संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीप्रह्लाद उवाच ॥
एवं संपूजितस्तेन हरिणा ब्राह्मणोत्तमः ॥
उवाच परिसन्तुष्टो वरं ब्रूहीति केशवम् ॥१॥
 ॥श्रीकृष्ण उवाच॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो मम ॥
स्थातव्यमत्र भवता न त्यक्तव्यं कदाचन ॥२॥
 ॥दुर्वासा उवाच॥
यदि तिष्ठाम्यहं कृष्ण तथा त्वमपि केशव ॥
तिष्ठस्व षोडशकलो नित्यं मद्वचनेन हि ॥३॥
 ॥श्रीकृष्ण उवाच॥
येऽत्र पश्यंति भक्त्या त्वां मां चापि द्विजसत्तम ॥
किं दास्यसि फलं तेषां भाविनां भगवन्वद ॥४॥
 ॥दुर्वासा उवाच॥
यः स्नात्वा संगमे कृष्ण गोमत्याः सागरस्य च ॥
त्वां मां समर्चति नरः सर्वपापैः समुच्यते ॥५॥
तथान्यच्छृणु कृष्णात्र स्नात्वा दास्यति यद्धनम् ॥
मम दत्तस्य देवेश प्राप्नुयात्षोडशोत्तरम् ॥६॥
 ॥श्रीकृष्ण उवाच ॥
यो नरः पूजयित्वा त्वां पूजयिष्यति मामिह ॥
तस्य मुक्तिं प्रदास्यामि या सुरैरपि दुर्ल्लभा ॥७॥
 ॥प्रह्लाद उवाच॥
परस्परं वरौ दत्त्वा कृष्णदुर्वाससौ मुदा॥
ततः प्रभृति विप्रेन्द्रास्तस्मिन्स्थाने ह्यतिष्ठताम्॥
वरदानमिति प्रोक्तं तत्तीर्थं सर्वकामदम् ॥८॥
वरदाने नरः स्नातो गोसहस्रफलं लभेत् ॥
विष्णुदुर्वाससोर्यत्र वरदानमभूत्पुरा ॥९॥
तदाप्रभृति विप्रेन्द्रास्तिष्ठते द्वारकां हरिः ॥
दुर्वाससा गिरा बद्धो न जहाति कदाचन ॥१०॥
यत्र त्रैविक्रमी मूर्तिर्वहते यत्र गोमती ॥
नरा मुक्तिं प्रयास्यंति चक्रतीर्थेन संगताः ॥११॥
कलेवरं परित्यक्तं प्रभासे हरिणा यदा ॥
कलाभिः सहितं तेजस्तस्यां मूर्तौ निवेशितम् ॥१२॥
तस्मात्कलियुगे विप्रा नान्यत्र प्राप्यते हरिः ॥
यदि कार्य्यं हि कृष्णेन तत्र गच्छत मा चिरम् ॥१३॥
 ॥ऋषय ऊचुः॥
साधु भागवतश्रेष्ठ साधु मार्गप्रदर्शक ॥
यत्त्वया हि परिज्ञातं तन्न जानाति कश्चन ॥१४॥
किं फलं गमने तस्यां किं फलं कृष्णदर्शने ॥
कानि तीर्थानि तत्रैव के देवास्तद्वदस्व नः ॥१५॥
कस्मिन्मासे तिथौ कस्यां कस्मिन्पर्वणि मानवैः ॥
गन्तव्यं कानि देयानि दानानि दनुजर्षभ ॥१६॥
॥सूत उवाच॥
इति पृष्टस्तदा तैस्तु महाभागवतोऽसुरः ॥
कथयामास विप्रेभ्यो भगवद्भक्तिसंयुतः ॥१७॥
 ॥प्रह्लाद उवाच॥
भो भूमिदेवाः शृणुत परं गुह्यं सनातनम् ॥
यत्कस्यचिन्न चाख्यातं तद्वदामि सुविस्तरात् ॥१८॥
यदा मतिं च कुरुते द्वारकागमनं प्रति ॥
तदा नरकनिर्मुक्ता गायन्ति पितरो दिवि ॥१९॥
यावत्पदानि कृष्णस्य मार्गे गच्छति मानवः ॥
पदेपदेऽश्वमेधस्य यज्ञस्य लभते फलम् ॥२०॥
यात्रार्थं देवदेवस्य यः प्रेरयति चापरान् ॥
मानवान्नात्र सन्देहो लभते वैष्णवं पदम् ॥२१॥
द्वारकां गच्छमानस्य यो ददाति प्रतिश्रयम् ॥
तथैव मधुरां वाचं नन्दते क्रीडते हि सः ॥२२॥
अध्वनि श्रांतदेहस्य वाहनं यः प्रयच्छति ॥
हंसयुक्तेन स नरो विमानेन दिवं व्रजेत् ॥२३॥
यात्रायां गच्छमानस्य मध्याह्ने क्षुधितस्य च ॥
अन्नं ददाति यो भक्त्या शृणु तस्यापि यद्भवेत् ॥२४॥
गयाश्राद्धेन यत्पुण्यं लभते मानवो भुवि ॥
अन्नदानेन तत्पुण्यं पितॄणां तृप्तिरक्षया ॥२५॥
उपानहौ तु यो दद्याद्द्वारकां प्रति गच्छताम्॥
कृष्णप्रसादात्स नरो गजस्कन्धेन गच्छति ॥२६॥
विघ्नमाचरते यस्तु द्वारकां प्रति गच्छताम्॥
नरके मज्जते मूढः कल्पमात्रं तु रौरवे ॥२७॥
मार्गस्थितस्य यो धन्यः प्रयच्छति कमण्डलु्म्॥
प्रपादानसहस्रस्य फलमाप्नोति मानवः ॥२८॥
यात्रायां गच्छमानस्य पादभ्यंगं ददाति यः॥
पादप्रक्षालनं चैव सर्वान्कामानवाप्नुयात् ॥२९॥
गाथां शृणोति यो विष्णोर्गीतं च गायतः पथि ॥
दानं ददाति विप्रेन्द्रास्तस्माद्धन्यतरो न हि॥३०॥
कैलासशिखरावासं श्वेताभ्रमिव निर्मलम् ॥
प्रासादं कृष्णदेवस्य यः पश्यति नरोत्तमः ॥३१॥
दूराद्धेममयं दृष्ट्वा कलशं ध्वजसंयुतम्॥
वाहनं संपरित्यज्य लुठते धरणीं गतः ॥३२॥
पञ्चसूनाकृतं पापं तथाऽधर्मकृतं च यत् ॥
कृमिकीटपतंगाश्च निहताः पथि गच्छता ॥
परान्नं परपानीयमस्पृश्य स्पर्शसंगमम् ॥
तत्सर्वं नाशमाप्नोति भगवत्केतुदर्शनात् ॥३४॥
पठेन्नामसहस्रं तु स्तवराजमथापि वा ॥
गजेन्द्रमोक्षणं चैव पथि गच्छञ्छनैः शनैः ॥३५॥
गायमानो भगवतः प्रादुर्भावाननेकधा ॥
नृत्यद्भिर्हर्षसंयुक्तैर्हृष्यमाणः पुनःपुनः ॥
स्वयं नृत्यन्हर्षयुक्तो भक्तो गच्छेद्धरेः पुरम् ॥३६॥
विष्णोः क्रीडाकरं स्थानं भुक्तिमुक्तिप्रदायकम् ॥
यस्मिन्दृष्टे कलौ नॄणां मुक्तिरेवोपजायते ॥३७॥
 ॥प्रह्लाद उवाच॥
पूर्वं हि देवराजेन बृहस्पतिरुदारधीः ॥
प्रणम्य परया भक्त्या पृष्टश्च स महामतिः ॥३८॥
 ॥इन्द्र उवाच॥
द्वारकायाश्च माहात्म्यं कथयस्व प्रसादतः ॥
चतुर्युगं यथाभागैर्धर्मवृद्धिं जनो लभेत् ॥३९॥
एतच्छ्रुत्वा महेन्द्रस्य वचनं मुनिसत्तमाः ॥
बृहस्पतिरुवाचैनं महेन्द्रं देव संवृतम्॥४०॥
 ॥बृहस्पतिरुवाच॥
कृतं त्रेता द्वापरं च कलिश्च सुरसत्तम ॥
चतुर्युगमिदं प्रोक्तं तत्त्वतो मुनिसत्तमैः ॥४१॥
 कृते धर्मश्चतुष्पादो वेदादिफलमेव च ॥
तीर्थं दानं तपो विद्या ध्यानमायुररोगता ॥४२॥
पादहीनं सर्वमेतद्युगं त्रेताभिधं प्रभो ॥
पादद्वयं द्वापरे तु सर्वस्यैतस्य वासव ॥४३॥
पादेनैकेन तत्सर्वं विभागे प्रथमे कलौ ॥
ऊर्ध्वं विनाशः सर्वस्य भविष्यति न संशयः ॥४४॥
मन्त्रास्तीर्थानि यज्ञाश्च तपो दैवादिकं तथा ॥
प्रगच्छंति समुच्छेदं वेदाः शास्त्राणि चैव हि ॥४५॥
म्लेच्छप्रायाश्च भूपाला भविष्यन्त्यमराधिप॥
लोकः करिष्यते निन्दां साधूनां व्रतचारिणाम् ॥४६॥
 ॥प्रह्लाद उवाच॥
श्रुत्वा बृहस्पतेर्वाक्यमेतत्तीर्थस्य भो द्विजाः ॥
प्रकंपिताः सुराः सर्वे म्लेच्छ संसर्गजाद्भयात् ॥४७॥
बृहस्पतिं सुरगुरुं पप्रच्छुर्विनयान्विताः ॥
म्लेच्छसंसर्गजो दोषो गंगयापि न पूयते ॥४८॥
कथयस्व प्रसादेन स्थानं कलिविवर्जितम् ॥
यत्र गत्वा निवत्स्यामो यास्यामो निर्वृतिं पराम् ॥४९॥
येन दुःखविनिर्मुक्ता भविष्यामो गतव्यथाः ॥
कृपया सुमुखो भूत्वा ब्रूहि तीर्थं हिताय नः ॥५०॥
 ॥प्रह्लाद उवाच॥
एतच्छ्रुत्वा सुरेन्द्रस्य वाक्यमंगिरसां वरः ॥
चिरं ध्यात्वा जगादेदं वाक्यं देवपुरोहितः ॥५१॥
 ॥बृहस्पतिरुवाच॥
पञ्चक्रोशप्रमाणं हि तीर्थं तीर्थवरोत्तमम्॥
द्वारकानाम विख्यातं कलिदोषविवर्जितम्॥५२॥
विष्णुना निर्मितं स्थानं लोकस्य गतिदायकम् ॥
मुक्तिदं कलिकाले तु ज्ञानहीनजनस्य च ॥५३॥
ऊषरं कर्मणां क्षेत्रं पुण्यं पापविनाशनम्॥
न प्ररोहंति पापानि पुनर्नष्टानि तत्र वै ॥५४॥
तिस्रः कोटयोऽर्धकोटी च तीर्थानीह महीतले ॥५५॥
एवं तीर्थयुता तत्र द्वारका मुक्तिदायका ॥
सेवनीया प्रयत्नेन प्राप्य मानुष्यमुत्तमम् ॥५६॥
 ॥प्रह्लाद उवाच॥
बृहस्पतेर्वचः श्रुत्वा शतक्रतुरथाऽब्रवीत् ॥
वाचस्पते मम इहि द्वारवत्या महोदयम्॥
गमने किं फलं प्रोक्तं कृष्णदेवस्य दर्शने ॥५७॥
अन्यानि तत्र तीर्थानि मुख्यानि वद मे गुरो ॥
यथाभिषेके गोमत्याः फलं यदपि संगमे ॥५८॥। ॥
 ॥बृहस्पतिरुवाच॥
श्रूयतां तात वक्ष्यामि माहात्म्यं द्वारकोद्भवम् ॥
मनुष्यरूपो भगवान्यत्र क्रीडति केशवः ॥५९॥
नारायणः स ईशानो ध्येयश्चादौ जगन्मयः ॥
स एव देवतामुख्यः पुरीं द्वारवतीं स्थितः ॥६०॥
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्रेण कलौ भवति देहिनाम् ॥६१॥
कलौ कृष्णपुरीं रम्यां ये गच्छंति नरोत्तमाः ॥
कुलकोटिशतैर्युक्तास्ते गच्छन्ति हरेः पदम् ॥६२॥
ये ध्यायंति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां विलीयते पापं पूर्वजन्मायुतैः कृतम् ॥६३॥
कृष्णस्य दर्शने बुद्धिर्जायते यस्य देहिनः ॥
वक्त्रावलोकनात्तस्य पापं याति सहस्रधा ॥६४॥
ये गता द्वारकायां च ये मृताः कृष्णसन्निधौ ॥
न तेषां पुनरावृत्तिर्यावदाभूतसंप्लवम् ॥६५॥
सुलभा मथुरा काशी ह्यवन्ती च तथा सुराः ॥
अयोध्या सुलभा लोके दुर्लभा द्वारका कलौ ॥६६॥
गत्वा कृष्णपुरीं रम्यां षण्मासात्कृष्णसंनिधौ॥
जीवन्मुक्तास्तु ते ज्ञेयाः सत्यमेतत्सुरोत्तम ॥६७॥
कृष्णक्रीडाकरं स्थानं वाञ्छन्ति मनसा प्रिये ॥
तेषां हृदि स्थितं पापं क्षालयेत्प्रेतनायकः ॥६८॥
अत्युग्राण्यपि पापानि तावत्तिष्ठन्ति विग्रहे ॥
यावन्न गच्छति नरः कलौ द्वारवतीं प्रति ॥६९॥
पुण्यसंख्या च तीर्थानां ब्रह्मणा विहिता पुरा ॥
दानाध्ययन संज्ञानां मुक्त्वा द्वारवतीं कलौ ॥७०॥
चक्रतीर्थे तु यो गच्छेत्प्रसंगेनापि मानवः ॥
कुलैकविंशतियुतः स गच्छेत्परमं पदम् ॥७१॥
लोभेनाऽप्यपराधेन दम्भेन कपटेन वा ॥
चक्रतीर्थं च यो गच्छेन्न पुनर्विशते भवम् ॥७२॥
प्रयागे ह्यस्थिपातेन यत्फलं परिकीर्तितम् ॥
तदेव शतसाहस्रं चक्रतीर्थास्थिपातनात् ॥७३॥
पृथिव्यां चैव तत्तीर्थं परमं परिकीर्तितम् ॥
चक्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ॥७४॥
ये ये कुले भविष्यंति तत्पूर्वं मानवाः क्षितौ ॥
सर्वे विष्णुपुरं यांति चक्रतीर्थास्थिपातनात् ॥७५॥
किं जातैर्बहुभिः पुत्रैर्गणनापूरकात्मकैः ॥
वरमेको भवेत्पुत्रश्चक्रतीर्थं तु यो व्रजेत् ॥७६॥
तपसा किं प्रतप्तेन दानेनाध्ययनेन किम् ॥
सर्वावस्थोऽपि मुच्येत गतः कृष्णपुरीं यदि ॥७७॥
कलिकाल कृतैर्दोषैरत्युग्रैरपि मानवः ॥
कलौ कृष्णमुखं दृष्ट्वा लिप्यते न कदाचन ॥७८॥
दानं चाध्ययनं शौचं कारणं न हि पुत्रक ॥
हीनवर्णोऽपि पापात्मा गतः कृष्णपुरीं यदि ॥७९॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां च यत्फलम् ॥
तत्फलं निमिषार्धेन द्वारवत्यां दिनेदिने ॥८०॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥
कृष्णोपरि मतिर्येषां हीयते न कदाचन ॥८१॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥
स्नात्वा कृष्णसुतं दृष्ट्वा लिप्यते नैव स क्वचित् ॥८२॥
यस्य कस्यापि मासस्य द्वादशी प्राप्य मानवः ॥
कृष्णक्रीडापुरीं दृष्ट्वा मुक्तः संसारगह्वरात् ॥८३॥
येषां कृष्णालये प्राणा गताः सुरपते कलौ ॥
स्वर्गान्न तेषामावृत्तिः कल्पकोटिशतैरपि ॥८४॥
विज्ञेया मानुषा वत्स गर्भस्थास्ते महीतले ॥
द्वारवत्यां न यैर्देवो दृष्टः कंसनिषूदनः ॥८५॥
दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं दुर्लभो रुक्मिणीपतिः ॥८६॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥
द्वापरे तु परो यज्ञः कलौ केशवकीर्तनम् ॥८७॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
दृष्ट्वा तत्कोटि गुणितं हरेः सर्वप्रदं मुखम् ॥८८॥
द्वारकायां च यद्दत्तं शंखोद्धारे तथैव च ॥
पिंडारके महातीर्थे दत्तं चैवाक्षयं भवेत् ॥८९॥
गोमहिष्यादि यद्दत्तं सुवर्णवसनानि च ॥
वृषो भूमिग्रहो रूप्यं कन्यादानं तथैव च ॥९०॥
यच्चान्यदपि देवेन्द्र त्रिषु स्थानेषु यच्छति ॥
तन्मुक्तिकारकं प्रोक्तं पितॄणामात्मनस्तथा ॥९१॥
ऊषरं हि यतो लोके क्षेत्रमेतत्प्रकीर्तितम् ॥
अतो मुक्तिकरं सर्वं दानं चोक्तं महर्षिभिः ॥९२॥
यत्किंचित्कुरुते तत्र दानं क्रीडावगाहनम् ॥
तदनन्तफलं प्राह भगवान्मधुसूदनः ॥९३॥
 प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥
येन द्वारवतीं गत्वा कृतं कृष्णाऽवलोकनम् ॥९४॥
वारिमात्रेण गोमत्यां पिण्डदाने कृते कलौ ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥९५॥
नित्यं कृष्णपुरीं रम्यां ये स्मरन्ति गृहस्थिताः ॥
नमस्याः सर्वलोकानां देवानां च सुरोत्तम ॥९६॥
ब्रह्मज्ञानं गयाश्राद्धं मरणं गोग्रहेषु च ॥
वासः पुंसां द्वारकायां मुक्तिरेषा चतुर्विधा ॥९७॥
ब्रह्मज्ञानेन मुच्यन्ते प्रयागे मरणेन वा ॥
अथवा स्नानमात्रेण गोमत्यां कृष्णसंनिधौ ॥९८॥
कृतार्थः कृतपुण्योऽहं ब्रवीत्येवं महोदधिः ॥
पवित्रितं च मद्गात्रं गोमतीवारिसंप्लवात् ॥९९॥
अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥
यावत्स्नानं न गोमत्यां वारिणा पापहारिणा ॥१००॥
चक्रतीर्थे नरः स्नात्वा गोमत्यां रुक्मिणीह्रदे ॥
दृष्ट्वा कृष्णमुखं रम्यं कुलानां तारयेच्छतम् ॥१०१॥
कृष्णं च ये द्वारवतीं मनुष्याः स्मरंति नित्यं हरिभक्तियुक्ताः ॥
विधूतपापाः किल संभवांते गच्छंति लोकं परमं मुरारेः ॥१०२॥
अधौतपादः प्रथमं नमस्कुर्याद्गणेश्वरम् ॥
सर्वविघ्रविनाशश्च जायते नात्र संशयः ॥१०३॥
नीलोत्पलदलश्यामं कृष्णं देवकिनन्दनम् ॥
दण्डवत्प्रणमेत्प्रीत्या प्रणमेदग्रजं पुनः ॥१०४॥
बाल्ये च यत्कृतं पापं कौमारे यौवने तथा ॥
दर्शनात्कृष्णदेवस्य तन्नश्येन्नात्र संशयः ॥१०५॥
वाण्याऽथ मनसा यच्च कर्मणा समुपार्जितम् ॥
पापं जन्मसहस्रेण तन्नश्येन्नात्र संशयः ॥१०६॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
तत्फलं कोटिगुणितं कृष्णवक्त्रावलोकनात् ॥१०७॥
नमस्कृत्य च देवेशं पुण्डरीकाक्षमच्युतम् ॥
दुर्वाससं महेशानं द्वारकापरिरक्षकम् ॥१०८॥
प्रणम्य परया भक्त्या वैनतेयसमन्वितम् ।ऽ।
द्वारमागत्य च पुनः स्वर्गद्वारोपमं शुभम् ॥१०९॥
विश्रम्य च मुहूर्त्तार्द्धं सुहृद्भिर्बान्धवैर्वृतः ॥
तत्राश्रितान्समाहूय ब्राह्मणान्मन्त्रकोविदान् ॥
पूजाद्रव्यं समानीय ततस्तीर्थं व्रजेद्बुधः ॥११०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकायात्राविधिवर्णनंनाम चतुर्थोऽध्यायः ॥४॥छ ॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP