संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय २८ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय २८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २८ Translation - भाषांतर ॥मार्कण्डेय उवाच॥कृत्वा जागरणं विष्णोर्यथान्यायं नरेश्वर ॥पितॄन्यच्छति पुण्यं च ततः किं कुरुते यमः ॥१॥भुक्तो वा यदि वाऽभुक्तः स्वच्छो वाऽस्वच्छ एव वा ॥विमुक्तिः कथिता तत्र हरिजागरणान्नृणाम् ॥२॥अस्नातो वा नरः स्नातो जागरे समुपस्थिते ॥सर्वतीर्थाप्लुतो ज्ञेयस्तं दृष्ट्वा दिवमाव्रजेत् ॥३॥श्वपचा जागरं कृत्वा पदं निर्वाणमागताः ॥किं पुनर्वर्णसंभूताः सदाचारपरास्तथा ॥४॥युवतीनादमाकर्ण्य यथा निद्रा न जायते ॥जागरे चैवमेव स्यात्तत्कथानां च कीर्तने ॥५॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥उत्कल्लनं मनःपापं शोधयेद्विष्णु जागरः ॥६॥विमुक्तिः कामुकस्योक्ता किं पुनर्वीक्षतां हरिम् ॥७॥वाचिकं मानसं पापं करणैर्यदुपार्जितम्॥अन्यैर्निमिषमात्रेण व्यपोहति न संशयः ॥८॥गोष्ठ्यां समागता ये तु तेषां पापं कुतः स्मृतम् ॥मातृपूजा गयाश्राद्धं सुतीर्थगमनं तथा ॥जागरस्य नृणां राजन्समानि कवयो विदुः ॥९॥जननीपूजनं भूप ह्यश्वमेधायुतैः समम् ॥पूर्णं वर्षशतं भूप कुशाग्रेणोद्धृतं जलम् ॥१०॥ पिबन्पात्रे द्विजः सम्यक्तीर्थे पुष्करसंज्ञिते ॥जागरस्यैव चैतानि कलां नार्हंति षोडशीम् ॥११॥कृत्वा कांचनसंपूर्णां वसुधां वसुधाधिप ॥दत्त्वा यत्फलमाप्नोति तत्फलं हरिजागरे ॥१२॥निकृंतनं कर्मणश्च ह्यात्मना दुष्कृतं कृतम् ॥व्यपोहति न संदेहो येन जागरणं कृतम्॥संक्षेपतः प्रवक्ष्यामि पुनरेव महीपते ॥जागरे पद्मनाभस्य यत्फलं कवयो विदुः ॥१४॥रवेर्बिंबमिदं भित्त्वा स योगी हरिजागरे ॥प्रयाति परमं स्थानं योगिगम्यं निरंजनम् ॥सांख्ययोगैः सुदुःखेन प्राप्यते यत्पदं हरेः ॥१५॥नद्यो नदा यथा यांति सागरे संस्थितिं क्रमात् ॥एवं जागरणात्सर्वे तत्पदे यांति संस्थितिम् ॥१६॥मेरुमंदरमानानि कृत्वा पापानि वा नरः ॥हरिजागरणे तानि व्यपोहति न संशयः ॥१७॥राज्यं स्वर्गं तथा मोक्षं यच्चान्यदीप्सितं नृणाम् ॥ददाति भगवान्कृष्णः स्वगीतैर्जागरे स्थितः ॥१८॥जागरेणैव पापानां श्वपचानां महीपते ॥तत्पदं कविभिः प्रोक्तं किं पुनस्तु द्विजन्मनाम् ॥१९॥जपध्यानविहीनस्य गायकस्यापि भूपते ॥कर्मभ्रष्टस्य च प्रोक्तो मोक्षस्तु हरिजागरे ॥२०॥तन्नास्ति त्रिषु लोकेषु पुण्यं पुण्यवतां नृणाम् ॥यत्तु साधयते भूप जागरे संव्यवस्थितः ॥२१॥त्वया पुनरिदं कार्य्यं स्मर्त्तव्यो गरुडध्वजः ॥एकादश्यां न भोक्तव्यं कर्तव्यं जागरं सदा ॥२२॥जागरे वर्त्तमानस्य श्वपचस्य गतिर्भवेत् ॥किंपुनर्वर्णजातीनां वैष्णवानां महीपते ॥२३॥ये तु जागरणे निद्रां न यांति नृपपुंगव ॥न तेषां जननी याति खेदं गर्भावधारणात् ॥२४॥तस्माज्जागरणं कार्य्यं मातुर्जठरवर्जिभिः ॥भीतेर्मोक्षपरैर्मर्त्यैः सुखचेष्टाबहिष्कृतैः ॥२५॥यस्तु जागरणं रात्रौ कुर्याद्भक्तिसमन्वितः ॥निमिषेनिमिषे राजन्नश्वमेधफलं लभेत् ॥२६॥शयनो त्थापनाभ्यां च समं पुण्यमुदाहृतम् ॥विशेषो नास्ति भूपाल विष्णुना कथितं पुरा ॥२७॥ब्राह्मणाः क्षत्रिया वैश्याः स्थिताः शूद्राश्च जागरे ॥पक्षिणः कृमिकीटाश्च ह्यनेके चैव जंतवः ॥ते गताः परमं स्थानं योगिगम्यं निरंजनम् ॥२८॥यानि कानि च पापानि ब्रह्महत्यासमानि च ॥कृष्णजागरणे तानि क्षयं यांति न संशयः ॥२९॥एकतः क्रतवः सर्वे सर्वतीर्थसमन्विताः ॥एकतो देवदेवस्य जागरः कृष्णवल्लभः ॥न समं ह्यधिकः प्रोक्तः कविभिः कृष्णजागरः ॥३०॥सूर्यशक्रादयो देवा ब्रह्मरुद्रादयो गणाः ॥नित्यमेव समायांति जागरे कृष्णवल्लभे ॥३१॥गंगा सरस्वती रेवा यमुना च शतह्रदा॥चंद्रभागा वितस्ता च नद्यः सर्वाश्च तत्र वै ॥३२॥सरांसि च ह्रदाश्चैव समुद्राः कृत्स्नशो नृप ॥एकादश्यां नृपश्रेष्ठ गच्छंति हरिजागरे ॥३३॥स्पृहणीयास्तु देवेभ्यो ये नराः कृष्णजागरे ॥नृत्यं गीतं प्रकुर्वंति वीणावाद्यं तथैव च ॥३४॥भक्त्या वाऽप्यथवाऽभक्त्या शुचिर्वाप्यथवाऽशुचिः ॥कृत्वा जागरणं विष्णोर्मुच्यते पापकोटिभिः ॥३५॥पादयोः पांसुकणिका यावत्तिष्ठंति भूतले ॥तावद्वर्षसहस्राणि जागरी वसते दिवि ॥३६॥तस्माद्गृहं प्रगन्तव्यं जागरे माधवस्य च ॥कलौ मलविनाशाय द्वादशद्वादशीषु च ॥३७॥सुबहून्यपि पापानि कृत्वा जागरणं हरेः ॥निर्द्दहेन्मेरुतुल्यानि युगकोटिशतान्यपि ॥३८॥उन्मीलिनी महीपाल यैः कृता प्रीतिसंयुतैः ॥कलौ जागरणोपेता फलं वक्ष्यामि तच्छृणु ॥३९॥स्थितौ युगसहस्रं तु पादेनैकेन भूतले ॥काश्यां च जाह्नवीतीरे तत्फलं लभते नरः ॥२४०॥भवेद्युगसहस्रं च विनाऽऽहारेण यत्फलम्॥उन्मीलिनीं समासाद्य फलं जागरणे हरेः ॥४१॥दुष्प्राप्यं वैष्णवं स्थानं मखकोटिशतैः कृतैः ॥हेलया प्राप्यते नूनं द्वादश्यां जागरे कृते ॥४२॥न कुर्वंति व्रतं विष्णोर्जागरेण समन्वितम् ॥परस्वं पारदार्यं च पापं तान्प्रति गच्छति ॥४३॥एकेनैवोपवासेन भावहीनास्तु मानवाः ॥निर्द्दग्धाऽखिलपापास्ते प्रयांति स्वर्गकाननम् ॥४४॥यत्र भागवतं शास्त्रं यत्र जागरणं हरेः ॥शालिग्रामशिला यत्र तत्र गच्छेद्धरिः स्वयम् ॥४५॥न पुर्य्यः पावनाः सप्त कलौ वेदवचो नहि ॥यादृशं वासरं विष्णोः पावनं जागरान्वितम् ॥४६॥संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम्॥मज्जंति नरके घोरे नरानार्य्यो न संशयः ॥४७॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागणरणमाहात्म्यवर्णनंनामाष्टाविंशतितमोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP