संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय २३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥मार्कंडेय उवाच॥
द्वारकायाश्च माहात्म्यमिंद्रद्युम्न निबोध मे ॥
कलौ निवसते यत्र क्लेशहा रुक्मिणीपतिः ॥१॥
कलौ कृष्णस्य माहात्म्यं ये शृण्वंति पठंति च ॥
न तेषां जायते वासो यमलोके युगाष्टकम् ॥२॥
नित्यं कृष्णकथा यस्य प्राणादपि गरीयसी ॥
न तस्य दुर्ल्लभं किंचिदिह लोके परं नृप ॥३॥
मन्वंतरसहस्रैस्तु काशीवासेन यत्फलम् ॥
तत्फलं द्वारकावासे वसतां पंचभिर्दिनैः ॥४॥
कलौ निवसते यस्तु श्वपचो द्वारकां यदि ॥
यतीनां गतिमाप्नोति प्राह ह्येवं प्रजापतिः ॥५॥
द्वारकां गंतुकामं यः प्रत्यहं कुरुते नरः ॥
फलमाप्नोति मनुजः कुरुक्षेत्रसमुद्भवम् ॥६॥
सोमग्रहे च यत्प्रोक्तं यत्फलं सोमनायके ॥
दृष्ट्वा तत्फलमाप्नोति द्वारवत्यां जनार्द्दनम् ॥७॥
पुष्करे कार्त्तिकीं कृत्वा यत्फलं वर्षकोटिभिः ॥
तत्फलं द्वारकावासे दिनेनैकेन जायते ॥८॥
द्वारकायां दिनैकेन दृष्टे देवकिनंदने ॥
फलं कोटिगुणं ज्ञेयमत्र लक्षशतोद्भवम् ॥९॥
कलौ निवसतां भूप धन्यास्तेषां मनोरथाः ॥
कृष्णस्य दर्शने नित्यं द्वारकागमने मतिः ॥१०॥
एकामपि द्वादशीं तु यः करोति नृपोत्तम ॥
कृष्णस्य सन्निधौ भूप द्वारकायाः फलं शृणु ॥११॥
धन्यास्ते कृतकृत्यास्ते ते जना लोकपावनाः ॥
दृष्टं कृष्णमुखं यैस्तु पापकोट्ययुतापहम् ॥१२॥
यत्फलं व्रतसंयुक्तैर्वासरैः कृष्णसंयुतैः ॥
यज्ञैर्दानैर्बृहद्भिश्च द्वारकायां तथैकया ॥१३॥
क्षीरस्नानं प्रकुर्वंति ये नराः कृष्ण मूर्धनि ॥
शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम् ॥१४॥
दधि क्षीराद्दशगुणं घृतं दध्नो दशोत्तरम् ॥
घृताद्दशगुणं क्षौद्रं क्षौद्राद्दशगुणोत्तरम् ॥॥ १५॥
पुष्पोदकं च रत्नोदं वर्द्धनं च दशोत्तरम्॥
मंत्रोदकं च गंधोदं तथैव नृपसत्तम ॥१६॥
इक्षो रसेन स्नपनं शतवाजिमखैः समम्॥
तथैव तीर्थनीरं स फलं यच्छति भूमिप ॥१७॥
कृष्णं स्नानार्द्रगात्रं च वस्त्रेण परिमार्जति॥
तस्य लक्षार्जितस्यापि भवेत्पापस्य मार्जनम् ॥१८॥
स्नापयित्वा जगन्नाथं पुष्पमालावरोहणम् ॥
कुरुते प्रतिपुष्पं तु स्वर्णनिष्कायुतं फलम् ॥१९॥
स्नानकाले तु देवस्य शंखादीनां तु वादनम् ।
कुरुते ब्रह्मलोके तु वसते ब्रह्मवासरम् ॥२०॥
स्नानकाले स कृष्णस्य पठेन्नामसहस्रकम् ॥
प्रत्यक्षरं लभेत्प्रेष्टं कपिलागोशतोद्भवम् ॥२१॥
फलमेतन्महीपाल गीतायाः परिकीर्तितम् ॥
गजेंद्रमोक्षणेनैवं स्तवराजेन कीर्त्तितम् ॥२२॥
स्तवैर्ऋषिकृतैरन्यैः पठितैश्च नराधिप ॥
तोषमाप्नोति देवेशः सर्वान्कामान्प्रयच्छति ॥२३॥
किं पुनर्वेदपाठं तु स्नानकाले करोति यः ॥
तस्य यल्लभते पुण्यं न ज्ञातं नरनायक ॥२४॥
स्नान काले च संप्राप्ते कृष्णस्याग्रे तु नर्तनम् ॥
गीतं चैव पुनस्तत्र स्तवनं वदनेन हि ॥२५॥
स्नानकाले तु कृष्णस्य जयशब्दं करोति यः ॥
करताल समायुक्तं गीतनृत्यं करोति च ॥२६॥
तत्र चेष्टां प्रकुर्वाणो हसते जल्पतेऽपि वा ॥
मुक्तं तेन परं मातुर्योनियंत्रस्य निर्गमम् ॥२७॥
नोत्तानशायी भवति मातुरंके नरेश्वर ॥
गुणान्पठति कृष्णस्य यः काले स्नानकर्मणः ॥२८॥
चंदनागुरुमिश्रेण कंकुमेन सुगंधिना ॥
विलेपयति यः कृष्णं कर्पूरमृगनाभिना ॥
कल्पं तु भवने विष्णोर्वसते पितृभिः सह ॥२९॥
प्रत्येकं चंदनादीनामिंद्रद्युम्न न चान्यथा ॥
नानादेशसमुद्भूतैः सुवस्त्रैश्च सुकोमलैः ॥३०॥
धूपयित्वा सुगंधैश्च यो धूपयति मानवः ॥
मन्वंतराणि वसते तत्संख्यानि हरेर्गृहे ॥३१॥
स्वशक्त्या देवदेवेशं भूषणैर्भूषयंति च ॥
हेमजैरतुलैः शुभ्रैर्मणिजैश्च सुशोभनैः ॥३२॥
तेषां फलं महाराज रुद्राश्च वासवादयः ॥३३॥
जानंति मुनयो नैव वर्जयित्वा तु माधवम् ॥
येऽर्चयंति जगन्नाथं कृष्णं कलिमलापहम् ॥
केतकीतुलसीपत्रैः पुष्पैर्मालतिसंभवैः ॥३४॥
तद्देशसंभवैश्चान्यैर्भूरिभिः कुसुमैर्नृप ॥
एकैकं नृप शार्दूल राजसूयसमं स्मृतम् ॥३५॥
ये कुर्वंति नराः पूजां स्वशक्त्या रुक्मिणीपतेः ॥
क्रीडंति विष्णुलोके ते मन्वतरशतं नराः ॥३६॥
यः पुनस्तुलसीपत्रैः कोमलमंजरीयुतैः ॥
पूजयेच्छ्रद्धया यस्तु कृष्णं देवकिनंदनम् ॥३७॥
या गतिर्योगयुक्तानां या गतिर्योगशालिनाम् ॥
या गतिर्दानशीलानां या गतिस्तीर्थसेविनाम् ॥३८॥
या गतिर्मातृभक्तानां द्वादशीं वेधवर्जिताम् ॥
कुर्वतां जागरं विष्णोर्नृत्यतां गायतां फलम् ॥३९॥
वैष्णवानां तु भक्तानां यत्फलं वेदवादिनाम् ॥
पठतां वैष्णवं शास्त्रं वैष्णवानां तु यच्छताम् ॥४०॥
तुलसीमालया कृष्णः पूजितो रुक्मिणी पतिः ॥
फलमेतन्महीपाल यच्छते नात्र सशयः ॥४१॥
यथा लक्ष्मीः प्रिया विष्णोस्तुलसी च ततोऽधिका ॥
द्वारकायां समुत्पन्ना विशेषेण फलाधिका ॥४२॥
यत्र तत्र स्थितो विष्णुस्तुलसीदलमालया ॥
पूजितो द्वारकातुल्यं पुण्यं स यच्छते कलौ ॥४३॥
योऽर्चयेत्केतकीपत्रैः कृष्णं कलिमलापहम् ॥
पत्रेपत्रेऽश्वमेधस्यफलं यच्छति भूभुज ॥४४॥
योऽर्चयेन्मालतीपुष्पैः कृष्णं त्रिभुवनेश्वरम् ॥
तेनाप्तं नास्ति संदेहो यत्फलं दुर्लभं हरेः ॥४५॥
ऋतुकालोद्भवैः पुष्पैर्योऽर्चयेद्रुक्मिणीपतिम् ॥
सर्वान्कामानवाप्नोति दुर्लभान्देवमानुषैः ॥४६॥
कृष्णेनागुरुणा कृष्णं धूपयंति कलौ युगे ॥
सकर्पूरेण राजेन्द्र कृष्णतुल्या भवंति ते ॥४७॥
साज्येन गुग्गुलेनापि सुगंधेन जनार्द्दनम् ॥
धूपयित्वा नरो याति पदं भूयः सदा शिवम् ॥४८॥
यो ददाति महीपाल कृष्णस्याग्रे तु दीपकम् ॥
पातकं तु समुत्सृज्य ज्योतीरूपं लभेत्पदम् ॥४९॥
द्वारे कृष्णस्य यो नित्यं दीपमालां करोति हि ॥
सप्तद्वीपवतीराज्यं द्वीपेद्वीपे फलं लभेत् ॥५०॥
नैवेद्यानि मनोज्ञानि कृष्णाय विनिवेदयेत् ॥
कल्पांतं तत्पितॄणां हि तृप्तिर्भवति शाश्वती ॥५१॥
फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ॥
जायंते तस्य कल्पांतं सफलास्तु मनोरथाः ॥५२॥
तांबूलं तु सकर्पूरं सपूगं नरनायक ॥
कृष्णाय यच्छते यो वै पदं तस्याग्निदैवतम् ॥५३॥
सनीरं कर्पुरोपेतं कुंभं कृष्णाग्रतो न्यसेत् ॥
कल्पांते न जलापेक्षां कुर्वंति च पितामहाः ॥५४॥
व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वना ॥
देवदेवस्य राजेन्द्र कुरुते धर्मवारणम्॥५९॥
तत्कुले नास्ति पापिष्ठो न च लोके यमस्य च ॥
वायुलोकान्महीपाल न पुनर्विद्यते गतिः॥५६॥
कृष्णवेश्मनि यः कुर्य्यात्सधूपं पुष्पमंडपम् ॥
सपुष्पकविमानैस्तु क्रीडते कोटिभिर्द्दिवि॥५७॥
चलच्चामरवातेन कृष्णं यस्तोषयेन्नरः ॥
तस्योत्तमांगं देवेशश्चुंबते स्वमुखेन हि ॥५८॥
यः कुर्यात्कृष्णभवनं कदलीस्तंभशोभितम्॥
वसत्यर्कलोके तु यावद्वसति मेदिनी ॥५९॥
धूपं चंदनमालां तु कुरुते कृष्णसद्मनि ॥
देवकन्यायुतैर्लक्षैः सेव्यते सुरनायकैः ॥६०॥
ध्वजमारोपयेद्यस्तु प्रासादोपरि भक्तितः ॥
तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह ॥६१॥
प्रांगणं वर्णकोपेतं स्वस्तिकैश्च समन्वितैः ॥
देवदेवस्य कुरुते क्रीडते भुवनत्रये॥६२॥
यो दद्यान्मण्डपे पुष्पप्रकरं रुक्मिणीपतेः॥
देवोद्यानेषु सर्वेषु क्रीडते नरनायकैः॥६३॥
प्रासादे देवदेवस्य चित्रकर्म करोति यः॥
वसते रुद्रलोके तु यावत्तिष्ठंति सागराः॥६४॥
दद्याच्चन्द्रमयं यस्तु कृष्णोपरि नरेश्वर॥
वसते द्वारकां यावत्सोमलोके स तिष्ठति ॥६५॥
छत्रं बहुशलाकं तु किंकिणीवस्रगुण्ठितम् ॥
दिव्यरत्नैश्च संयुक्तं हेमदण्डसमन्वितम् ॥६६॥
समर्पयति कृष्णाय च्छत्रं लक्षार्बुदैर्वृतम् ॥
अमरैः सहितः सर्वैः क्रीडते पितृभिः सह ॥६७॥
दद्यान्नरविमानं तु कृष्णाय नरनायक ॥
सत्कृतो धनदेनैव वसते ब्रह्मवासरम् ॥६८॥
कृता पूजा दिकं भूप ज्वलंतं कृष्णमूर्द्धनि ॥
आरार्तिकं प्रकुर्वाणो मोदते कृष्णसन्निधौ ॥६९॥
दीप्तिमंतं सकर्पूरं करोत्यारार्तिकं नृप ॥
कृष्णस्य वसते लोके सप्तकल्पानि मानवः ॥७०॥
धृत्वा शंखोदकं यस्तु भ्रामयेत्केशवोपरि ॥
संनिधौ वसते विष्णोः कल्पांतं क्षीरसागरे ॥७१॥
एवं कृत्वा तु कृप्णस्य यः करोति प्रदक्षिणाम् ॥
पठन्नामसहस्रं तु स्तवमन्यं पठन्नृप ॥
सप्तद्वीपवतीपुण्यं लभते तु पदेपदे ॥७२॥
कुर्य्याद्दण्डनमस्कारमश्वमेधायुतैः समम् ॥
कृष्णं संतोषयेद्यस्तु सुगीतैर्मधुरैः स्वरैः ॥
सामवेदफलं तस्य जायते नात्र संशयः ॥७३॥
यो नृत्यति प्रहृष्टात्मा भावैर्बहु सुभक्तितः ॥
स निर्द्दहति पापानि मन्वंतरकृतान्यपि ॥७४॥
यः कृष्णाग्रे महाभक्त्या कुर्य्यात्पुस्तकवाचनम् ॥
प्रत्यक्षरं लभेत्पुण्यं कपिलाशतदानजम् ॥।७५॥
ऋग्यजुःसामभिर्वाग्भिः कृष्णं संतोषयंति ये ॥
कल्पांतं ब्रह्मलोके तु ते वसंति द्विजोत्तमाः ॥७६॥
योगशास्त्राणि वेदांता न्पुराणं कृष्णसन्निधौ ॥
पठंति रविबिंबं ते भित्त्वा यांति हरेर्लयम् ॥७७॥
गीता नामसहस्रं तु स्तवराजो ह्यनुस्मृतिः ॥
गजेन्द्रमोक्षणं चैव कृष्णस्यातीव वल्लभम् ॥७८॥
श्रीमद्रागवतं यस्तु पठते कृष्णसन्निधौ ॥
कुलकोटिशतैर्युक्तः क्रीडते योगिभिः सदा ॥७९॥
यः पठेद्रामचरितं भारतं व्यासभाषितम् ॥
पुराणानि महीपाल प्राप्तो मुक्तिं न संशयः ॥२८०॥
द्वादशीवासरे प्राप्त एवं कुर्वंति ये नराः ॥
गीताद्यैः शतसाहस्रं पुण्यं यच्छति केशवः ॥८१॥
जागरे कोटिगुणितं पुण्यं भवति भूभिप ॥
वसतां द्वारकावासात्प्रत्यहं लभते फलम् ॥८२॥
गोमतीनीरपूतानां कृष्णवक्त्रावलोकि नाम् ॥
दर्शनात्पातकं तेषां याति वर्षशतार्जितम् ॥८३॥
धन्यास्ते मानुषे लोके गोमत्युदधिवारिणा॥
तर्पयंति पितॄन्देवान्गत्वा द्वारवतीं कलौ॥८४॥
गंगाद्वारे प्रयागे च गंगायां कुरुजांगले ॥
प्रभासे शुक्लतीर्थे च श्रीस्थले पुष्करेऽपि च ॥८५॥
स्नानेन पिंडदानेन पितॄणां तर्पणे कृते ॥
तृप्तिर्भवति भूपाल तथा गोमतिदर्शनात् ॥८६॥
योजनैर्बहुभिस्तिष्ठन्गोमतीति च यो वदेत् ॥
चांद्रायणसहस्रस्य फलमाप्नोति यत्नतः ॥८७॥
धन्या द्वारवती लोके वहते यत्र गोमती ॥
स्वयं तु तिष्ठते यत्र नित्यं रुक्मिणिवल्लभः ॥८८॥
न स्नाता गोमतीतीरे कलौ पापेन मोहिताः ॥
भविष्यति कथं तेषां पापबंधस्य संक्षयः ॥८९॥
निर्मिता स्वर्गनिःश्रेणी कलौ कृष्णेन गोमती ॥
मनसः प्रीतिजननी जंतूनां नरसत्तम ॥९०॥
न दृश्यं स्वर्गसोपानं दृश्यते गोमतीसमम्॥
सुखदं पापिनां पुंसां स्नानमात्रेण मोक्षदम् ॥९१॥
गोमतीनीरसंयुक्तो यत्र गर्जति सागरः ॥
तत्र गच्छेन्नरव्याघ्र कृष्णस्तिष्ठति यत्र वै ॥९२॥
यत्र चक्रांकितशिला गोमत्युदधिनिःसृताः ॥
यच्छंति पूजिता मोक्षं तां पुरीं को न सेवते ॥९३॥
यत्र चक्रांकिता मृत्स्ना तिष्ठते निर्मला नृप ॥
कलौ पापविनाशार्थं तां पुरीं को न सेवते ॥९४॥
अप्रदृश्या पुरा लोके दैत्यदानवरक्षसाम् ॥
शरण्या देवतादीनां पुरीं तां को न सेवते ॥९५॥
त्यजते यां कलौ नैव कृष्णो देवकिनन्दनः ॥
कर्मणा मनसा वाचा तां पुरीं को न सेवते ॥९६॥
 ॥मार्कंडेय उवाच॥
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मुच्यते नूनं दुःखसंसार बंधनात् ॥९७॥
अवन्तीविषये पूर्वं ब्राह्मणो वेदपारगः ॥
चंद्रशर्मेति विख्यातः शिवभक्तः सदा नृप ॥९८॥
मनसा कर्मणा वाचा नान्यं ध्याति सदाशिवात् ॥
शैवाद्व्रताद्व्रतं नान्यत्करोति च नराधिप ॥९९॥
नोपवासं हरिदिने कुरुते न व्रतं हरेः ॥
विना चतुर्दशीं राजन्नान्यदेवसमुद्भवम् ॥१००॥
यत्रयत्र शिवक्षेत्रं यत्र तीर्थं तु शांकरम् ॥
तत्र गच्छति राजेन्द्र वैष्णवं नैव गच्छति ॥१०१॥
प्रतिवर्षं तु कुरुते सोमनाथस्य दर्शनम् ॥
न जहाति विशेषेण सोमपर्व नरेश्वर ॥१०२॥
एवं प्रकुर्वतस्तस्य वर्षाणि नवसप्ततिः ॥
गतानि किल राजेन्द्र शिवभक्तिं प्रकुर्वतः ॥१०३॥
कदाचित्सोमपर्वण्यागते सोमोपनायकम्॥
नानादेशान्महीपाल ह्यसंख्याताश्च मानवाः ॥१०४॥
गताः कृष्णपुरीं सर्वे दृष्ट्वा सोमेश्वरं प्रभुम्॥
आहूतस्तैश्चंद्रशर्मा न गतो द्वारकां पुरीम् ॥१०५॥
शिवक्षेत्रात्परं तीर्थं नाहं मन्ये जग त्त्रये ॥
नान्यदेवो मया ज्ञात ईश्वराद्देवनायकात् ॥१०६॥
विनाऽन्ये चंद्रशर्माणं गतास्ते द्वारकां पुरीम् ॥
अन्यस्मिन्दिवसे राजन्गच्छतः स्वगृहं प्रति ॥
चक्रुस्ते दर्शनं स्वप्ने चंद्रशर्मपितामहाः ॥१०८॥
प्रेतभूता महाकायाः क्षुत्क्षामाश्चैव भीषणाः ॥
दृष्ट्वा स्वप्नं महा रौद्रं भीतोऽसौ च प्रकंपितः ॥१०९॥
 ॥चन्द्रशर्मोवाच॥
के यूयं विकृताकारा जंतूनां च भयानकाः ॥
पृथ्वीसमुद्भवा जीवा न दृष्टा न श्रुता मया ॥११०॥
 ॥प्रेता ऊचुः॥
मा भयं कुरु विप्रेंद्र तव पूर्वपितामहाः ॥
आगतास्त्वत्समीपे तु महादुःखेन पीडिताः ॥१११॥॥
 ॥चन्द्रशर्मोवाच॥
इष्टं दत्तं तपस्तप्तं भवद्भिर्मत्पितामहैः ॥
प्रेतत्वे कारणं यत्स्याद्भवतां विस्मयो मम ॥११२॥
 ॥प्रेता ऊचुः॥
शृणु पुत्र प्रवक्ष्यामः प्रेतयोनेस्तु कारणम् ॥
वासरं वासुदेवस्य सदा विद्धं कृतं पुरा ॥११३॥
प्रेतत्वं तेन संप्राप्तमस्माभिः शृणु पुत्रक ॥
विशेषेण कृतं रात्रौ विद्धं जागरणं हरेः ॥११४॥
पतनं नरके घोरे भविष्यति न संशयः ॥
त्वया सह न संदेहो यावदाभूतसंप्लवम् ॥११५॥
चन्द्रशर्मोवाच॥
हरिभक्तिविहीनानां द्वादशीव्रतवर्जिनाम्॥
नाशं न याति प्रेतत्वं पूजितैः शंकरादिभिः ॥११६॥
न वा सन्तोषितो देवो भक्त्या त्रिपुरनाशनः ॥
प्रदास्यति गतिं नूनं प्रेतत्वं न गमिष्यति ॥११७॥
 ॥प्रेता ऊचुः॥
प्रायश्चित्तं विना पुत्र द्वादशीवेधसंभवम् ॥
आपन्न गच्छते नूनं प्रेतत्वं नैव गच्छति ॥११८॥
प्रायश्चित्ती सदा पुत्र पूजयानोऽपि शंकरम् ॥
विना केशवपूजाभिः पापं भजति गोवधम् ॥११९॥
प्रथमं केशवः पूज्यः पश्चाद्देवो महेश्वरः ॥
पूजनीयाश्च भक्त्या वै याश्चान्याः संति देवताः ॥१२०॥
मूलाच्छाखाः प्रशाखाश्च भवंति बहुशस्ततः ॥
वासुदेवात्समुद्भूतं जगदेतच्चराचरम् ॥१२१॥
तस्मान्मूलं परित्यज्य शाखां नैवार्चयेद्बुधः ॥
विशेषेण जगन्नाथं त्रैलोक्याधिपतिं हरिम् ॥१२२॥
तद्दिने ये प्रकुर्वंति सम्यग्वेधेन शोभितम् ॥
सशल्यं तन्न संदेहः प्रेतत्वं याति तेन च ॥१२३॥
हव्यं देवा न गृह्णन्ति कव्यं च पितरस्तथा ॥
पूजां गृह्णाति नो सूर्यस्तथा चैव पितामहाः ॥१२४॥
प्रेतास्ते ये प्रकुर्वंति सशल्यं वासरं हरेः ॥
पौर्णमासीद्वये प्राप्ते राका साग्निविवर्जिता ॥१२५॥
विशेषेण तु वैशाखी श्राद्धादीनां प्रशस्यते ॥
वैशाखे तु तृतीयां वै पूर्वविद्धां करोति यः ॥१२६॥
हव्यं देवा न गृह्णंति कव्यं चैव पितामहाः॥
यत्र देवा न गृह्णंति कथं तत्र पितामहाः ॥
तस्मात्कार्य्या तृतीया च पूर्वविद्धा बुधैर्नरैः ॥१२७॥
कुर्वते यदि मोहाद्वा प्रेतत्वं शाश्वतं ततः ॥
नापयाति कृतैः पुण्यैर्बहुशस्तीर्थसेवनैः ॥१२८॥
दशमीं पौर्णमासीं च पित्रोः सांवत्सरं दिनम् ॥
पूर्वविद्धं प्रकुर्वाणो नरकं प्रतिपद्यते ॥१२९॥
दर्शश्च पौर्णमासी च साग्निकैः पूर्वसंयुता ॥
नाग्निहीनैस्तु कर्त्तव्या पुनराह प्रजापतिः ॥२१३०॥
क्षयाहे तु पुनः प्रोक्ता स्वकालव्यापिनी तिथिः ॥
श्राद्धं तत्र प्रकर्तव्यं ह्रासवृद्धी न कारणम् ॥१३१॥
तत्रोक्तं मनुना पुत्र वेदांतैर्भाष्यकारिभिः ॥
तत्प्रमाणं प्रकर्तव्यं प्रेतत्वं भवतोऽन्यथा ॥ ॥१३२॥
एतै. प्रकारैः प्रेतत्वं प्राणिनां जायते भुवि ॥
निरीक्ष्य धर्मशास्त्राणि कार्य्यं विहितमात्मनः ॥१३३॥
प्रणम्य सोमनाथं तु यात्रां कृत्वा न गच्छति ॥
कृष्णस्य दर्शनार्थाय तस्य किं जायते फलम् ॥१३४॥
कथ्यते परमा मूर्तिर्हरिरीश्वरसं संस्थिता॥
विभेदो नात्र कर्तव्यो यथा शंभुस्तथा हरिः ॥१३५॥
कृष्णस्य सोमनाथस्य नांतरं दृश्यते क्वचित्॥
यात्रा श्रीसोमनाथस्य संपूर्णा कृष्णदर्शनात् ॥१३६॥
तस्मादुभयतः पुत्र गन्तव्यं नात्र संशयः॥
दृष्ट्वा सोमेश्वरं देवं गंतव्यं द्वारकां प्रति ॥१३७॥
प्रभासे सोमनाथस्य लिंगमध्ये व्यवस्थितः ॥
स्वयं तिष्ठति पुण्यात्मा भोगं गृह्णाति केशवः ॥१३८॥
दृष्ट्वा सोमेश्वरं देवं द्वारकां न नरो गतः ॥
पतनं नरके घोरे पितॄणां च भविष्यति ॥१३९॥
विशेषेण त्वया वत्स न कृतं द्वादशीव्रतम् ॥
व्रतं कृतं यदस्माभिस्तत्कृतं वेधसंयुतम् ॥
निर्गमं यमलोकाद्धि तदस्माकं न दृश्यते ॥१४०॥
 ॥चन्द्रशर्मोवाच॥
यदि तात मयाऽज्ञानान्न कृतं द्वादशीव्रतम् ॥
कस्मात्कृतं सशल्यं तु भवद्भिर्द्वादशीव्रतम् ॥१४१॥
 ॥प्रेता ऊचुः॥
कुविप्रैस्तु कुदैवज्ञैः शुक्रमायाविमोहितैः ॥
पारुष्यताहेतुकैश्च प्रेतयोनिमिमां गताः ॥ ॥१४२॥
दत्तं तप्तं हुतं जप्तमस्माकं विफलं गतम् ॥
संप्राप्ता प्रेतयोनिस्तु सशल्याद्वादशीव्रतात् ॥१४३॥
सशल्यं ये प्रकुर्वंति वासरं केशव प्रियम् ॥
तेषां पितामहाः स्वर्गात्प्रेतत्वं यांति पुत्रक ॥१४४॥
 ॥चन्द्रशर्मोवाच॥
प्रेतत्वं नाशमायाति कथमेतत्पितामहाः ॥
कर्मणा केन तत्सर्वं यच्चाहं प्रकरोमि तत् ॥१४५॥
 ॥प्रेता ऊचुः॥
मा गयां मा प्रयागं च पुष्करे कुरुजांगले ॥
अयोध्यायामवंत्यां वा मधुरायां न चार्बुदे ॥१४६॥
न चान्यत्तीर्थलक्षं तु वर्जयित्वा तु गोमतीम् ॥
गंगा सरस्वती चैव नर्मदा नैव पुष्करम् ॥१४७॥
यादृशं गोमतीतीरे कलौ प्रेतत्वनाशनम् ॥
गोमतीनीरदानेन कृष्णवक्त्रविलोकनात् ॥१४८॥
विलयं यांति पापानि जन्मकोटिकृतान्यपि ॥
वृथा संन्यासिनां पुण्यं वृथा च वनवासिनाम् ॥१४९॥
सशल्यं वासरं विष्णोः कुर्वंति यदि पुत्रक ॥
तस्माद्गच्छ मुखं पश्य पूर्णचन्द्रसमं मुखम् ॥१५०॥
कृष्णस्य द्वारकां गत्वा यथास्माकं गतिर्भवेत् ॥
विफलं तव संजाता न कृतं यदुपार्ज्जितम् ॥१५१॥
तद्व्यर्थ सकलं जातं विना केशव पूजनात् ॥
विना केशवपूजायाः शंकरो यस्त्वयार्च्चितः ॥
तत्पुण्यं विफलं जातं प्रेतयोनिं गमिष्यसि ॥१५२॥
संपूर्णं तव पुण्यं च द्वारका कृष्णदर्शनात् ॥
भविष्यति न सन्देहो गोमत्युदधिसन्निधौ ॥१५३॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं यदि न पश्यति ॥
यात्राफलं न चाप्नोति वदत्येवं स्वयं शिवः ॥१५४॥
दृष्टोऽहं तैर्न सन्देहो यैः कृतं कृष्णदर्शनम् ॥
एका मूर्तिर्न सन्देहो मम कृष्णस्य नांतरम् ॥१५५॥
दृष्ट्वा मां द्वारकां गत्वा कर्त्तव्यं कृष्णदर्शनम् ॥
दृष्ट्वा कृष्णं तु मां पश्येद्यास्यत्येव महाफलम् ॥१५६॥
कृष्णदर्शनपूतात्मा यो मां पश्यति मानवः ॥
न तस्य पुनरावृत्तिर्मम लोकाच्च वैष्णवात् ॥१५७॥
इत्याह देवदेवेशः स्वयं सोमपतिः पुरा ॥
विप्राणां श्रुतमस्माभिर्वदतां पुष्करे सताम् ॥१५८॥
तस्माद्गच्छ प्रयाणार्थ कुरु कृष्णस्य दर्शनम् ॥
अन्यथा यास्यसे योनिं पैशाचीं पापदायिनीम् ॥१५९॥
कृतापराधोऽपि यदा कुरुते कृष्णदर्शनम् ॥
मुच्यते नाऽत्र संदेहः पापाज्जन्मकृतादपि ॥१६०॥
पूजिते देवदेवेशे कृष्णे देवकिनन्दने ॥
पूजिता देवताः सर्वा ब्रह्मरुद्रभगादिकाः ॥१६१॥
विना कृष्णस्य पूजां च रुद्राद्यास्त्रिदिवौकसः ॥
पूजिता नैव कुर्वंति तुष्टिं पुत्र पितामहाः ॥१६२॥
तस्माद्द्वारवतीं गत्वा कृष्णस्य दर्शनं कुरु ॥
प्रेतयोनेर्विनिर्मुक्ता यास्यामः परमां गतिम् ॥१६३॥
गोमतीनीरधौतानि यस्यांगानि कलौ युगे ॥
मुनिभिर्योनिगमनं तस्य दृष्टं न पुत्रक ॥१६४॥
ताडिताः पादयुग्मेन गोमतीनीरवीचयः ॥
अगतीनां प्रकुर्वति गतिं वै ब्रह्मवादिनाम् ॥१६५॥
यः पुनः कुरुते श्राद्धं गोमत्युदधिसंगमे ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥१६६॥
ससागरधरायां च सर्वतीर्थेषु यत्फलम् ॥
दिनेनैकेन तत्पुण्यं द्वारकाकृष्णसन्निधौ ॥१६७॥
यत्फलं त्रिदशैर्दृष्टं सर्वतीर्थसमुद्भवम् ॥
तत्फलं लभते सर्वं द्वारकायां दिनेदिने ॥१६८॥
तीर्थकोटिसहस्रैस्तु कृतैः श्राद्धैश्च यत्फलम् ॥
पितॄणां तत्फलं प्रोक्तं गोमतीतिलतर्पणात् ॥१६९॥
यतीनां भोजनं यस्तु यच्छते कृष्णमन्दिरे ॥
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ॥१७०॥
कौपीनाच्छादनं छत्रं पादुके च कमण्डलुम् ॥
दत्त्वा संन्यासिनां याति सप्त कल्पानि तत्फलम् ॥१७१॥
धन्यास्ते मानवाः पुत्र वसन्ति श्वपचादयः ॥
द्वारकायां गतिं यांति वसतां तत्र योगिनाम् ॥ ॥१७२॥
त्रिकालं ये प्रपश्यंति वदनं प्रत्यहं हरेः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥१७३॥
या नारी विधवा भूत्वा कुरुते द्वारकाश्रयम् ॥
कुलायुतसहस्रं तु नयते परमं पदम् ॥१७४॥
पुत्रेणापीह किं कार्य्यं न गतो द्वारकां यदि ॥
नारी पुत्रशताच्छ्रेष्ठा गत्वा कृष्णपुरीं वसेत् ॥ ॥१७५॥
कृष्णं कृष्णपुरीं गत्वा योऽर्च्चयेत्तुलसीदलैः ॥
प्राप्तं जन्मफलं तेन तारिताः प्रपितामहाः ॥१७६॥
तुलसीदलमालां तु कृष्णोत्तीर्णां तु यो वहेत् ॥
पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम् ॥१७७॥
तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥
फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम् ॥१७८॥
निवेद्य विष्णवे मालां तुलसीकाष्ठसंभवाम् ॥
वहते यो नरो भक्त्या तस्य नैवास्ति पातकम् ॥
सदा प्रीतमनास्तस्य कृष्णो देवकिनंदनः ॥१७९॥
तुलसीकाष्ठसंभूतं शिरोबाह्वादिभूषणम् ॥
जायते यस्य मर्त्यस्य तस्य देहे सदा हरिः ॥१८०॥
तुलसीमालया यस्तु भूषितः कर्म चाऽऽचरेत् ॥
पितॄणां देवतानां च कृतं कोटिगुणं कलौ ॥१८१॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥
दृष्ट्वा दूरेण नश्यंति वातोद्धूता यथाऽलयः ॥१८२॥
जायते तद्ग्रहे नैव पापसंक्रमणं कुतः ॥
श्रुतं पुराणमस्माभिः कथितं ब्रह्मवादिभिः ॥१८३॥
तस्मान्माला त्वया धार्य्या तुलसीकाष्ठसंभवा ॥
हरते नात्र संदेह ऐहिकामुष्मिकं त्वघम् ॥१८४॥
तुलसीमालया यस्तु भूषितो भ्रमते यदि ॥
दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित् ॥१८५॥
कृत्वा वै तीर्थसंन्यासं यतयो विधवाः स्त्रियः ॥
जीवन्मुक्ताः कलौ ज्ञेयाः कुलकोटिसमन्विताः ॥ ॥१८६॥
धारयंति न ये मालां हैतुकाः पापमोहिताः ॥
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः ॥१८७॥
उन्मीलिनी वंजुलिनी त्रिस्पृशा पक्षवर्द्धिनी ॥
त्वया पुत्र प्रकर्त्तव्या जयंती विजया जया ॥१८८॥
पापघ्नी चाष्टमी प्रोक्ता कृष्णस्यातीव वल्लभा ॥
कृता कलौ युगे पुत्र द्वारका मोक्षदायिनी ॥१८९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकागमनमाहात्म्य तुलसीधारणमाहात्म्यवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP