संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १७१ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १७१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७१ Translation - भाषांतर श्रीमार्कण्डेय उवाच -कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।नारायणसमीपे तु गताः सर्वे महर्षयः ॥१॥नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः ।वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥२॥कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः ।वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः ॥३॥ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥४॥सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः ।संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥५॥अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥६॥पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत् ॥७॥मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।धिग्जीवितं च मे किंतु तपसो विद्यते फलम् ॥८॥दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।परं किं तु करिष्यामि येन राष्ट्रं सराजकम् ॥९॥भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥१०॥क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् ।तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥११॥माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।निवारयसि किं विप्र शापं नृपजिघांसनम् ॥१२॥अपापस्य तु येनेह कृतमस्य जिघांसनम् ।ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत् ॥१३॥अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते ॥१४॥निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत् ॥१५॥प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥१६॥ऋषय ऊचुः ।केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥१७॥माण्डव्य उवाच -अदत्तदाना जायन्ते परभाग्योपजीविनः ।न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥१८॥न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥१९॥पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥२०॥ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥२१॥विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥२२॥ऋषय ऊचुः ।पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥२३॥शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥२४॥माण्डव्य उवाच -स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥२५॥यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।तथा पूर्वकृतं कर्म कर्तारमुपगच्छति ॥२६॥न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥२७॥श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥२८॥अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता ।तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥२९॥कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता ।तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥३०॥किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥३१॥इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥३२॥प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम् ॥३३॥श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥३४॥नारायण उवाच -इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः ॥३५॥माण्डव्य उवाच -इदं जलं च रक्षस्व कालकूटविषोपमम् ।समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥३६॥अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥३७॥गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः ।आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥३८॥तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥३९॥द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥४०॥न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥४१॥सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः ।ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥४२॥पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि ॥४३॥स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥४४॥तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः ।पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥४५॥पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥४६॥शाण्डिल्युवाच -नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥४७॥न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥४८॥वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥४९॥भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत ॥५०॥स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ ॥५१॥ऋषय ऊचुः ।परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥५२॥आत्मदुःखात्परं दुःखं न जानासि कुलाधमे ।तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥५३॥परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः ।कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा ॥५४॥सतां गेहे किल प्राप्ता भवतां चापकारिणी ।सामेनातिथिपूजायां शिष्टे च गृहमागते ॥५५॥भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु ।स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम् ॥५६॥प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥५७॥मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥५८॥एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् ।न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥५९॥स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥६०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP