संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ५६ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ५६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५६ Translation - भाषांतर उत्तानपाद उवाच -अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता ।रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता ॥१॥पुण्या देवाशिला नाम तस्या माहात्म्यमुत्तमम् ।एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर ॥२॥ईश्वर उवाच -शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।देवैः सर्वैर्महाभागा सर्वलोकहिताय वै ॥३॥अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते ।गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर ॥४॥तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः ।अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम् ॥५॥जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले ।भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि ॥६॥तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् ।ततो देवनदी जाता सा हिताय नृणां भुवि ॥७॥वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः ।पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ॥८॥यत्र सा पतिता कुण्डे शूलभेदे नराधिप ।देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती ॥९॥याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् ।तत्र देवशिला पुण्या स्वयं देवेन निर्मिता ॥१०॥तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ।पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥११॥तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप ।स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते ॥१२॥उत्तानपाद उवाच -कानि दानानि दत्तानि शस्तानि धरणीतले ।यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥१३॥देवशिलाया माहात्म्यं स्नानदानादिजं फलम् ।व्रतोपवासनियमैर्यत्प्राप्यं तद्वदस्व मे ॥१४॥ईश्वर उवाच -आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ।वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप ॥१५॥राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर्न च तस्कराः ।न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा ॥१६॥सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ।एकासीद्दुहिता तस्य सुरूपा गिरिजा यथा ॥१७॥इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च ।कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि ॥१८॥अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः ।ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः ॥१९॥विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ।उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम् ॥२०॥प्रिये दुःखमिदं जातं यावज्जीवं सुदुःसहम् ।नैषा रक्षयितुं शक्या रूपयौवनगर्विता ॥२१॥दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका ।नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे ।परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत् ॥२२॥भानुमत्युवाच -न लज्जामि तवाग्रेऽहं जल्पन्ती तात कर्हिचित् ।सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप ॥२३॥अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् ।स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे ॥२४॥करिष्यामि व्रतान्याशु पुराणविहितानि च ।आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम् ॥२५॥ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे ।भानुमत्या वचः श्रुत्वा राजा संहर्षितोऽभवत् ॥२६॥तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् ।विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे ॥२७॥पुरुषान् सायुधांश्चापि ब्राह्मणान्सपुरोहितान् ।दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान् ॥२८॥ततः पितुर्मतेनैव गङ्गातीरं गता सती ।अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप ॥२९॥नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः ।द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ॥३०॥त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् ।प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ॥३१॥समाः पञ्च स्थिता तत्र ओङ्कारेऽमरकण्टके ।उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा ॥३२॥स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वमतन्द्रिता ।वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे ॥३३॥ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् ।दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदमब्रवीत् ॥३४॥माहात्म्यमस्य तीर्थस्य नाम चैवास्य कीदृशम् ।कथयन्तु महाभागाः प्रसादः क्रियतां मम ॥३५॥ऋषय ऊचुः ।चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥३६॥अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।अनिवर्तिका गतिस्तस्य जायते नात्र संशयः ॥३७॥द्वितीयेऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि ।पूर्वोक्तेन विधानेन स्नानं कुर्याद्यथाविधि ॥३८॥जन्मत्रयकृतैः पापैर्मुच्यते नात्र संशयः ।जलेन तिलमात्रेण प्रदद्यादञ्जलित्रयम् ॥३९॥तृप्यन्ति पितरस्तस्य द्वादशाब्दान्यसंशयम् ।यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर्ब्राह्मणैर्नृप ॥४०॥वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तमक्षयम् ।अपरेऽह्णि ततो गच्छेत्पुण्यां देवशिलां शुभाम् ॥४१॥वीक्ष्यते जाह्नवी पुण्या देवैरुत्पादिता पुरा ।स्नात्वा तत्र जलं दद्यात्तिलमिश्रं नराधिप ॥४२॥सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया ।एकादश्यामुपोषित्वा पक्षयोरुभयोरपि ॥४३॥क्षपाजागरणं कुर्यात्पठेत्पौराणिकीं कथाम् ।विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः ॥४४॥प्रभाते भोजयेद्विप्रान् दानं दद्यात्सशक्तितः ।चतुर्थेऽह्नि ततो गच्छेद्यत्र प्राची सरस्वती ॥४५॥ब्रह्मदेहाद्विनिष्क्रान्ता पावनार्थं शरीरिणाम् ।तत्र स्नात्वा नरो भक्त्या तर्पयेत्पितृदेवताः ॥४६॥श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद्द्विजान् ।पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥४७॥सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा ।देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम् ॥४८॥त्रिरात्रं कुरुते योऽत्र शुचिः स्नात्वा जितेन्द्रियः ।पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥४९॥न तस्य सम्भवो मर्त्ये तस्य वासो भवेद्दिवि ।नियमस्थो विमुच्येत त्रिजन्मजनितादघात् ॥५०॥विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता ।तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥५१॥मुनीनां वचनं श्रुत्वा मुदा परमया ययौ ।ततोऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता ॥५२॥दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् ।श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः ॥५३॥न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् ।मत्पितुश्च तथा मातुः कथयध्वमिदं वचः ॥५४॥त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी ।एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः ॥५५॥एकान्तरोपवासस्था शनैर्मासोपवासिता ।देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम् ॥५६॥अहर्निशं दहेद्धूपं चन्दनं च सदीपकम् ।पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् ।द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता ॥५७॥ईश्वर उवाच -अन्यद्देवशिलायास्तु माहात्म्यं शृणु भूपते ।कथयामि महाबाहो सेतिहासं पुरातनम् ॥५८॥कश्चिद्वनेचरो व्याधः शबरः सह भार्यया ।दुर्भिक्षपीडितस्तत्र आमिषार्थं वनं गतः ॥५९॥नापश्यत्पक्षिणस्तत्र न मृगान्न फलानि च ।सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम् ॥६०॥दृष्ट्वा सरोवरं तत्र शबरी वाक्यमब्रवीत् ।कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये ॥६१॥देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः ।विक्रयो भविता तत्र धर्मशीलो जनो यतः ॥६२॥भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः ।उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः ॥६३॥श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः ।शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान् ॥६४॥चैत्रमासे सिते पक्षे एकादश्यां नराधिप ।तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः ॥६५॥मण्डपं ददृशे तत्र कृतं देवशिलोपरि ।वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम् ॥६६॥ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः ।सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः ॥६७॥देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले ।आगच्छद्भिर्नृपश्रेष्ठ मार्गस्तत्र न लभ्यते ॥६८॥दृष्ट्वा जनपदं तत्र तां भार्यां शबरोऽब्रवीत् ।गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम् ॥६९॥पर्वाणि यानि श्रूयन्ते किंस्वित्सूर्येन्दुसम्प्लवः ।अयनं किं भवेदद्य किं वाक्षयतृतीयका ॥७०॥ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा ।पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे ॥७१॥तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे ।किमयं स्नाति लोकोऽयं किं वा स्नानस्य कारणम् ॥७२॥नार्युवाच -अद्य चैकादशी पुण्या सर्वपापक्षयंकरी ।उपोषिता सकृद्येन नाकप्राप्तिं करोति सा ॥७३॥तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै ।कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम ॥७४॥अद्य त्वेकादशी पुण्या बालवृद्धैरुपोषिता ।मदनैकादशी नाम सर्वपापक्षयंकरी ॥७५॥नियता श्रूयते तत्र राजपुत्री सुशोभना ।व्रतस्था नियताहारा नाम्ना भानुमती सती ॥७६॥नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता ।दृश्यते सा वरारोहा ह्यवतीर्णा महीतले ॥७७॥भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह ।कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम् ॥७८॥ममैषा वर्तते बुद्धिर्न भोक्तव्यं मया ध्रुवम् ।न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित् ॥७९॥शबर्युवाच -न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे ।भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् ॥८०॥भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ।अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ॥८१॥सर्वान् देवान्नमस्कृत्य गतो देवशिलां प्रति ।तस्थौ स शङ्कमानोऽपि नमस्कृत्य जनार्दनम् ॥८२॥यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् ।तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत्तदा ॥८३॥कुत्र पद्मद्वयं लब्धं कथ्यतामग्रतो मम ।शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान् ॥८४॥धान्येन वसुना वापि कमलानि समानय ।भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति ॥८५॥श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥८६॥शबर्युवाच -श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः ।न लोभो न स्पृहा मेऽस्ति गत्वा राज्ञीं निवेदय ॥८७॥तया च सत्वरं गत्वा यथावृत्तं निवेदितम् ।शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः ॥८८॥तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता ।उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः ॥८९॥शबर्युवाच -न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥९०॥अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ ॥९१॥राज्ञ्युवाच -विना मूल्यं न गृह्णामि कमलानि तवाधुना ।धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम् ॥९२॥दश विंशत्यथ त्रिंशच्चत्वारिंशदथापि वा ।गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर ॥९३॥वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् ।तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः ॥९४॥शबर्युवाच -नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ।देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते ॥९५॥राज्ञ्युवाच -न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ।तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ॥९६॥तपस्विनो महाभागा ये चारण्यनिवासिनः ।गृहस्थद्वारि ते सर्वे याचन्तेऽन्नमतन्द्रिताः ॥९७॥शबर्युवाच -निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् ।सत्येन तपते सूर्यः सत्येन ज्वलतेऽनलः ॥९८॥सत्येन तिष्ठत्युदधिर्वायुः सत्येन वाति हि ।सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च ॥९९॥सत्याधारमिदं सर्वं जगत्स्थावरजङ्गमम् ।तस्मात्सर्वप्रयत्नेन सत्यं सत्येन पालयेत् ॥१००॥देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते ।गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ॥१०१॥श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् ।कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि ।मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च ॥१०२॥राज्ञ्युवाच -आरामोपहृतं पुष्पमारण्यं पुष्पमेव च ।क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम् ॥१०३॥उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च ।मध्यमं फलमारामे त्वधमं क्रीतमेव च ।प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः ॥१०४॥पुरोहित उवाच -गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ।उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित् ॥१०५॥ईश्वर उवाच -श्रीफलानि सपद्मानि दत्तानि शबरेण तु ।गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम् ॥१०६॥क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् ।शबरस्तु ततो भार्यामिदं वचनमब्रवीत् ॥१०७॥दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ।कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम् ॥१०८॥चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् ।ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम् ॥१०९॥स्नाति वै शूलभेदे तु देवनद्यां तथापरे ।सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदेऽपरे ॥११०॥चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः ।शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि ॥१११॥श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा ।तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः ॥११२॥भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् ।अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः ॥११३॥हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा ।पायसेन तु गव्येन कृतान्नेन विशेषतः ॥११४॥भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि ।पादुकोपानहौ छत्रं शय्यां गोवृषमेव च ॥११५॥विविधानि च दानानि हेमरत्नधनानि च ।चक्रतीर्थे महाराज कपिलां यः प्रयच्छति ।पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥११६॥उत्तानपाद उवाच -यानि यानि च दत्तानि शस्तानि जगतीपतेः ।तानि सर्वाणि देवेश कथयस्व प्रसादतः ॥११७॥ईश्वर उवाच -तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।भूमिदः स्वर्गमाप्नोति दीर्घमायुर्हिरण्यदः ॥११८॥गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् ।वासोदश्चन्द्रसालोक्यमर्कसायुज्यमश्वदः ॥११९॥वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् ।यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥१२०॥धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम् ॥१२१॥सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥१२२॥तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् ।दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च ॥१२३॥उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर ।पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥१२४॥श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् ।पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः ॥१२५॥शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् ।संसारसागराद्भीतः सत्यं भद्रे वदामि ते ॥१२६॥अनेकानि च पापानि कृतानि बहुशो मया ।घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा ॥१२७॥तेन पापेन दग्धोऽहं दारिद्र्यं न निवर्तते ।तीर्थावगाहनं पूर्वं पापेन न कृतं मया ॥१२८॥तेनाहं दुःखितो भद्रे दारिद्र्यमनिवर्तिकम् ।मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि ।नगशृङ्गं समारुह्य मोक्तुमिच्छाम्यहं तनुम् ॥१२९॥शबर्युवाच -मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः ।या गतिस्तव जीवेश सा ममापि भविष्यति ॥१३०॥न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् ।श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा ॥१३१॥पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति ।यत्तेऽभिवाञ्छितं किंचिद्विष्णवे कर्तुमर्हसि ॥१३२॥भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः ।गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि ॥१३३॥सर्वदेवान्नमस्कृत्य भुक्तोऽपि च तया सह ।चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम् ॥१३४॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP