संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ४२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ४२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४२ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् ।यत्र सिद्धो महायोगी पिप्पलादो महातपाः ॥१॥युधिष्ठिर उवाच -पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो ।माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः ॥२॥कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः ।एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥३॥मार्कण्डेय उवाच -मिथिलास्थो महाभागो वेदवेदाङ्गपारगः ।याज्ञवल्क्यः पुरा तात चचार विपुलं तपः ॥४॥तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।सा सप्तमेऽपि वर्षे च वैधव्यं प्राप दैवतः ॥५॥पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः ।नाभूत्तत्पतिपक्षेऽपि कोऽपीत्येकाकिनी स्थिता ॥६॥भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः ।चचार च तपः सोऽपि परलोकसुखेप्सया ॥७॥चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ।कस्मिंश्चित्समये साथ स्नाताहनि रजस्वला ॥८॥अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः ।याज्ञवल्क्योऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः ॥९॥स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् ।विराजितेन तपसा सिद्धं तदनलप्रभम् ॥१०॥यावत्प्रबुद्धो विप्रोऽसौ वीक्ष्योच्छिष्टं तदंशुकम् ।चिक्षेप दूरतोऽस्पृश्यं शौचं कृत्वा विधानतः ॥११॥निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः ।निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात् ॥१२॥प्रातरन्वेषयामास मुनिर्वस्त्रमितस्ततः ।ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो ।केन कार्यं तव तथा वदस्व मम तत्त्वतः ॥१३॥याज्ञवल्क्य उवाच -अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि ।सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते ॥१४॥तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन्नृप ।तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत् ॥१५॥तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः ।निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥१६॥किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला ।आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा ॥१७॥वदस्व कारणं तात गुह्याद्गुह्यतरं यदि ।प्रतीकारोऽस्य येनैव विमृश्य क्रियते त्वरा ॥१८॥ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् ।प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर ॥१९॥नात्र दोषोऽस्ति ते कश्चिन्मम चैव शुभव्रते ।तवोदरे तु गर्भो यस्तत्र दैवं परायणम् ॥२०॥तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि ।विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः ॥२१॥तथेति व्रीडिता साध्वी दूयमानेन चेतसा ।अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत ॥२२॥जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा ।अश्वत्थच्छायामाश्रित्य तमुत्सृज्य वचोऽब्रवीत् ॥२३॥यानि सत्त्वानि लोकेषु स्थावराणि चराणि च ।तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया ॥२४॥एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम ।तथागतः स तु शिशुस्तत्र स्थित्वा मुहूर्तकम् ॥२५॥पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे ।आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः ॥२६॥तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ।आकम्पिता महोत्पातैः सशैलवनकानना ॥२७॥ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ।न जहाति नगश्छायां पानार्थाय ततः परम् ।अपिबच्च सुतं तस्मादभृतं चैव भारत ॥२८॥एवं स वर्धितस्तत्र कुमारो निजचेतसि ।चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम् ॥२९॥ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः ।पपात सहसा भूमौ शनैश्चारी शनैश्चरः ॥३०॥उवाच च भयत्रस्तः कृताञ्जलिपुटस्तदा ।किं मयापकृतं विप्र पिप्पलाद महामुने ॥३१॥चरन्वै गगनाद्येन पातितो धरणीतले ।सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः ॥३२॥क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ।पितृमातृविहीनस्य मम बालस्य दुर्मते ।पीडां करोषि कस्मात्त्वं सौरे ब्रूहि ह्यशेषतः ॥३३॥शनैश्चर उवाच -क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी ।मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः ॥३४॥पिप्पलाद उवाच -अद्यप्रभृति बालानां वर्षादा षोडशाद्ग्रह ।पीडा त्वया न कर्तव्या एष ते समयः कृतः ॥३५॥एवमस्त्विति चोक्त्वा स जगाम पुनरागतः ।देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम् ॥३६॥गते चादर्शनं तत्र सोऽपि बालो महाग्रहः ।विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः ॥३७॥आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् ।कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति ॥३८॥तावज्झटिति सा कन्या ज्वालामालाविभूषिता ।हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत् ॥३९॥शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् ।अवनिं वेष्टयामीति पातये किं नभस्तलम् ॥४०॥कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत् ॥४१॥तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः ।क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥४२॥महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम् ॥४३॥एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् ।मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः ॥४४॥यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् ।याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम् ॥४५॥तद्दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः ।अनुयुक्तोऽथ भूतेन जनकं नृपतिं ययौ ॥४६॥शरण्यं मामनुप्राप्तं विद्धि त्वं नृपसत्तम ।महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव ॥४७॥ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् ।न च शक्नोम्यहं त्रातुं राजा वचनमब्रवीत् ॥४८॥ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।जगाम तेन मुक्तोऽसौ चेन्द्रस्य सदनं भयात् ॥४९॥देवराज नमस्तेऽस्तु महाभूतभयान्नृप ।कम्पमानोऽब्रवीद्विप्रो रक्षस्वेति पुनःपुनः ॥५०॥तस्य तद्वचनं श्रुत्वा देवराजोऽब्रवीदिदम् ।न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने ॥५१॥ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ।जगाम विष्णुलोकं च तेनापीत्युक्त एव सः ॥५२॥ततः स मुनिरुद्विग्नो निराशो जीविते नृप ।अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम् ॥५३॥तस्य योगबलोपेतो महादेवस्य पाण्डव ।नखमांसान्तरे गुप्तो यथा देवो न पश्यति ॥५४॥तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् ।मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम् ॥५५॥एवमुक्तो महादेवस्तेन भूतेन भारत ।योगीन्द्रं दर्शयामास नखमांसान्तरे तदा ॥५६॥संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् ।उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने ॥५७॥ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् ।किमस्य त्वं महाभूत करिष्यसि वदस्व मे ॥५८॥कृत्योवाच -क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता ।अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो ॥५९॥एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ।कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित् ॥६०॥योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर ।विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत ॥६१॥प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः ।पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः ॥६२॥एकाङ्गुष्ठो निराहारो वर्षादा षोडशान्नृप ।तोषयामास देवेशमुमया सह शङ्करम् ॥६३॥ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत् ॥६४॥ईश्वर उवाच -परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत ।वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम् ॥६५॥पिप्पलाद उवाच -यदि मे भगवांस्तुष्टो यदि देयो वरो मम ।अत्र संनिहितो देव तीर्थे भव महेश्वर ॥६६॥एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ।जगामादर्शनं देवो भूतसङ्घसमन्वितः ॥६७॥पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ।स्थापयित्वा महादेवं जगामोत्तरपर्वतम् ॥६८॥तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप ।तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम् ॥६९॥अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।मृतो रुद्रपुरं याति नात्र कार्या विचारणा ॥७०॥अथ यो भोजयेद्विप्रान् पित्ःनुद्दिश्य भारत ।तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः ॥७१॥संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ।अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥७२॥एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ ।माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च ॥७३॥एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥७४॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP