संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १९३ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १९३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९३ Translation - भाषांतर श्रीमार्कण्डेय उवाच -इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्य पुनः पुनः ।ऊचुर्नारायणं देवं तद्दर्शनसमीहया ॥१॥वसन्तकामाप्सरस ऊचुः ।भगवन्भवता योऽयमुपदेशो हितार्थिना ।प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते ॥२॥यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनान्तरात्मना ।दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ॥३॥तत्रार्थे सर्वभावेन प्रपन्नानां जगत्पते ।दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ॥४॥यदि देवापराधेऽपि नास्मासु कुपितं तव ।नमस्ते जगतामीश दर्शयात्मानमात्मना ॥५॥नारायण उवाच -पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः ।मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ॥६॥श्रीमार्कण्डेय उवाच -इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप ।उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ॥७॥ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् ।आदित्या वसवः साध्या विश्वेदेवा महर्षयः ॥८॥नासत्यदस्रावनिलः सर्वशश्च तथाग्नयः ।यक्षगन्धर्वसिद्धाश्च पिशाचोरगकिन्नराः ॥९॥समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः ।मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा ॥१०॥सरीसृपाश्चाथ सूक्ष्मा यच्चान्यज्जीवसंज्ञितम् ।समुद्राः सकलाः शैलाः सरितः काननानि च ॥११॥द्वीपान्यशेषाणि तथा तथा सर्वसरांसि च ।नगरग्रामपूर्णा च मेदिनी मेदिनीपते ।देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः ॥१२॥नक्षत्रग्रहताराभिः सुसम्पूर्णं नभस्तलम् ।ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वं रूपिणः ॥१३॥ऊर्ध्वं न तिर्यङ्नाधस्ताद्यदान्तस्तस्य दृश्यते ।तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् ॥१४॥मदनेन समं सर्वा मधुना च वराङ्गनाः ।ससाध्वसा भक्तिपराः परं विस्मयमागताः ॥१५॥वसन्तकामाप्सरस ऊचुः ।पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥१६॥महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् ।त्वत्तो भवत्यच्युते सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन् ॥१७॥द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी ॥१८॥सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् ।पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥१९॥ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि ।समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥२०॥क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रो बलवत्सु वायुः ।मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि ॥२१॥सर्वानयेष्वच्युत दानवस्त्वं सनत्सजातश्च विवेकवत्सु ।रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥२२॥दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे ।शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥२३॥बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत ।पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥२४॥तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः ।घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥२५॥पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः ।जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥२६॥पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ।सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥२७॥रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः ।साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥२८॥वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् ।पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥२९॥अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी ।इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥३०॥स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी ॥३१॥त्वत्तोहि सौम्यं जगतीह किंचित्त्वत्तो न रौद्रं च समस्तमूर्ते ।त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥३२॥प्रसीद सर्वेश्वर सर्वभूत सनातनात्मपरमेश्वरेश ।त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥३३॥किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि ।मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति ॥३४॥न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः ।तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥३५॥नमो नमस्ते गोविन्द नारायण जनार्दन ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥३६॥नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥३७॥वरेण्य यज्ञपुरुष प्रजापालन वामन ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥३८॥नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥३९॥संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥४०॥नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥४१॥उपसंहर विश्वात्मन्रूपमेतत्सनातनम् ।वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥४२॥प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥४३॥न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते ।सर्वं जगदिऐकस्थं पिण्डितं लक्षयामहे ॥४४॥किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥४५॥वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः ।गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥४६॥तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।छन्दतो जगतामीश तदेतदुपसंहर ॥४७॥मार्कण्डेय उवाच -इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ॥४८॥विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ।तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ॥४९॥विस्मयं परमं चक्रुः समस्ता देवयोषितः ।स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ॥५०॥जलमग्निं तथा वायुमाकाशं च विवेश ह ।काले दिक्ष्वथ सर्वात्म ह्यात्मनश्चान्यथापि च ॥५१॥आत्मरूपस्थितं स्वेन महिम्ना भावयञ्जगत् ।देवदानवरक्षांसि यक्षीविद्याधरोरगाः ॥५२॥मनुष्यपशुकीटादिमृगपश्वन्तरिक्षगाः ।येऽन्तरिक्षे तथा भूमौ दिवि ये च जलाश्रयाः ॥५३॥तान्विवेश स विश्वात्मा पुनस्तद्रूपमास्थितः ।नरेण सार्धं यत्ताभिर्दृष्टपूर्वमरिन्दम ॥५४॥ताः परं विस्मयं जग्मुः सर्वास्त्रिदशयोषितः ।प्रणेमुः साध्वसात्पाण्डुवदना नृपसत्तम ॥५५॥नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः ॥५६॥नारायण उवाच -नीयतामुर्वशी भद्रा यत्रासौ त्रिदशेश्वरः ।भवतीनां हितार्थाय सर्वभूतेष्वसाविति ॥५७॥ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ।तद्गच्छध्वं समस्तोऽयं भूतग्रामो मदंशकः ॥५८॥अहमद्यात्मभूतस्य वासुदेवस्य योगिनः ।अस्मात्परतरं नास्ति योऽनन्तः परिपथ्यते ॥५९॥तमजं सर्वभूतेशं जानीत परमं पदम् ।अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये ।एतत्सर्वमनन्तस्य वासुदेवस्य वै कृतम् ॥६०॥एवं ज्ञात्वा समं सर्वं सदेवासुरमानुषम् ।सपश्वादिगुणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ॥६१॥मार्कण्डेय उवाच -इत्युक्तास्तेन देवेन समस्तास्ताः सुरस्त्रियः ।प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ॥६२॥आदाय चोर्वशीं भूयो देवराजमुपागताः ।आचख्युश्च यथावृत्तं देवराजाय तत्तथा ॥६३॥मार्कण्डेय उवाच -तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् ।चिन्तयन्समतां गच्छ समतैव हि मुक्तये ॥६४॥राजन्नेवं विशेषेण भूतेषु परमेश्वरम् ।वासुदेव कथं दोषांल्लोभादीन्न प्रहास्यसि ॥६५॥सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते ।तदा वैरादयो भावाः क्रियतां न तु पुत्रक ॥६६॥इति पश्य जगत्सर्वं वासुदेवात्मकं नृप ।एतदेव हि कृष्णेन रूपमाविष्कृतं नृप ॥६७॥परमेश्वरेति यद्रूपं तदेतत्कथितं तव ।जन्मादिभावरहितं तद्विष्णोः परमं पदम् ॥६८॥संक्षेपेणाथ भूपाल श्रूयतां यद्वदामि ते ।यन्मतं पुरुषः कृत्वा परं निर्वाणमृच्छति ॥६९॥सर्वो विष्णुसमासो हि भावाभावौ च तन्मयौ ।सदसत्सर्वमीशोऽसौ महादेवः परं पदम् ॥७०॥भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥७१॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP