संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ४८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ४८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४८ Translation - भाषांतर उत्तानपाद उवाच -कस्मिन्स्थानेऽवसद्देव सोऽन्धको दैत्यपुंगवः ।सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः ॥१॥श्रीमहेश उवाच -प्रविष्टो दानवो यत्र कथयामि नराधिप ।पाताललोकमाश्रित्य कन्या विध्वंसते तु सः ॥२॥तत्र स्थितं तं विज्ञाय चापमादाय केशवः ।व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन् ॥३॥दह्यमानोऽग्निना सोऽपि वारुणास्त्रं स संदधे ।वारुणास्त्रेण महता आग्नेयं शमितं तदा ॥४॥ततोऽसौ चिन्तयामास केन बाणो विसर्जितः ।कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम् ॥५॥ततोऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः ।स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम् ॥६॥अन्धक उवाच -न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः ।न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात् ॥७॥आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः ।न शक्नोषि तथा यातुं संस्थितस्त्वं ममाग्रतः ॥८॥अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे ।अहमन्वेषयिष्यामि किल यास्यामि ते गृहम् ॥९॥उपनीतोऽसि कालेन सङ्ग्रामे मम केशव ।ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः ॥१०॥न भवन्ति पुमांसस्ते स्त्रियस्ताश्चैव केशव ।परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह ॥११॥वदतो दानवेन्द्रस्य न चुकोप स केशवः ।अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः ॥१२॥द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप ।स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले ॥१३॥मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् ।अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् ।पाणिभ्यां सम्पुटं कृत्वा साष्टाङ्गं प्रणतः शुचिः ॥१४॥अन्धक उवाच -जय कृष्णाय हरये विष्णवे जिष्णवे नमः ।हृषीकेश जगद्धात्रे अच्युताय महात्मने ॥१५॥नमः पङ्कजनाभाय नमः पङ्कजमालिने ।जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥१६॥गोविन्दाय नमो नित्यं नमो जलधिशायिने ।नमः करालवक्त्राय नरसिंहाय नादिने ॥१७॥शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते ।नमो वामनरूपाय यज्ञरूपाय ते नमः ॥१८॥नमो वराहरूपाय क्रान्तलोकत्रयाय च ।व्याप्ताशेषदिगन्ताय केशवाय नमोनमः ॥१९॥वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक ॥२०॥विष्णोर्देवाधिदेवस्य प्रमाणं येऽपि कुर्वते ।प्रजापतेर्जगद्धातुस्तेषामपि नमाम्यहम् ॥२१॥समस्तभूतदेवस्य वासुदेवस्य धीमतः ।प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥२२॥तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥२३॥गुणानां हि निधानाय नमस्तेऽस्तु पुनःपुनः ।कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च ॥२४॥श्रीभगवानुवाच -तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् ।ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम् ॥२५॥अन्धक उवाच -यदि तुष्टोऽसि मे देव वरं दास्यसि चेप्सितम् ।तदा ददस्व मे देव युद्धं परमशोभनम् ।अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान् ॥२६॥श्रीभगवानुवाच -कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः ।न त्वां तु प्रभवेत्कोपः कथं युध्यामि तेऽन्धक ॥२७॥यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ।ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम् ॥२८॥अन्धक उवाच -न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम् ॥२९॥श्रीभगवानुवाच -पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च ॥३०॥विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् ।कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव ॥३१॥विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः ।कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः ॥३२॥धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् ।निपेतुः शिखराग्राणि कम्पमानान्यनेकशः ॥३३॥चत्वारः सागराः क्षिप्रमेकीभूता महीपते ।निपेतुरुल्कापाताश्च पादपा अप्यनेकशः ॥३४॥उमया सहितो देवो विस्मयं परमं गतः ।गाढमालिङ्ग्य गिरिजा देवं वचनमब्रवीत् ॥३५॥किमर्थं कम्पते शैलः किमर्थं कम्पते धरा ।किमर्थं कम्पते नागो मर्त्यः पातालमेव च ।किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि ॥३६॥ईश्वर उवाच -कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः ।ललाटे च कृतं वर्म स यास्यति यमालयम् ॥३७॥कैलासमाश्रितो येन सुप्तोऽहं येन बोधितः ।तं वधिष्ये न सन्देहः सम्मुखो वा भवेद्यदि ॥३८॥चिन्तयामास देवेशो ह्यन्धकोऽयं न संशयः ।उपायं चिन्तयामास येनासौ वध्यते क्षणात् ॥३९॥आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह ।रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ॥४०॥केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रपार्श्वयोः ।केचिन्नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः ॥४१॥धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः ।केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः ॥४२॥आमलसारकेऽन्येऽपि अन्येऽपि कलशे स्थिताः ।रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम् ॥४३॥रथं देवमयं कृत्वा तमारूढो जगद्गुरुः ।निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः ॥४४॥तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते ।शरासनं करे गृह्य शरांश्चिक्षेप दानवे ॥४५॥दानवेऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् ।शरासनेण तत्रैव अन्धकश्छादितस्तदा ॥४६॥न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः ।आग्नेयमस्त्रं व्यसृजद्दानवोऽपि शिवं प्रति ॥४७॥दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः ।रक्ष रक्ष महादेव दह्यमानांस्तु दानवात् ॥४८॥ततो देवाधिदेवोऽसौ वारुणास्त्रमयोऽजयत् ।वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा ॥४९॥दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे ।वारुणं च गतं तात वायव्यास्त्रविनाशितम् ॥५०॥देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा ।मारुतं नाशितं बाणैः सर्पैस्तत्र न संशयः ॥५१॥दानवेन ततो मुक्तं गरुडास्त्रं च लीलया ।गारुडास्त्रं च तद्दृष्ट्वा सार्पं नैव व्यदृश्यत ॥५२॥ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम् ॥५३॥अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् ।महद्युद्धमभूत्तातसुरासुरभयंकरम् ॥५४॥चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ।वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः ॥५५॥एवं न शक्यते हन्तुं दानवो विविधायुधैः ।तदा ज्वालाकरालाश्च खड्गनाराचतोमराः ॥५६॥वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति ।न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव ॥५७॥आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ ।करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः ।रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ ॥५८॥श्रीमार्कण्डेय उवाच -अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् ।हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः ॥५९॥स शिवेन यदा क्षिप्तः पतितः पृथिवीतले ।ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम ॥६०॥क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा ।कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य पीडितः ॥६१॥निस्पन्दश्चाभवद्देवो मूर्च्छायुक्तो महेश्वरः ।मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः ॥६२॥हाहा कष्टं कृतं मेऽद्य दुष्कृतं पापकर्मणा ।किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये ॥६३॥गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् ।शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराट्ततः ॥६४॥शय्यायां पतितो देवः प्रपेदे वेदनां ततः ।तावद्ददर्श चात्मानं स्वकीयभवनस्थितम् ॥६५॥पराभवः कृतो मद्यं कथं तेन दुरात्मना ।क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ॥६६॥आयसीं लगुडीं गृह्य प्रभुर्भारसहस्रजाम् ।दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि ॥६७॥खड्गेन ताडयामास दानवः प्रहसन्रणे ।देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे ॥६८॥दीप्यमानं समुत्सृज्य हृदये ताडितः क्षणात् ।ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥६९॥पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः ।पुनश्च देवदेवेन शूलेन द्विदलीकृतः ॥७०॥शूलाग्रेऽसौ स्थितः पापो भ्रान्तवांश्चक्रवत्तदा ।ये ये भूम्यां पतन्ति स्म तत्कायाद्रक्तबिन्दवः ॥७१॥ते ते सर्वे समुत्तस्थुर्दानवाः शास्त्रपाणयः ।व्याकुलस्तु ततो देवो दानवेन तरस्विना ॥७२॥देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना ।आयाता भीषणाकारा नानायुधविराजिता ॥७३॥महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।आदेशो दीयतां देव को यास्यति यमालयम् ॥७४॥ईश्वर उवाच -पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च ।निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम् ॥७५॥निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि ।एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः ॥७६॥निहता दानवाः सर्वे देवेशेन सहस्रशः ।अन्धकोऽपि च तान् दृष्ट्वा दानवानवनिं गतान् ।ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम् ॥७७॥अन्धक उवाच -जयस्व देवदेवेश उमार्धार्धाशरीरधृक् ।नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने ॥७८॥वृषभासनमारूढ शशाङ्ककृतशेखर ।जय खट्वाङ्गहस्ताय गङ्गाधर नमोऽस्तु ते ॥७९॥नमो डमरुहस्ताय नमः कपालमालिने ।स्मरदेहविनाशाय महेशाय नमोऽस्तु ते ॥८०॥पूष्णो दन्तनिपाताय गणनाथाय ते नमः ।जय स्वरूपदेहाय अरूपबहुरूपिणे ॥८१॥उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर ।श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ॥८२॥त्वं सर्वगोऽसि त्वं कर्ता त्वं हर्ता नान्य एव च ।त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा ॥८३॥सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च ।ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च ॥८४॥एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः ।संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम् ॥८५॥ईश्वर उवाच -साधु साधु महासत्त्व वरं याचस्व दानव ।दाताहं याचकस्त्वं हि ददामीह यथेप्सितम् ॥८६॥अन्धक उवाच -यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।तदात्मसदृशोऽहं ते कर्तव्यो नापरो वरः ॥८७॥भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः ।व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥८८॥एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर ॥८९॥ईश्वर उवाच -ददामि ते वरं ह्यद्य यस्त्वया याचितोऽनघ ।गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि ॥९०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽन्धकवधतद्वरप्रदानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 09, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP