संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीप्रह्लाद उवाच॥
शिवलिगमलंघ्यं हि बुद्धिपूर्वं हतो ह्यहम् ॥
उवाच कृष्णं दनुजश्छलितोऽहं त्वयाऽनघ ॥१॥
 ॥श्रीविष्णु रुवाच॥
परितुष्टोस्मि ते दैत्य शौर्येण शिवसंश्रयात् ॥
वरं वरय भद्रं ते यदिच्छसि महामते ॥२॥
 ॥कुश उवाच॥
यथा पूज्यो महादेवो मम त्वं च तथा हरे ॥
एक एव द्विधामूर्तिस्तस्मात्त्वां वरयाम्यहम् ॥३॥
शिवलिंगं त्वया नाथ स्थापितं यन्ममोपरि ॥
मम नाम्ना भवतु च कुशेश्वर इति स्मृतम् ॥४॥
अनुग्राह्यो यद्यहं ते मम कीर्तिर्भवत्वियम् ॥
एवं भविष्यतीत्युक्तस्तत्रैवावस्थितोऽसुरः ॥५॥
ततोऽन्यदानवान्सर्वान्प्रेषयामास माधवः ॥
रसातलगता केचित्केचिद्विष्णुं समागताः ॥६॥
अनंतः संस्थितस्तत्र विष्णुश्च तदनंतरम् ॥
ज्ञात्वा विमुक्तिदं तीर्थं दुर्वासा मुनिपुंगवः ॥७॥
गोमत्यां चक्रतीर्थे च भगवांश्च त्रिविक्रमः ॥
तेन तन्मुक्तिदं मत्वा दुर्वासास्तत्र संस्थितः ॥८॥
एवं त्रिविक्रमः स्वामी तदाप्रभृति संस्थितः ॥
कलौ पुनः कलान्यासात्कृष्णत्वमगमत्प्रभुः ॥९॥
 ॥प्रह्लाद उवाच॥
पूजाविधिं हरेर्विप्राः शृणुध्वं सुसमाहिताः ॥
विशेषात्फलदः प्रोक्तः पूजितो मधुमाधवे ॥१०॥
मधुसूदनीं नरो यस्तु द्वारवत्यां करोति च ॥
पूजयेत्कृष्णदेवं च स्नापयित्वा विलिप्य च ॥११॥
गन्धैश्च वाससाऽऽच्छाद्य धूपैर्दीपैरनेकधा ॥
नैवेद्यैर्भूषणैश्चैव तांबूलेन फलेन च ॥१२॥
आरार्तिकेन संपूज्य दण्डवत्प्रणिपत्य च ॥
घृतेन दीपकं दत्त्वा रात्रौ जागरणं तथा ॥
कुर्य्याच्च गीतवादित्रैस्तथा पुस्तकवाचकैः ॥१३॥
कृत्वा चैवं विधिं भक्त्या सर्वान्कामानवाप्नु यात् ॥१४॥
तथा नभसि सम्पूज्य पवित्रारोपणेन च ॥
पितॄणां चाक्षया तृप्तिः सफलाः स्युर्मनोरथाः ॥१५॥
प्रबोधवासरे प्राप्ते कार्तिके द्विज सत्तमाः ॥
संपूज्य कृष्णं देवेशं परां गतिमवाप्नुयात् ॥१६॥
तथा नभस्ये संपूज्य पवित्रारोपणेन च ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥१७॥
युगादिषु च संपूज्य ह्ययने दक्षिणोत्तरे ॥
आषाढज्येष्ठमाघेषु पौषादिद्वादशीषु च ॥१८॥
कलौ कृष्णं पूजयित्वा गोमत्युदधिसंगमे ॥
विमलं लोकमाप्नोति यत्र गत्वा न शोचति ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरस्थ क्षेत्रस्थ भगवत्पूजामाहात्म्यवर्णनंनामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP