संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ४३ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ४३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४३ Translation - भाषांतर ॥प्रह्लाद उवाच॥सावित्रीं च भवानीं च दुर्गां चैव सरस्वतीम् ॥योऽर्चयेत्तुलसीपत्रैः सर्वकामसमन्वितः ॥१॥गृहीत्वा तुलसीपत्रं भक्त्या विष्णुं समर्चयेत् ॥अर्चितं तेन सकलं सदेवासुरमानुषम् ॥२॥चतुर्द्दश्यां महेशानं पौर्णमास्यां पितामहम् ॥येऽर्चयन्ति च सप्तम्यां तुलस्या च गणाधिपम् ॥३॥शंखोदकं तीर्थवराद्वरिष्ठं पादोदकं तीर्थवराद्वरिष्ठम्॥नैवेद्यशेषं क्रतुकोटितुल्यं निर्माल्यशेषं व्रतदानतुल्यम् ॥४॥मुकुन्दाशनशेषं तु यो भुनक्ति दिनेदिने ॥सिक्थेसिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥५॥नैवेद्यशेषं तुलसीविमिश्रं विशेषतः पादजलेन विष्णोः ॥योऽश्नाति नित्यं पुरुषो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥६॥यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् ॥तेनैव पिंडात्सुतिलैर्विमिश्रादाकल्पकोटिं पितरः सुतृप्ताः ॥७॥स्नानार्चनक्रियाकाले घंटावाद्यं करोति यः ॥पुरतो वासुदेवस्य गवां कोटिफलं लभेत् ॥८॥सर्ववाद्यमयी घंटा केशवस्य सदा प्रिया ॥वादनाल्लभते पुण्यं यज्ञकोटिफलं नरः ॥९॥वादित्राणामभावे तु पूजाकाले च सर्वदा ॥घंटावाद्यं नरैः कार्य्यं सर्ववाद्यमयी यतः ॥१०॥तुलसीकाष्ठसंभूतं चन्दनं यच्छते हरेः ॥निर्द्दहेत्पातकं सर्वं पूर्वजन्मशतार्जितम् ॥११॥ददाति पितृ पिंडेषु तुलसीकाष्ठचन्दनम् ॥पितॄणां जायते तृप्तिर्गयाश्राद्धेन वै तथा ॥१२॥सर्वेषामेव देवानां तुलसीकाष्ठचन्दनम् ॥पितॄणां च विशेषेण सदाऽभीष्टं हरेः कलौ ॥१३॥हरेर्भागवता भूत्वा तुलसीकाष्ठचन्दनम् ॥नार्पयति सदा विष्णोर्न ते भागवताः कलौ ॥१४॥शरीरं दह्यते यस्य तुलसीकाष्ठवह्निना ॥नीयमानो यमेनापि विष्णुलोकं स गच्छति ॥१५॥यद्येकं तुलसीकाष्ठं मध्ये काष्ठस्य यस्य हि ॥दाहकाले भवेन्मुक्तः पापकोटिशतायुतैः ॥१६॥दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥जन्मकोटिसहस्रैस्तु तोषितस्तैर्जनार्दनः ॥१७॥दह्यमानं नरं सर्वे तुलसीकाष्ठवह्निना ॥विमानस्थाः सुरगणाः क्षिपंति कुसुमांजलीन् ॥१८॥नृत्यंत्योऽप्सरसो हृष्टा गीतं गायन्ति सुस्वरम् ॥ज्वलते यत्र दैत्येन्द्र तुलसीकाष्ठपावकः ॥१९॥कुरुते वीक्षणं विष्णुः सन्तुष्टः सह शंभुना ॥२०॥गृहीत्वा तं करे शौरिः पुरुषं स्वयमग्रतः॥मार्जते तस्य पापानि पश्यतां त्रिदिवौकसाम् ॥महोत्सवं च कृत्वा तु जयशब्दपुरःसरम् ॥२१॥ ॥सूत उवाच॥प्रह्लादेनोदितं श्रुत्वा माहात्म्यं द्वारकाभवम् ॥प्रहृष्टा ऋषयः सर्वे तथा दैत्येश्वरो बलिः ॥२२॥ततः सर्वेऽभिनन्द्यैनं प्रह्लादं दैत्यपुङ्गवम् ॥उद्युक्ता द्वारकां गत्वा द्रष्टुं कृष्णमुखाम्बुजम् ॥२३॥ततस्ते बलिना सार्धं मुनयः संशितव्रताः ॥आगत्य द्वारकां स्नात्वा गोमत्यां विधिपूर्वकम् ॥२४॥कृष्णं दृष्ट्वा समभ्यर्च्य कृत्वा यात्रां यथाविधि ॥दत्त्वा दानानि बहुशः कृतकृत्यास्ततोऽभवन् ॥२५॥जग्मुः स्वीयानि स्थानानि बलिः पातालमाययौ ॥प्रह्लादं च प्रणम्याशु मेने स्वस्य कृतार्थताम् ॥२६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्लादद्विजसंवाद समाप्त्यनंतरं बलिना सह द्विजकृतद्वारकायात्राविधिवर्णनंनाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP