संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्| अध्याय ८ प्रभासखण्डे द्वारकामाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ विषयानुक्रमणिका द्वारकामाहात्म्यम् - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८ Translation - भाषांतर ॥श्रीप्रह्लाद उवाच॥ततो गच्छेद्द्विजश्रेष्ठा रथांगाख्यं महोदधिम् ॥चक्रांका यत्र पाषाणा दृश्यंते मुक्तिदायकाः ॥१॥यैः पूज्यते जगन्नाथः प्रत्यहं भाव संयुतैः ॥सदा नेत्रैरनिमिषैर्वीक्ष्यते च जनार्दनः ॥२॥यच्च साक्षाद्भगवता दृष्टं कृष्णेन दृष्टितः ॥तत्तीर्थं सर्वपापघ्नं चक्राख्यं परमं हरेः ॥३॥यस्य प्रसिद्धिः परमा त्रैलोक्ये सचराचरे ॥प्रयागादधिकं यच्च मुक्तिदं ह्यस्ति पावनम् ॥४॥सुरैरपि प्रपूज्यंते यत्रांगानि शरीरिणाम् ॥अंकितानि च चक्रेण षण्मासान्नात्र संशयः ॥५॥यद्दृष्ट्वा मुच्यते पापात्प्रसंगेनापि मानवः ॥तत्तीर्थं सर्वतीर्थानां पावनं प्रवरं स्मृतम्॥६॥तत्र गत्वा द्विजश्रेष्ठाः प्रक्षाल्य चरणौ मुदा ॥करौ चास्यं चैव पुनः प्रणमेद्दंडवत्पुनः ॥७॥प्रणिपत्य गृहीत्वार्घ्यं पंचरत्नसमन्वितम् ॥सपुष्पाक्षतगंधैश्च फलहेमसुचंदनैः ॥८॥संपन्नमर्घ्यमादाय मंत्रमेतमुदीरयेत् ॥प्रत्यङ्मुखः सुनियतः संमुखो वा महोदधेः ॥९॥ॐ नमो विष्णु रूपाय विष्णुचक्राय ते नमः ॥गृहाणार्घ्यं मया दत्तं सर्वकामप्रदो भव ॥१०॥अग्निश्च तेजो मृडया च रुद्रो रेतोधा विष्णुरमृतस्य नाभिः ॥एतद्ब्रुवन्वाडवाः सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥११॥मृदमालभ्य सजलां विप्रा देवकरच्युताम् ॥धारयित्वा तु शिरसा स्नानं कुर्य्याद्यथाविधि ॥१२॥तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥तर्पयित्वा हविर्द्रव्यं प्रोक्षयित्वा च भक्तितः ॥१३॥अश्वमेधसहस्रेण सम्यग्यष्टेन यत्फलम् ॥स्नानमात्रेण तत्प्रोक्तं चक्रतीर्थे द्विजोत्तमाः ॥१४॥प्रयागे यत्फलं प्रोक्तं माघ्यां माधवपूजने ॥स्नानमात्रेण तत्प्रोक्तं चक्र तीर्थे द्विजोत्तमाः ॥१५॥कारयेच्च ततः श्राद्धं पितॄणां श्रद्धयान्वितः ॥विश्वेदेवान्सुवर्णेन राजतेन तथा पितॄन् ॥१६॥संतर्प्य भोजनेनैव वस्त्रालंकारभूषणैः॥दीनान्धकृपणेभ्यश्च दानं देयं स्वशक्तितः ॥१७॥चक्रतीर्थे तीर्थवरे विशेषाद्द्विजसत्तमाः॥रत्नदानं प्रकुर्वीत प्रीणनार्थं जगत्पतेः ॥१८॥गन्त्रीमनडुहा युक्तां सर्वास्तरणसंयुताम् ॥सोपस्करां च दद्याद्वै विष्णुर्मे प्रीयतामिति ॥१९॥सुविनीतं शीलयुतं तथा सोपस्करं हयम् ॥भूषयित्वा च विप्राय दद्याद्दक्षिणया सह ॥२०॥एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः॥मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥२१॥प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥पच्यंते नरके ये च महारौरवसंज्ञके ॥२२॥ते सर्वे तृप्तिमायांति चकतीर्थ प्रभावतः ॥श्राद्धे कृते द्विजश्रेष्ठा गयाश्राद्धफलं लभेत् ॥२३॥या गतिर्मातृभक्तानां यज्वनां या गतिः स्मृता ॥चक्रतीर्थे द्विजश्रेष्ठाः स्नात्वा तां लभते नरः ॥२४॥श्राद्धं प्रशस्तं विप्रेंद्राः संप्राप्ते चंद्रसंक्षये ॥सूर्यग्रहे विशेषेण कुरुक्षेत्रफलं स्मृतम् ॥श्राद्धे स्नाने तथा दाने पितॄणां तर्पणे तथा ॥२५॥प्रशस्तं चक्रतीर्थं च नात्र कार्य्या विचारणा ॥२६॥सर्वदा पावनं विप्राश्चक्रतीर्थं न संशयः ॥यस्तु श्राद्धं प्रकुर्वीत यात्रायामागतो नरः ॥२७॥चक्रतीर्थे द्विजश्रेष्ठाः संपूज्य मधुसूदनम् ॥पूजितेषु द्विजेंद्रेषु विष्णुसांनिध्यमाप्नुयात् ॥२८॥वाचा कृतं कर्मकृतं मनसां समुपार्जितम् ॥स्नानमात्रेण तत्पापं नश्यते नात्र संशयः ॥२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : February 03, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP