संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर सूत उवाच ॥१॥नर्मदायास्तु माहात्म्यं कृष्णद्वैपायनोऽब्रवीत् ।तत्तेऽहं सम्प्रवक्ष्यामि यत्त्वया परिपृच्छितम् ॥२॥विस्तरं नर्मदायास्तु तीर्थानां मुनिसत्तम ।कोऽन्यः शक्तोऽस्ति वै वक्तुमृते ब्रह्माणमीश्वरम् ॥३॥एतमेव पुरा प्रश्नं पृष्टवाञ्जनमेजयः ।वैशंपायनसंज्ञं तु शिष्यं द्वैपायनस्य ह ॥४॥रेवातीर्थाश्रितं पुण्यं तत्ते वक्ष्यामि शौनक ।पुरा पारीक्षितो राजा यज्ञादीक्षासु दीक्षितः ॥५॥संभृते तु हविर्द्रव्ये वर्तमानेषु कर्मसु ।आसीनेषु द्विजाग्र्येषु हूयमाने हुताशने ॥६॥वर्तमानासु सर्वत्र तथा धर्मकथासु च ।श्रूयमाणे तथा शब्दे जनैरुक्ते त्वहर्निशम् ॥७॥यज्ञभूमौ कुलपते दीयतां भुज्यतामिति ।विविधांश्च विनोदान्वै कुर्वाणेषु विनोदिषु ॥८॥एवंविधे वर्तमाने यज्ञे स्वर्गसदःसमे ।वैशंपायनमासीनं पप्रच्छ जनमेजयः ॥९॥जनमेजय उवाच -द्वैपायनप्रसादेन ज्ञानवानसि मे मतः ।वैशंपायन तस्मात्त्वां पृच्छामि ऋषिसन्निधौ ॥१०॥ब्रूहि मे त्वं पुरावृत्तं पितृणां तीर्थसेवनम् ।चिरं नानाविधान्क्लेशान् प्राप्तास्त इति मे श्रुतम् ॥११॥कथं द्यूतजिताः पार्था मम पूर्वपितामहाः ।आसमुद्रां महीं विप्र भ्रमन्तस्तीर्थलोभतः ॥१२॥केन ते सहितास्तात भूमिभागाननेकशः ।चेरुः कथय तत्सर्वं सर्वज्ञोऽसि मतो मम ॥१३॥वैशंपायन उवाच ॥१४॥कथयिष्यामि भूनाथ यत्पृष्टं तु त्वयाऽनघ ।नमस्कृत्य विरूपाक्षं वेदव्यासं महाकविम् ॥१५॥पितामहास्तु ते पञ्च पाण्डवाः सह कृष्णया ।उषित्वा ब्राह्मणैः सार्धं काम्यके वन उत्तमे ॥१६॥प्रधानोद्दालके तत्र कश्यपोऽथ महामतिः ।विभाण्डकश्च राजेन्द्र मुरुश्चैव महामुनिः ॥१७॥पुलस्त्यो लोमशश्चैव तथान्ये पुत्रपौत्रिणः ।स्नात्वा निःशेषतीर्थेषु गतास्ते विन्ध्यपर्वतम् ॥१८॥ते च तत्राश्रमं पुण्यं सर्वैर्वृक्षैः समाकुलम् ।चम्पकैः कर्णकारैश्च पुन्नागैर्नागकेसरैः ॥१९॥बकुलैः कोविदारैश्च दाडिमैरुपशोभितम् ।पुष्पितैरर्जुनैश्चैव बिल्वपाटलकेतकैः ॥२०॥कदम्बाम्रमधूकैश्च निम्बजम्बीरतिन्दुकैः ।नालिकेरैः कपित्थैश्च खर्जूरपनसैस्तथा ॥२१॥नानाद्रुमलताकीर्णं नानावल्लीभिरावृतम् ।सपुष्पं फलितं कान्तं वनं चैत्ररथं यथा ॥२२॥जलाश्रयैस्तु विपुलैः पद्मिनीखण्डमण्डितम् ।सितोत्पलैश्च संछन्नं नीलपीतैः सितारुणैः ॥२३॥हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।आडीकाकबलाकाभिः सेवितं कोकिलादिभिः ॥२४॥सिंहैर्व्याघ्रैर्वराहैश्च गजैश्चैव महोत्कटैः ।महिषैश्च महाकायैः कुरङ्गैश्चित्रकैः शशैः ॥२५॥गण्डकैश्चैव खड्गैश्च गोमायुसुरभी युतम् ।सारङ्गैर्मल्लकैश्चैव द्विपदैश्च चतुष्पदैः ॥२६॥तथाच कोकिलाकीर्णं मनःकान्तं सुशोभितम् ।जीवंजीवकसंघैश्च नानापक्षिसमायुतम् ॥२७॥दुःखशोकविनिर्मुक्तं सत्त्वोत्कटमनोरमम् ।क्षुत्तृषारहितं कान्तं सर्वव्याधिविवर्जितम् ॥२८॥सिंहीस्तनं पिबन्त्यत्र कुरंगाः स्नेहसंयुतम् ।मार्जारमूषकौ चोभाववलेहत उन्मुखौ ॥२९॥पञ्चास्याः पोतकेभाश्च भोगिनस्तु कलापिनः ।दृष्ट्वा तद्विपिनं रम्यं प्रविष्टाः पाण्डुनन्दनाः ॥३०॥मार्कण्डं दृष्टवांस्तत्र तरुणादित्यसन्निभम् ।ऋषिभिः सेव्यमानं तु नानाशास्त्रविशारदैः ॥३१॥कुलीनैः सत्त्वसम्पन्नैः शौचाचारसमन्वितैः ।धीसंगतैः क्षमायुक्तैस्त्रिसंध्यं जपतत्परैः ॥३२॥ऋग्यजुःसामविहितैर्मन्त्रैर्होमपरायणैः ।केचित्पञ्चाग्निमध्यस्थाः केचिदेकान्तसंस्थिताः ॥३३॥ऊर्ध्वबाहुनिरालम्बा आदित्यभ्रमणाः परे ।सायंप्रातर्भुजश्चान्ये एकाहारास्तथा परे ॥३४॥द्वादशाहात्तथा चान्ये अन्ये मासार्धभोजनाः ।दर्शे दर्शे तथा चान्ये अन्ये शैवालभोजनाः ॥३५॥पिण्याकमपरेऽभुजन् केचित्पालाशभोजनाः ।अपरे नियताहारा वायुभक्ष्याम्बुभोजनाः ॥३६॥एवंभूतैस्तथा वृद्धैः सेव्यते मुनिपुंगवैः ।ततो धर्मसुतः श्रीमानाश्रमं तं प्रविश्य सः ॥३७॥दृष्ट्वा मुनिवरं शान्तं ध्यायमानं परं पदम् ।प्रादक्षिण्येन सहसा दण्डवत्पतितोऽग्रतः ॥३८॥भक्त्यानुपतितं दृष्ट्वा चिरादादाय लोचनम् ।को भवानित्युवाचेदं धर्मं धीमानपृच्छत ॥३९॥तस्य तद्वचनं श्रुत्वा दारकस्तत्समीपगः ।आहायं धर्मराजस्ते दर्शनार्थं समागतः ॥४०॥तच्छ्रुत्वादारकेणोक्तं वचनं प्राह सादरः ।एह्येहि वत्सवत्सेति किंचित्स्थानाच्चलन्मुनिः ।तं तु स्नेहादुपाघ्राय आसने उपवेशयत् ॥४१॥उपविष्टे सभायां तु पूजां कृत्वा यथाविधि ।वन्यैर्धान्यैः फलैर्मूलै रसैश्चैव पृथग्विधैः ॥४२॥पाण्डवा ब्राह्मणैः सार्द्धं यथायोग्यं प्रपूजिताः ।मुहूर्तादथ विश्रम्य धर्मपुत्रो युधिष्ठिरः ॥४३॥पृच्छति स्म मुनिश्रेष्ठं कौतूहलसमन्वितः ।भगवन्सर्वलोकानां दीर्घायुस्त्वं मतो मम ॥४४॥सप्तकल्पानशेषेण कथयस्व ममानघ ।कल्पक्षयेऽपि लोकस्य स्थावरस्येतरस्य च ॥४५॥न विनष्टोऽसि विप्रेन्द्र कथं वा केन हेतुना ।गङ्गाद्याः सरितः सर्वाः समुद्रान्ताश्च या मुने ॥४६॥तासां मध्ये स्थिताः काः स्वित्काश्चैव प्रलयं गताः ।का नु पुण्यजला नित्यं कानु न क्षयमागता ॥४७॥एतत्कथय मे तात प्रसन्नेनान्तरात्मना ।श्रोतुमिच्छाम्यशेषेण ऋषिभिः सह बान्धवैः ॥४८॥श्रीमार्कण्डेय उवाच -साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ।कथयामि यथा न्यायं यत्पृच्छसि ममानघ ॥४९॥सर्वपापहरं पुण्यं पुराणं रुद्रभाषितम् ।यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ॥५०॥अश्वमेध सहस्रेण वाजपेयशतेन च ।तत्फलं समवाप्नोति राजन्नास्त्यत्र संशयः ॥५१॥ब्रह्मघ्नश्च सुरापी च स्तेयी गोघ्नश्च यो नरः ।मुच्यते सर्वपापेभ्यो रुद्रस्य वचनं यथा ॥५२॥गङ्गा तु सरितां श्रेष्ठा तथा चैव सरस्वती ।कावेरी देविका चैव सिन्धुः सालकुटी तथा ॥५३॥सरयूः शतरुद्रा च मही चर्मिलया सह ।गोदावरी तथा पुण्या तथैव यमुना नदी ॥५४॥पयोष्णी च शतद्रुश्च तथा धर्मनदी शुभा ।एताश्चान्याश्च सरितः सर्वपापहराः स्मृताः ॥५५॥किं तु ते कारणं तात वक्ष्यामि नृपसत्तम ।समुद्राः सरितः सर्वाः कल्पे कल्पे क्षयं गताः ॥५६॥सप्तकल्पक्षये क्षीणे न मृता तेन नर्मदा ।नर्मदैकैव राजेन्द्र परं तिष्ठेत्सरिद्वरा ॥५७॥तोयपूर्णा महाभाग मुनिसंघैरभिष्टुता ।गंगाद्याः सरितश्चान्याः कल्पे कल्पे क्षयं गताः ॥५८॥एषा देवी पुरा दृष्टा तेन वक्ष्यामि तेऽनघ ॥५९॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ N/A References : N/A Last Updated : December 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP