संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २२० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २२० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२० Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् ।उत्तरे नर्मदाकूले सर्वपातकनाशनम् ॥१॥तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् ।नश्यते देवदेवस्य दर्शनादेव तन्नृप ॥२॥बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् ।तत्सर्वं विलयं याति देवदेवस्य दर्शनात् ॥३॥युधिष्ठिर उवाच -आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् ।त्वया वै कथितं विप्र सकलं पापनाशनम् ॥४॥यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् ।श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे ॥५॥ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम ।त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः ॥६॥एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर ।श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः ॥७॥श्रीमार्कण्डेय उवाच -साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी ।दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन ॥८॥धर्ममर्थं च कामं च मोक्षं च भरतर्षभ ।काले काले च यो वेत्ति कर्तव्यस्तेन धीमता ॥९॥तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् ।यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥१०॥नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा ।विशेषः कथितस्तस्या रेवासागरसङ्गमे ॥११॥आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः ।प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह ॥१२॥संचिन्त्य मनसा केयमिति मां वै सरिद्वरा ।ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम् ॥१३॥लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः ।समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी ॥१४॥तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् ।लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा ॥१५॥लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा ।नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा ।दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥१६॥सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् ।सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१७॥वाचिकं मानसं पापं कर्मणा यत्कृतं नृप ।लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत् ॥१८॥कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु ।तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम् ॥१९॥सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम ।चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले ॥२०॥संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि ।रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम् ॥२१॥सफलं जीवितं तस्य सफलं तस्य चेष्टितम् ।पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम् ॥२२॥एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः ।पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले ॥२३॥सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि ।पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम् ॥२४॥ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् ।आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत् ॥२५॥ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः ।सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि ।इत्यामन्त्रणमन्त्रः ॥२६॥अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः ।एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ।इति स्नानमन्त्रः ॥२७॥आजन्मशतसाहस्रं यत्पापं कृतवान्नरः ।सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि ॥२८॥अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः ।कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः ॥२९॥सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर ।सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।इति अर्वमन्त्र ॥३०॥पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् ।उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः ॥३१॥श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः ।कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि ॥३२॥सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह ।सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत् ॥३३॥बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने ।प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत् ॥३४॥बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् ।विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे ॥३५॥इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् ।अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत् ॥३६॥श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम ।एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत् ॥३७॥जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति ।शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु ॥३८॥स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः ।पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम् ॥३९॥पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् ।स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि ॥४०॥लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते ।अवक्रगमनं गत्वा मुच्यते सर्वपातकैः ॥४१॥तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम ।स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः ॥४२॥एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् ।पूजयेत्पृथिवीपाल सर्वपापोपशान्तये ॥४३॥एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम ।तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप ॥४४॥तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः ॥४५॥दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् ।षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च ॥४६॥विमानवरमारूढः स्वर्गलोके महीयते ।नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम् ॥४७॥तत्फलं समवाप्नोति रेवासागरसङ्गमे ।सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम् ॥४८॥गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् ।शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः ॥४९॥तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर ।करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु ॥५०॥कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे ।वेदवेदाङ्गविद्विप्रो जायते विमले कुले ॥५१॥पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः ।सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम् ॥५२॥अपि द्वादशयात्रासु सोमनाथे यदर्चिते ।कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे ॥५३॥गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा ।तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात् ॥५४॥यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् ।सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥५५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP