसादाद्वासुदेवस्य सत्यंसत्यं च भाषितम् ॥२०॥
गृहे संतिष्ठते नित्यं मथुरा द्वारका तथा ॥
अवंती च तथा माया प्रयागं कुरुजांगलम् ॥२१॥
त्रिपुष्करं नैमिषं च गंगाद्वारं च सौकरम् ॥
चंद्रेशं चैव केदारं तथा रुद्रमहालयम् ॥२२॥
वस्त्रापथं महादेवं महाकालं तथैव च ॥
भूतेश्वरं भस्मगात्रं सोमनाथमुमापतिम् ॥२३॥
कोटिलिंगं त्रिनेत्रं च देवं भृगुवनेचरम् ॥
दीपेश्वरं महानादं देवं चैवाचलेश्वरम् ॥२४॥
ब्रह्मादयः सुरगणा गृहे तिष्ठंति सर्वदा ॥
पितरो नागगंधर्वा मुनयः सिद्धचारणाः ॥२५॥
तीर्थानि यानि कानि स्युरश्वमेधादयो मखाः ॥
कृष्णजन्माष्टमीं पौत्र यः करोति विशेषतः ॥२६॥
यथा भागवतं शास्त्रं तथा भागवतो नरः ॥
उभयोरंतरं नास्ति हरहर्योस्तथैव च ॥२७॥
नीलीक्षेत्रं तु यो याति मूलकं भक्षयेत्तु यः ॥
नैवास्ति नरकोद्धारं कल्पकोटिशतैरपि ॥२८॥
नीलीकर्म तु यः कुर्य्याद्ब्राह्मणो लोभमोहितः ॥
नाप्नोति सुकृतं किंचित्कुर्य्याद्वा रसविक्रयम् ॥२९॥
प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥
अश्वत्थं छेदयेद्यो वै एकैकस्मिंश्च पर्वणि ॥३०॥
मन्वंतराणि तावंति रौरवे वसतिर्भवेत् ॥
अरिष्टकाष्ठैर्दैत्येंद्र कार्य्यं यः कुरुते क्वचित् ॥
न पूजामर्घदानं च तस्य गृह्णाति भास्करः ॥३१॥
छेदापकस्य चार्के तु च्छेदकस्य च दैत्यज ॥
शतं जन्मानि दारिद्यं जायते च सरोगता ॥३२॥
रोपयेत्पालयेद्यो वै सूर्य्यवृक्षं नरोत्तमः ॥
सप्तकल्पं वसेत्सोऽत्र समीपे भास्करस्य हि ॥३३॥
रोपितैर्देववृक्षैस्तु यत्फलं लक्षकोटिभिः ॥
न्यग्रोधवृक्षेणैकेन रोपितेन फलं हि तत् ॥३४॥
धात्रीद्रुमेऽप्येवमेव फलं भवति रोपिते ॥
तुलसीरोपणे चैव अधिकं चापि सुव्रत ॥
अमरत्वं च ते यांति नात्र कार्य्या विचारणा ॥३५॥
द्वारकां कलिकाले तु प्रातरुत्थाय कीर्तयेत् ॥
स सर्वपापनिर्मुक्तः स्वर्गं याति न संशयः ॥३६॥
रोहिणीसहिता ये न द्वादशी समुपोषिता ॥
महापातकसंयुक्तः कल्पांते नाकमाप्नुयात् ॥३७॥
वासरः को विना सूर्य्यं विना सोमेन का निशा ॥
विना वृक्षेण को ग्रामो द्वादशी किं व्रतं विना ॥३८॥
गृहं च नरकं तस्य यमदण्डं द्वितीयकम् ॥
न यत्र पठते नित्यं विष्णोर्नामसहस्रकम् ॥३९॥
नरकं च भवेत्तस्य द्वितीयं यमशासनम् ॥
नैव भागवतं यत्र पुराणं गीयते कलौ ॥
अन्धकूपेषु क्षिप्यंते ज्वलितेषु हुताशने ॥४०॥
द्विषंति ये भागवतं न कुर्वंति दिनं हरेः ॥
यमदूतैश्च नीयन्ते तथा भूमौ भवंति ते ॥४१॥
वाच्यमानं न शृण्वंति हरेश्चरितमुत्तमम् ॥
करपत्रैश्च पीड्यंते सुतीव्रैर्यम शासनात् ॥४२॥
निन्दां कुर्वंति ये पापा वैष्णवानां महात्मनाम् ॥
तेषां निरयपातस्तु यावदाभूतसंप्लवम् ॥४३॥
गोकोटितीर्थादधिकं स्नानं तत्राधिकं भवेत् ॥
ये पश्यंति महापुण्या गोपीचंदनमृत्तिकाम्॥
गंगास्नानफलं तेषां जायते नात्र संशयः ॥४४॥
वैष्णवानां प्रयच्छंति गोपीचं दनमृत्तिकाम् ॥
येषां ललाटे तिलकः गोपीचंदनसंभवम् ॥४५॥
गोपीचंदनपुंड्रेण द्वादश्यां जागरे कृते ॥
विष्णोर्नामसहस्रस्य पाठेन मुक्तिमाप्नुयात् ॥४६॥
ये नित्यं प्रातरुत्थाय वैष्णवानां तु कीर्तनम्॥
गोमतीस्मरणं कुर्युः कृष्णतुल्या न संशयः ॥४७॥
ये नित्यं प्रातरुत्थाय द्वारकेति वदंति च ॥
तीर्थकोटिभवं पुण्यं लभंते च दिनेदिने ॥४८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीव्रतादिमाहात्म्यवर्णनंनामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP