संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे द्वारकामाहात्म्यम्|

द्वारकामाहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीप्रह्लाद उवाच॥
इति कृष्णवचः श्रुत्वा गोप्यः संहृष्टमानसाः ॥
तस्मिन्मयसरे स्नात्वा विमुक्ताऽशेषबन्धनाः ॥१॥
कृष्णदर्शनसंजातपरमानन्दसंप्लुताः ॥
ऊचुश्च वचनं गोप्यो मधुरं माधवं प्रति ॥२॥
 ॥गोप्य ऊचुः॥
धन्यः स दैत्यप्रवरो मयो येन कृतं सरः ॥
यस्मिंस्त्वं देवतैः सार्द्धं समेष्यसि जगत्पते ॥३॥
यदि तुष्टोऽसि भगवन्ननुग्राह्या वयं यदि ॥
अस्माकमपि वार्ष्णेय कारयस्व सरोत्तमम् ॥४॥
कीर्त्तनान्मृत्युलोकेऽस्मिंस्तव संदर्शनेन हि ॥
अहर्निशं तव ध्यानाद्यास्यामः परमां गतिम् ॥५॥
 ॥श्रीकृष्ण उवाच॥
करिष्ये वः प्रियं साध्व्यो यूयं मम परिग्रहाः ॥
अनुग्राह्या मया नित्यं भक्तिग्राह्योऽस्मि सर्वदा ॥६॥
 ॥प्रह्लाद उवाच॥
इत्युक्त्वा भगवान्कृष्णो गोपीनां हितकाम्यया ॥
सरसः सन्निधौ तस्य सरस्त्वन्यच्चकार ह ॥७॥
तदगाधं स्वच्छजलं नलिनीदलशोभितम् ॥
हंससारसयुग्मैश्च चक्रवाकैश्च शोभितम् ॥८॥
कुमुदोत्पलकह्लारपद्मिनीखण्डमण्डितम् ॥
सेवितं द्विजमुख्यैश्च सिद्धविद्याधरैस्तथा ॥९॥
सेवितं यदुनारीभिस्तथा यदुकुमारकैः ॥
दिवारात्रौ सुसंपूर्णं सर्वैर्जानपदैर्जनैः ॥१०॥
तं दृष्ट्वा जलकल्लोलैः सुसंपूर्णं जलाशयम् ॥
हर्षाद्गोपीजनं कृष्णः प्रोवाच वचनं तदा ॥११॥
पश्यध्वं गोपिकाः शुभ्रं सरः सरं समीपतः ॥
स्वच्छमिष्टजलापूर्णं सज्जनानां यथा मनः ॥१२॥
कारणाद्भवतीनां च यस्मात्कृतमिदं सरः ॥
भवतीनां तथा नाम्ना ख्यातमेतद्भविष्यति ॥१३॥
गोर्वाचावाचकः शब्दो भवतीभिर्मया सह ॥
गोप्रचारेति वै नाम्नां ख्यातिं लोके गमिष्यति ॥१४॥
युष्माकं प्रियकामार्थं यस्मात्कृतमिदं सरः ॥
तस्माद्गोपीसर इति ख्यातिं लोके गमिष्यति ॥१५॥
 ॥गोप्य ऊचुः॥
अनुग्राह्या यदि वयमस्मन्नाम्ना कृतं सरः ॥
अन्यत्किमपि वार्ष्णेय प्रार्थयामो वदस्व नः ॥१६॥
 ॥श्रीकृष्ण उवाच॥
प्रार्थ्यतां यदभिप्रेतं यद्वो मनसि वर्तते ॥
भक्त्या समागता यूयं नास्त्यदेयं ततो मया ॥१७॥
 ॥गोप्य ऊचुः॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो हि नः ॥
तस्मात्त्वया सदा कृष्ण नरयानेन माधव ॥१८॥
अत्रागत्य नभस्येऽस्मिन्स्नातव्यं नियमेन हि ॥
यत्र त्वं तत्र देवाश्च यज्ञास्तीर्थानि केशव ॥१९॥
यत्र त्वं तत्र दानानि व्रतानि नियमाश्च ये ॥
ओंकारश्च वषट्कारः स्वाहाकारः स्वधा तथा ॥२०॥
भूर्भुवःस्वर्महर्ल्लोको जनः सत्यं तपस्तथा ॥
त्वन्मयं हि जगत्सर्वं सदेवासुरमानुषम् ॥२१॥
तस्मात्त्वयि जगन्नाथे ह्यत्र स्नाते जनार्दने ॥
स्नातमत्र त्रिभुवनं भविष्यति न संशयः ॥२२॥
त्रैलोक्यपावनी गंगा तव पादजलं हि तत् ॥
लक्ष्मीर्वक्षःस्थलस्थाने मुखे देवी सरस्वती ॥२३॥
सर्वभूतमयश्चात्र ततस्त्वं जगदीश्वर ॥
यद्ददासि मनुष्याणां भविष्याणां कलौ युगे ॥
तद्वदस्व महाबाहो कृपां कृत्वा जगत्पते ॥२४॥
यात्रायामागतानां च अथ षण्मासवासिनाम् ॥
सदैवात्र स्थितानां च यत्फलं तद्वदस्व नः ॥२५॥
 ॥श्रीकृष्ण उवाच॥
यत्फलं हि मनुष्याणां स्नातानां गोपिकासरे ॥
तच्छृणुध्वमसंदिग्धं प्रसन्ने मयि गोपिकाः ॥२६॥
सोपस्करां सवत्सां च वस्त्रालंकारभूषिताम् ॥
यथोक्तदक्षिणोपेतां ब्राह्मणाय कुटुंबिने ॥२७॥
सदाचाराय शुद्धाय दरिद्रायानुकारिणे ॥
गां दत्त्वा फलमाप्नोति स्नानमात्रेण तत्फलम् ॥२८॥
यावत्पदानि मनुजः कृष्णेन सह गच्छति ॥
कुलानि देव्यस्तावंति वसंति हरिमन्दिरे ॥२९॥
कृष्णेन सह गच्छन्ति गीतवादित्रनिस्वनैः ॥
स्तुवन्तो विविधैः स्तोत्रैर्गोविंदं गोपिकासरे ॥३०॥
न मातुर्जठरे तेषां यातना जायते नृणाम् ॥
सर्वान्कामानवाप्यांते वैष्णवं लोकमाप्नुयुः ॥३१॥
अर्घ्यं दत्त्वा विधानेन स्नानं कुर्याद्विचक्षणः ॥
मंत्रेणानेन वै साध्व्यः श्रद्धया परया युतः ॥३२॥
नमस्ते गोपरूपाय विष्णवे परमात्मने ॥
गोप्रचारे जगन्नाथ गृहाणार्घ्यं नमोऽस्तु ते ॥३३॥
अर्घ्यं दत्त्वा विधानेन मृदमालिप्य पाणिना ॥
स्नायाच्छ्रद्धासमायुक्तस्तर्पयेत्पितृदेवताः ॥३४॥
श्राद्धं कुर्य्यात्ततो भक्त्या एकचित्तः समाहितः ॥
यथोक्तदक्षिणा दद्याद्रजतं रुक्ममेव च ॥३५॥
विशेषतः प्रदातव्यं तांबूलं कज्जलं तथा ॥
दुकूलानि च देयानि तथा कौसुंभकानि च ॥३६॥
दंपत्योर्वाससी चैव भूषणानि स्वशक्तितः ॥
गावो देया द्विजातिभ्यो वृषभाश्च धुरंधराः ॥
दीनांधकृपणानां च दानं देयं स्वशक्तितः ॥३७॥
एवं कृत्वा नरः सम्यगुत्तमां गतिमाप्नुयात् ॥
प्रयांति परमं लोकं पितरस्त्रिकुलोद्भवाः ॥३८॥
लभते पुत्रकामस्तु पुत्रानिष्टान्मनोरमान् ॥३९॥
यं यं कामयते कामं स्वर्गमोक्षादिकं नरः ॥
तत्सर्वं समवाप्नोति यः स्नाति गोपिकासरे ॥४०॥
यावल्लोका भविष्यंति तावत्स्थास्यति वै सरः ॥
यावत्सरो यशस्तावद्भवतीनां भविष्यति ॥४१॥
यावत्कीर्तिर्मनुष्येषु तावत्स्वर्गे महीयते ॥
विमुक्ताः सकलात्पापाद्यास्यंति परमां गतिम् ॥४२॥
तत्पुण्यं गोपीसर इदं जलैः पूर्णं सदैव हि ॥
अवगाह्यं मया गोप्यो नभस्ये नियमेन हि ॥४३॥
भवत्यः पतिभावेन ब्रह्मभावेन वा पुनः ॥
चिंतयंत्यः परं मां हि परागतिमवाप्स्यथ ॥४४॥
 ॥प्रह्लाद उवाच॥
अनुज्ञाता भगवता ततस्ता गोपकन्यकाः ॥
नमस्कृत्य च गोविंदं ययुः सर्वा यथागता ॥४५॥
भगवानपि गोविंद उद्धवेन समन्वितः ॥
विसृज्य गोपिकाः कृष्णः स्वकं मंदिरमाविशत् ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोपीसरस्तीर्थमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP