संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय ८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.



॥ प्रह्लाद उवाच ॥॥
मा गच्छध्वं सुरनदीं कालिंदीं मा सरस्वतीम्॥
गच्छध्वं च द्विजश्रेष्ठा गोमत्युदधिसंगमे ॥१॥
प्राप्यते हेलया यत्र सर्वे कामा न संशयः॥
गोमतीजलकल्लोलैः क्रीडते यत्र सागरः ॥२॥
पापघ्नं गोमतीतीरं प्राप्यते पुण्यवन्नरैः॥
सागरेण च संमिश्रं महापातकनाशनम् ॥३॥
गोमती संगता यत्र सागरेण द्विजोत्तमाः॥
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ॥४॥
यत्पुण्यं लभते तूर्णं गंगासागरसंगमे॥
तत्पुण्यं समवाप्नोति गोमत्युदधिसंगमे ॥५॥
नमस्कृत्य च तोयेशं गोमतीं च सरिद्वराम्॥
अर्घ्यं दद्याद्विधानेन कृत्वा च करयोः कुशान् ॥६॥
मंत्रेणानेन विप्रेंद्रा दद्यादर्घ्यं विधानतः॥
ब्राह्मणैः सह संगत्य सदा तत्तीर्थवासिभिः ॥७॥
भक्त्या चार्घ्यं प्रदास्यामि देवाय परमा त्मने॥
त्राहि मां पापिनं घोरं नमस्ते सुररूपिणे ॥८॥
तीर्थराज नमस्तुभ्यं रत्नाकर महार्णव॥
गोमत्या सह गोविंद गृहाणार्घ्यं नमोऽस्तु ते ॥९॥
दत्त्वा चार्घ्यं शिखां बद्ध्वा संस्मृत्य जलशायिनम्॥
कुर्याच्च प्राङ्मुखः स्नानं ततः प्रत्यङ्मुखस्तथा ॥१०॥
स्नात्वा च परया भक्त्या पितॄन्संतर्पयेत्ततः॥
विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥११॥
यथोक्तां दक्षिणां दद्याद्विष्णुर्मे प्रीयतामिति॥
विशेषतः प्रदातव्यं सुवर्णं विप्रसत्तमाः ॥१२॥
 दंपत्योर्वाससी चैव कंचुकोष्णीषमेव च॥
लक्ष्म्या सह जगन्नाथो विष्णुर्मे प्रीयतामिति ॥१३॥
महादानानि सर्वाणि गोमत्युदधिसंगमे॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥१४॥
यस्तुलापुरुषं दद्याद्गोमत्युदधिसंगमे॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥१५॥
आत्मानं तोलयेद्यस्तु स्वर्णेन रजतेन वा॥
वस्त्रैर्वा कुंकुमैर्वापि फलैर्वापि तथा रसैः ॥१६॥
भुक्त्वा भोगान्सुविपुलांस्तथा कामान्मनोहरान्॥
संपूज्यमानस्त्रिदशैर्याति विष्ण्वालयं नरः ॥१७॥
हिरण्यरूप्यदानं च ह्यश्वं धेनुं तथैव च॥
गोमतीसंगमे दत्त्वा सर्वान्कामानवाप्नुयात् ॥१८॥
भूमिदानं च यो दद्याद्गोमत्युदधिसंगमे॥
स्नात्वा शुचिर्हरिं स्मृत्वा तस्माद्धन्यतरो नहि ॥१९॥
कन्यादानं च यः कुर्याद्विद्यादानमथापि वा॥
गोमत्याः संगमे स्नात्वा याति ब्रह्मपदं नरः ॥२०॥
यो दद्यात्स्वर्णधेनुं च घृतधेनुं समाहितः॥
ब्रह्माण्डदानमपि वा तस्य पुण्यमनंतकम् ॥२१॥
तथा लवणधेनुं च जलधेनुमथापि वा॥
दत्त्वा याति परं स्थानं गोमत्युदधिसंगमे ॥२२॥
युगादिषु च सर्वेषु गोमत्युदधिसंगमे॥
स्नात्वा संतर्प्य च पितॄनक्षयं लोकमाप्नुयात् ॥२३॥
आषाढ्यां च तथा माघ्यां कार्तिक्यां संगमे नरः॥
पितॄणां तर्पणं स्नानं श्राद्धं पावकपूजनम्॥
कुर्याच्चैव तथा दानं यदीच्छेदक्षयं पदम् ॥२४॥
पितॄणां चाक्षया तृप्तिर्गयाश्राद्धेन वै यथा॥
तद्वच्छ्राद्धान्महाभाग गोमत्युदधिसंगमे ॥२५॥
कुर्य्यात्स्नानं तथा दानं पितॄणां तर्पणं तथा॥
पञ्चकासु द्विजश्रेष्ठास्तथा चैवाष्टकासु च ॥२६॥
वैधृतौ च व्यतीपाते छायायां कुंजरस्य च॥
षष्ठ्यां च कपिलाख्यायां तथा हि द्वादशीषु च ॥२७॥
गोमत्यां संगमे स्नात्वा दद्याद्दानं विशेषतः॥
निर्मलं स्थानमाप्नोति यत्र गत्वा न शोचति ॥२८॥
श्राद्धपक्षे त्वमावास्यां गोमत्युदधिसंगमे॥
हेलया प्राप्यते पुण्यं दत्त्वा पिण्डं गयासमम् ॥२९॥
तस्मात्सर्वं प्रयत्नेन त्वमावास्यां द्विजोत्तमाः॥
श्राद्धं हि पितृपक्षांते कार्य्यं गोमतिसंगमे ॥३०॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत्॥
पक्षश्राद्धकृतं पुण्यं दिनेनैकेन लभ्यते ॥३१॥
श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा॥
द्रव्यहीनं कालहीनं मनसः स्वास्थ्यवर्जितम् ॥३२॥
श्राद्धपक्षे ह्यमायां तु गोमत्युदधिसंगमे॥
परिपूर्णं भवेत्सर्वं पितॄणां तृप्तिरक्षया ॥३३॥
गोमती कमला चैव चंद्रभागा तथैव च॥
तिस्रस्तु संगता नद्यः प्रविष्टा वरुणालयम् ॥३४॥
गयायां पिंडदानेन प्रयागे ह्यस्थिपातने॥
तत्पुण्यं समवाप्नोति पक्षांते श्राद्धकृन्नरः ॥३५॥
यदीच्छेत्सर्वतीर्थेषु हेलया त्वभिषेचनम्॥
स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसंगमे ॥३६॥
पक्षेपक्षे समग्रा तु पितृपूजा कृता च यैः॥
सम्पूर्णा जायते तेषां गोमत्युदधिसंगमे ॥३१७॥
श्राद्धे कृते त्वमावस्यां पितृपक्षे च वै द्विजाः॥
अपुत्रा चैव या नारी काकवंध्या च या भवेत् ॥३८॥
मृतपुत्रा तथा विप्राः संगमे स्नानमाचरेत्॥
दोषैः प्रमुच्यते सर्वैर्गोमप्युदधिसंगमे॥
स्नात्वा सुखमवाप्नोति प्रजां च चिरजीविनीम् ॥३९॥
यानि कानि च दानानि पृथिव्यां सम्भवंति हि॥
तानि सर्वाणि देयानि गोमत्युदधिसंगमे ॥.४०॥
सर्वदैव च विप्रेन्द्रा विशेषात्सर्वपर्वसु॥
स्नानं कुर्वीत नियतो गोमत्युदधिसंगमे ॥४१॥
दर्शनादेव पापस्य क्षयो भवति भो द्विजाः॥
प्रणामे मनसस्तुष्टिर्मुक्तिश्चैवावगाहने ॥४२॥
श्राद्धे कृते पितॄणां तु तृप्तिर्भवति शाश्वती॥
दाने मनोरथावाप्तिर्जायते नात्र संशयः ॥४३॥
कृतकृत्यास्तु ते धन्या यैः कृतं पितृतर्पणम्॥
श्राद्धं च ऋषिशार्दूला गोमत्युदधिसंगमे ॥४४॥
पितृपक्षे च वै केचिन्मातृपक्षे तथैव च॥
तथा श्वशुरपक्षे च ये चान्ये मित्रबांधवाः ॥४५॥
स्थावरत्वं गता ये च पुद्गलत्वं च ये गताः॥
पिशाचत्वं गता ये च ये च प्रेतत्वमागताः ॥४६॥
तिर्य्यग्योनिगता ये च ये च कीटत्वमागताः॥
स्नानमात्रेण ते सर्वे मुक्तिं यांति न संशयः ॥४७॥
किं पुनः श्राद्धदानादि गोमतीसंगमे तथा॥
कृत्वा मुक्तिमवाप्नोति मानवो नात्र संशयः ॥४८॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे॥
स्नात्वा मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥४९॥
सन्त्यज्य सर्वतीर्थानि गोमत्युदधिसंगमे॥
स्नानं कृत्वा तथा श्राद्धं कृतकृत्यो भवेन्नरः॥
परं लोकमवाप्नोति ह्यर्चयित्वा तु वामनम् ॥५०॥
सम्यक्स्नात्वा नरो यस्तु पूजयेद्गरुडध्वजम्॥
पीतांबरधरो भूत्वा दिव्याभरणभूषितः ॥५१॥
वीक्ष्यमाणः सुरस्त्रीभिर्नागारिकृतकेतनः॥
चतुर्भुजधरो भूत्वा वनमालाविभूषितः॥
संस्तूयमानो मुनिभिर्याति विष्ण्वालयं नरः ॥५२॥
गोमतीसंगमे स्नात्वा कृतकृत्यो भवेन्नरः॥
यत्र दैत्यवधं कृत्वा विष्णुना प्रभविष्णुना ॥५३॥
चक्रं प्रक्षालितं पूर्वं कृष्णेन स्वयमेव हि॥
तेनैव चक्रतीर्थं हि ख्यातं लोकत्रये द्विजाः ॥५४॥
भवंति यत्र पाषाणाश्चक्रांका मुक्तिदायकाः॥
यैः पूजितैर्जगन्नाथः कृष्णः सांनिध्यमाव्रजेत् ॥५५॥
तत्रैव यदि लभ्येत चक्रैर्द्वादशभिः सह ॥५६॥
द्वादशात्मा स विज्ञेयो मोक्षदः सर्वदेहिनाम्॥
एकचक्रांकितो यस्तु द्वारवत्यां सुशोभनः ॥५७॥
सुदर्शनाभिधानोऽसौ मोक्षैकफलदो हि सः॥
लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः ॥५८॥
त्रिभिस्त्रिविक्रमश्चैव त्रिवर्गफलदायकः॥
श्रीप्रदो रिपुहन्ता च चतुर्भिः संयुतः स हि ॥५९॥
पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः॥
प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति यः ॥.६०॥
सप्तभिर्बलभद्रश्च चक्रगोऽत्र प्रकीर्तितः॥
लाच्छितश्चाष्टभिर्भक्तिं ददाति पुरुषोत्तमः ॥६१॥
सर्वं दद्यान्नवव्यूहो दुर्लभो यः सुरैरपि॥
दशावतारो दशमी राज्यदो नात्र संशयः॥६२॥
एकादशभिरैश्वर्यं चक्रगः संप्रयच्छति॥
निर्वाणं द्वादशात्मा च द्वादशभिर्ददाति च ॥६३॥
अत ऊर्ध्वं महाभागाः सौख्यमोक्षप्रदायकाः॥
यतोऽत्र ते च पाषाणाः कृष्णचक्रेण चित्रिताः ॥६४॥
तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः॥
चक्रतीर्थे नरः स्नात्वा कृष्णचक्रेण चिह्नितः ॥६५॥
पूजयित्वा चक्रधरं हरिं ध्यायेत्सनातनम्॥
नापुत्रो नाधनो रोगी न स संजायते नरः ॥६६॥
ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम्॥
तत्सर्वं विलयं याति सकृच्चक्रांकदर्शनात् ॥६७॥
म्लेच्छ देशे शुभे वापि चक्रांको दृश्यते यदि॥
तत्र चैव हरिक्षेत्रं मुक्तिदं नात्र संशयः ॥६८॥
मृत्युकालेऽपि सम्प्राप्ते यदि ध्यायेद्धरिं नरः॥
चक्रांकं धारयेदंगे स याति परमं पदम्॥६९॥
हृदयस्थे च चक्रांके पूतो भवति तत्क्षणात्॥
नोपसर्पंति तं भीता दूताः कृष्णायुधं तदा॥
वैष्णवं लोकमा प्नोति नात्र कार्या विचारणा॥७०॥
अपि पापसमाचारः किं पुनर्धार्मिकः शुचिः॥
गोमती संगमे स्नात्वा चक्रतीर्थे तथैव च॥
मुच्यते पातकैर्घोरै र्मानवो नात्र संशयः॥७१॥
राजसाः सत्त्वमायांति विष्णुधर्मं सनातनम्॥
क्षेत्रस्य तस्य माहात्म्यात्सत्यमेतत्प्रकीर्तितम् ॥७२॥
तामसं राजसं चापि यत्किञ्चिद्विष्णुपूजने॥
तच्च सत्त्वत्वमायाति निम्नगा च यथार्णवे ॥७३॥
दुर्लभा द्वारका विप्र दुर्लभं गोमतीजलम्॥
दुर्लभं जागरो रात्रौ दुर्लभं कृष्णदर्शनम् ॥७४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधि संगमस्नानादिमाहात्म्यपूर्वक चक्रतीर्थमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP