संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय १२ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय १२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १२ Translation - भाषांतर ॥प्रह्लाद उवाच॥ततो गच्छेद्द्विजश्रेष्ठा गोप्रचारमतः परम् ॥यत्र स्नात्वा नरो भक्त्या लभेद्गोदानजं फलम् ॥१॥यत्र स्नातो जगन्नाथो नभस्ये दैवतैर्वृतः ॥कटदानं च तत्प्रोक्तं द्वादश्यां द्विजसत्तमाः ॥२॥ ॥ऋषय ऊचुः॥कथं तु तत्र दैत्येन्द्राऽभवद्वै गोप्रचारकम् ॥तीर्थं कथय तत्त्वेन यत्र स्नातो जनार्द्दनः ॥३॥ ॥प्रह्लाद उवाच॥हते कंसे भोजराजे कृष्णेनामिततेजसा ॥उग्रसेने चाभिषिक्ते मधुपुर्य्यां महात्मना ॥४॥उद्धवं प्रेषयामास गोकुले गोकुलप्रियः ॥सुहृदां प्रियकामार्थं गोपगोपीजनस्य च ॥५॥नमस्कृत्य च गोविदं प्रययौ नंदगोकुलम् ॥स तत्सदृशवेषेण वस्त्रालंकारभूषणैः ॥६॥तं दृष्ट्वा दिवसस्यांते गोविंदानुचरं प्रियम् ॥उद्धवं पूजयामास वस्त्रालंकारभूषणैः ॥७॥तं भुक्तवंतं विश्रांतं यशोदा पुत्रवत्सला ॥आनंदबाष्पपूर्णाक्षी पप्रच्छानामयं हरेः ॥८॥कच्चिद्धि स्तः सुखं पुत्रौ रामकृष्णौ यदूत्तमौ ॥कच्चित्स्मरति गोविंदो वयस्यान्गोपबालकान् ॥९॥कच्चिदेष्यति गोविंदो गोकुलं मधुरेश्वरः ॥तारयिष्यति पुत्रोऽसौ गोकुलं वृजिनार्णवात् ॥१०॥इत्युक्त्वा बाष्पपूर्णाक्षौ यशोदा नंद एव च ॥दीर्घं रुरुदतुर्दीनौ पुत्रस्नेहवशंगतौ ॥११॥उद्धवस्तौ ततो दृष्ट्वा प्राणसंशयमागतौ ॥मधुरैः कृष्णसंदेशैः स्नेहयुक्तैरजीवयत् ॥१२॥नमस्करोति भवतीं भवंतं च सहाग्रजः ॥अनामयं पृष्टवांश्च तौ च क्षेमेण तिष्ठतः ॥१३॥क्षिप्रमेष्यति दाशार्हो रामेण सहितो विभुः ॥अत्रागत्य जगन्नाथो विधास्यति च वो हितम् ॥१४॥इत्येवं कृष्णसंदेशैः समाश्वास्योद्धवस्तदा ॥सुखं सुष्वाप शयने नन्दाद्यैरभिनंदितः ॥१५॥गोप्यस्तदा रथं दृष्ट्वा द्वारे नंदस्य विस्मिताः ॥कोऽयं कोऽयमिति प्राहुः कृष्णागमनशंकया ॥१६॥गोपालराजस्य गृहे रथेनादित्यवर्चसा ॥समागतो महाबाहुः कृष्णवेषानुगस्तथा ॥१७॥परस्परं समागम्य सर्वास्ता व्रजयोषितः ॥विविक्ते कृष्णदूतं तं पप्रच्छुः शोककर्षिताः ॥१८॥॥श्रीगोप्य ऊचुः॥कस्मात्त्वमिह संप्राप्तः किं ते कार्य्यमिहाद्य वै ॥दस्युरूपप्रतिच्छन्नो ह्यस्मान्संहर्तुमिच्छसि ॥१९॥पूर्वमेव हतं तेन कृष्णेन हृदयादिकम्॥पाययित्वाऽधरविषं योषिद्व्रातं पलायितः ॥२०॥इत्येवमुक्त्वा ता गोप्यो मुमुहुः शोकविह्वलाः ॥ईक्षंत्यः कृष्णदासं तं निपेतुर्धरणीतले ॥२१॥उद्धवस्तं जनं दृष्ट्वा कृष्णस्नेहहृताशयम् ॥आश्वासयामास तदा वाक्यैः श्रोत्रसुखावहैः ॥२२॥ ॥उद्धव उवाच॥भगवानपि दाशार्हः कन्दर्पशरपीडितः ॥न भुंक्ते न स्वपिति च चिन्तयन्वस्त्वहर्निशम् ॥२३॥तच्छ्रुत्वा वचनं तस्य ललिता क्रोधमूर्छिता ॥उद्धवं ताम्रनयना प्रोवाच रुदती तदा ॥२४॥ ॥ललितोवाच॥असत्यो भिन्नमर्य्यादः क्रूरः क्रूरजनप्रियः ॥त्वं मा कृथा नः पुरतः कथां तस्याऽकृतात्मनः ॥२५॥धिग्धिक्पापसमाचारो धिग्धिग्वै निष्ठुराशयः ॥हित्वा यः स्त्रीजनं मूढो गतो द्वारवतीं हरिः ॥२६॥॥ ॥श्यामलोवाच॥किं तस्य मन्दभाग्यस्य अल्पपुण्यस्य दुर्मतेः ॥मा कुरुध्वं कथाः साध्व्यः कथां कथयताऽपराम् ॥२७॥॥ ॥धन्योवाच॥केनायं हि समानीतो दूतो दुष्टजनस्य च ॥यातु तेन पथा पापः पुनर्नायाति येन च ॥२८॥ ॥विशाखोवाच॥न शीलं न कुलं यस्य नास्ति पापकृतं भयम् ॥तस्य स्त्रीहनने साध्व्यो ज्ञायते जन्म कर्म च ॥हीनस्य पुरुषार्थेन तेन संगो निरर्थकः ॥२९॥॥ ॥राधोवाच॥भूतानां घातने यस्य नास्ति पापकृतं भयम् ॥तस्य स्त्रीहनने साध्व्यः शंका कापि न विद्यते ॥३०॥ ॥शैब्योवाच॥सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः ॥संगतो नागरस्त्रीभिरस्माकं किं कथां स्मरेत् ॥३१॥ ॥पद्मोवाच॥कदोद्धव महाभाग नागरीजनवल्लभः ॥समेष्यतीह दाशार्हः पद्मपत्रायतेक्षणः ॥३२॥ ॥भद्रोवाच॥हा कृष्ण हा गोपवर हा गोपीजनवल्लभ ॥समुद्धर महाबाहो गोपीः संसारसागरात् ॥३३॥ ॥प्रह्लाद उवाच॥इति ता विविधैर्वाक्यैर्विलपंत्यो व्रजस्त्रियः ॥रुरुदुः सुस्वरं देव्यः स्मरंत्यः कृष्ण चेष्टितम् ॥३४॥तासां तद्रुदितं श्रुत्वा भक्तिस्नेहसमन्वितः ॥विस्मयं परमं गत्वा साधुसाध्विति चाब्रवीत् ॥३५॥ ॥उद्धव उवाच॥यं न ब्रह्मा न च हरो न देवा न महर्षयः ॥स्वभावमनुगच्छंति सर्वा धन्या व्रजस्त्रियः ॥३६॥सर्वासां सफलं जन्म जीवितं यौवनं धनम् ॥यासां भवेद्भगवति भक्तिरव्यभिचारिणी ॥३७॥ ॥गोप्य ऊचुः॥साधु दर्शय गोविंदं साधु दर्शय वल्लभम् ॥नयास्मान्साधु तत्रैव यत्र तिष्ठति सोऽच्युतः ॥३७॥ ॥प्रह्लाद उवाच॥तासां तद्भाषितं श्रुत्वा तथा विलपितं बहु ॥बाढमित्येव ता ऊच उद्धवः स्नेहविह्वलाः ॥३९॥उद्धवेन समं सर्वास्ततस्ता व्रजयोषितः ॥अनुजग्मुर्मुदा युक्ताः कृष्णदर्शनलालसाः ॥४०॥गायन्त्यः प्रियगीतानि तद्बालचरितानि च ॥जग्मुः सहैव शनकैरुद्धवेन व्रजांगनाः ॥४१॥यदुपुर्य्यां ततो दृष्ट्वा उद्यानविपिनावलीः ॥अद्य देवं प्रपश्यामः कृष्णाख्यं नंदनंदनम् ॥४२॥द्वारवत्यां तु गमनाद्ध्यानाल्लक्ष्मीपतेस्तदा ॥अशेषकल्मषान्मुक्ता विध्वस्ताखिलबन्धनाः ॥४३॥संप्राप्तास्तास्ततः सर्वास्तीरे मयसरस्य च ॥प्रणिपत्योद्धवः प्राह गोपिकाः कृष्णदेवताः ॥४४॥स्थीयतां मातरश्चात्रात्रैवेष्यति महाभुजः ॥कृष्णः कमलपत्राक्षो विधास्यति च वो हितम् ॥४५॥ ॥गोप्य ऊचुः॥कस्योद्धव इदं चात्र सरः सारसशोभितम् ॥संपूर्णं पंकजैश्चित्रैः कल्हारकुमुदोत्पलैः ॥४६॥॥ ॥उद्धव उवाच॥मयो नाम महादैत्यो मायावी लोकविश्रुतः ॥कृतं तेन सरः शुभ्रं तस्य नाम्ना च विश्रुतम् ॥४७॥ ॥श्रीगोप्य ऊचुः॥शीघ्रमानय गोविंदं साधु दर्शय चाच्युतम्॥नयनानंदजननं तापत्रयविनाशनम् ॥४८॥तच्छ्रुत्वा वचनं तासां गोपिकानां तदोद्धवः ॥दूतैः समानयामास श्रीकृष्णं शीघ्रयायिभिः ॥४९॥आयांतं शीघ्रयानेन दृष्ट्वा देवकिनंदनम् ॥भ्राजमानं सुवपुषा वनमालाविभूषितम्॥५०॥ज्वलत्किरीटमुकुटं स्फुरन्मकरकुण्डलम्॥श्रीवत्सांकं महाबाहुं पीतकौशेयवाससम् ॥५१॥आतपत्रैर्वृतं मूर्ध्नि संवृतं वृष्णिपुंगवैः ॥संस्तुतं बंदिमुख्यैश्च गीतवादित्रनिस्वनैः ॥५२॥पौरजानपदैर्लोकैर्वैष्णवैः सर्वतो वृतम् ॥पश्यन्तं हंसमिथुनैः सरः सारसशोभितम् ॥५३॥तं दृष्ट्वाऽच्युतमायांतं लोककांतं मनोहरम् ॥प्रियं प्रियाश्चिराद्दृष्ट्वा मुमुहुस्ता व्रजांगनाः ॥५४॥चिराय संज्ञां संप्राप्य विलेपुश्च सुदुःखिताः ॥हा नाथ कांत हा कृष्ण हा व्रजेश मनोहर ॥५५॥संवर्धितोऽसि यैर्बाल्ये क्रीडितो वत्सपालकैः ॥तेऽपि त्वया परित्यक्ताः कथं दुष्टोऽसि निर्घृणः ॥५६॥न ते धर्मो न सौहार्द्दं न सत्यं सख्यमेव च ॥पितृमातृपरित्यागी कथं यास्यसि सद्गतिम् ॥५७॥स्वामिन्भक्तपरित्यागः सर्वशास्त्रेषु गर्हितः ॥त्यजताऽस्मान्वने वीर धर्मो नावेक्षितस्त्वया ॥५८॥ ॥प्रह्लाद उवाच॥श्रुत्वा तासां विलपितं गोपीनां नंद नंदन।अनन्यशरणाः सर्वा भावज्ञो भगवान्विभुः॥सांत्वयामास वचनैर्व्रजेशस्ता व्रजांगनाः ॥५९॥अध्यात्मशिक्षया गोपीः प्रभुस्ता अन्वशिक्षयत्॥६०॥श्रीभगवानुवाच॥भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्॥वसामि हृदये शश्वद्भूतानामविशेषतः॥६१॥अहं सर्वस्य प्रभवो मत्तो देवाः सवासवाः ॥आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ॥६२॥ब्रह्मा रुद्रश्च विष्णुश्च सनकाद्या महर्षयः ॥इंद्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥६३॥कामः क्रोधश्च लोभश्च मोहोऽहंकार एव च ॥एतत्सर्वमशेषेण मत्तो गोप्यः प्रवर्त्तते ॥६४॥एतज्ज्ञात्वा महाभागा मा स्म कृध्वं मनः शुचि ॥सर्वभूतेषु मां नित्यं भावयध्वमकल्मषाः ॥६५॥ ॥प्रह्लाद उवाच॥ताः कृष्णवचनं श्रुत्वा गोप्यो विध्वस्तबन्धनाः ॥विमुक्तसंशयक्लेशा दर्शनानन्दसंप्लुताः॥ऊचुश्च गोपवध्वस्ताः कृष्णं निर्मलमानसाः ॥६६॥॥ ॥गोप्य ऊचुः॥अद्य नः सफलं जन्म अद्य नः सफला दृशः ॥यत्त्वां पश्याम गोविन्द नागरीजनवल्लभम् ॥६७॥पुण्यहीना न पश्यंति कृष्णाख्यं पुरुषं परम् ॥वाक्यैर्हेत्वर्थसंयुक्तैर्यदि संबोधिता वयम् ॥तथापि माया हृदयान्नापैति मधुसूदन ॥६८॥ ॥श्रीकृष्ण उवाच॥दर्शनात्स्पर्शनाच्चास्य विमुक्ताऽशेषबन्धनाः ॥स्नात्वा च सकलान्कामानवाप्स्यथ व्रजांगनाः ॥६९॥ ॥गोप्य ऊचुः॥अद्भुतो हि प्रभावस्ते सरसोऽस्य उदाहृतः ॥विधिं ब्रूहि जगन्नाथ विस्तराद्वृष्णिनन्दन ॥७०॥ ॥श्रीकृष्ण उवाच॥भवतीनां मया सार्द्धं सञ्जातमत्र दर्शनम् ॥तस्मान्मया सदा ह्यत्र स्नातव्यं नियमेन हि ॥७१॥यः स्नात्वा परया भक्त्या पितॄन्सन्तर्पयिष्यति ॥श्रावणस्य सिते पक्षे द्वादश्यां नियतः शुचिः ॥७२॥दत्त्वा दानं स्वशक्त्या च मामुद्दिश्य तथा पितॄन् ॥लभते वैष्णवं लोकं पितृभिः परिवारितः ॥७३॥मय तीर्थं समासाद्य कृत्वा च करयोः कुशान् ॥फलमेकं गृहीत्वा तु मन्त्रेणार्घ्यं प्रदापयेत् !। ७४॥गृहान्धकूपे पतितं माया पाशशतैर्वृतम् ॥मामुद्धर महीनाथ गृहाणार्घ्यं नमोऽस्तु ते ॥७५॥ ॥अर्घ्यमन्त्रः॥स्नात्वा यः परया भक्त्या पितॄन्संतर्प्य भावतः ॥कुर्याच्छ्राद्धं च परया पितृभक्त्या समन्वितः ॥७६॥दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥विशेषतः प्रदातव्यं पायसं च सशर्करम् ॥७७॥नवनीतं घृतं छत्रं कंबलाजिनमेव च ॥भवतीभिः समं यस्मात्संजातं मम दर्शनम् ॥आगंतव्यं मया तस्मात्सदा ह्यस्मिञ्जलाशये ॥७८॥योऽत्र स्नानं प्रकुरुते मयस्य सरसि प्रियाः ॥गंगास्नानफलं तस्य विष्णुलोकस्तथाऽक्षयः ॥७९॥मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥यावज्जीवं सुखं भुक्त्वा चान्ते हरिपुरं व्रजेत् ॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये मयनिर्मितसरोमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP