संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २० Translation - भाषांतर युधिष्ठिर उवाच -श्रुता मे विविधा धर्माः संहारास्त्वत्प्रसादतः ।कृता देवेन सर्वेण ये च दृष्टास्त्वयानघ ॥१॥साम्प्रतं श्रोतुमिच्छामि प्रभावं शार्ङ्गधन्वनः ।त्वयानुभूतं विप्रेन्द्र तन्मे त्वं वक्तुमर्हसि ॥२॥श्रीमार्कण्डेय उवाच -अतः परं प्रवक्ष्यामि प्रजासंहारलक्षणम् ।यच्चिह्नं दृश्यते तत्र यथा कल्पो विधीयते ॥३॥उल्कापाताः सनिर्घाता भूमिकम्पस्तथैव च ।पतते पांशुवर्षं च निर्घोषश्चैव दारुणः ॥४॥यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः ।सर्वे ते प्रलयं यान्ति युगान्ते समुपस्थिते ॥५॥पर्वताः सागरा नद्यः सरांसि विविधानि च ।वृक्षाः शेषं समायान्ति वल्लीजातं तृणानि च ॥६॥एवं हि व्याकुलीभूते सर्वौषधिजलोज्झिते ।काष्ठभूते तु संजाते त्रैलोक्ये सचराचरे ॥७॥यावत्पश्यामि मध्याह्ने स्नानकाल उपस्थिते ।त्रैलोक्यं ज्वलनाकारं दुर्निरीक्षं दुरासदम् ॥८॥द्वौ सूर्यौ पूर्वतस्तात पश्चिमोत्तरयोस्तथा ।तथैव दक्षिणे द्वौ च सूर्यौ दृष्टौ प्रतापिनौ ॥९॥द्वौ सूर्यौ नागलोकस्थौ मध्ये द्वौ गगनस्य च ।इत्येते द्वादशादित्यास्तपन्ते सर्वतो दिशम् ॥१०॥पृथिवीमदहन्सर्वां सशैलवनकाननाम् ।नादग्धं दृश्यते किंचिदृते रेवां च मां तथा ॥११॥पृथिव्यां दह्यमानायां हविर्गन्धश्च जायते ।ततो मे शुष्यते गात्रं तृषाप्येवं दुरासदा ॥१२॥न हि विन्दामि पानीयं शोषितं च दिवाकरैः ।यावत्कमण्डलुं वीक्षे शुष्कं तत्रापि तज्जलम् ॥१३॥ततोऽहं शोकसंतप्तो विशेषात्क्षुत्तृषार्दितः ।उत्पपात क्षितेरूर्ध्वं पश्यमानो दिवं प्रति ॥१४॥तावत्पश्यामि गगने गृहं शृङ्गारभूषितम् ।ततस्तज्ज्ञातुकामोऽहं प्रस्थितो राजसत्तम ॥१५॥प्राकारेण विचित्रेण कपाटार्गलभूषितम् ।विचित्रशिखरोपेतं द्वारदेशमुपागतः ॥१६॥षडशीतिसहस्राणि योजनानां समुच्छ्रये ।तदर्धं तु पृथक्त्वेन काञ्चनं रत्नभूषितम् ॥१७॥तत्र मध्ये परां शय्यां पश्यामि नृपसत्तम ।शय्योपरि शयानं तु पुरुषं दिव्यमूर्धजम् ॥१८॥विकुञ्चिताग्रकेशान्तं समस्तं योजनायतम् ।मुकुटेन विचित्रेण दीप्तिकान्तेन शोभितम् ॥१९॥श्यामं कमलपत्राभं सुप्रभं च सुनासिकम् ।सिंहास्यमायतभुजं गल्लश्मश्रुवराङ्कितम् ॥२०॥त्रिवलीभङ्गसुभगं कर्णकुण्डलभूषितम् ।विशालाभं सुपीनाङ्गं पार्श्वस्वावर्तभूषितम् ॥२१॥शोभितं कटिभागेन विभक्तं जानुजङ्घयोः ।पद्माङ्किततलं देवमाताम्रसुनखाङ्गुलिम् ॥२२॥मेघनादसुगम्भीरं सर्वावयवसुन्दरम् ।शय्यामध्यगतं देवमपश्यं पुरुषोत्तमम् ॥२३॥शङ्खचक्रगदापाणिं शयानं दक्षिणेन तु ।अक्षसूत्रोद्यतकरं सूर्यायुतसमप्रभम् ॥२४॥तं दृष्ट्वा भक्तिमान्देवं स्तोतुकामो व्यवस्थितः ।जयेश जय वागीश जय दिव्याङ्गभूषण ॥२५॥जय देवपते श्रीमन्साक्षाद्ब्रह्म सनातन ।तव लोकाः शरीरस्थास्त्वं गतिः परमेश्वर ॥२६॥त्वदाधारा हि देवेश सर्वे लोका व्यवस्थिताः ।त्वं श्रेष्ठः सर्वसत्त्वानां त्वं कर्ता धरणीधरः ॥२७॥त्वं हौत्रमग्निहोत्राणां सूत्रमन्त्रस्त्वमेव च ।गोकर्णं भद्रकर्णं च त्वं च माहेश्वरं पदम् ॥२८॥त्वं कीर्तिः सर्वकीर्तीनां दैन्यपापप्रणाशिनी ।त्वं नैमिषं कुरुक्षेत्रं त्वं च विष्णुपदं परम् ॥२९॥त्वया तु लीलया देव पदाक्रान्ता च मेदिनी ।त्वया बद्धो बलिर्देव त्वयेन्द्रस्य पदं कृतम् ॥३०॥त्वं कलिर्द्वापरं देव त्रेता कृतयुगं तथा ।प्रलम्बदमनश्च त्वं स्रष्टा त्वं च विनाशकृत् ॥३१॥त्वया वै धार्यते लोकास्त्वं कालः सर्वसंक्षयः ।त्वया हि देव सृष्टास्ताः सर्वा वै देवयोनयः ॥३२॥त्वं पन्थाः सर्वलोकानां त्वं च मोक्षः परा गतिः ।ब्रह्मा त्वदुद्भवो देवो रजोरूपः सनातनः ।रुद्रः क्रोधोद्भवोऽप्येवं त्वं च सत्त्वे व्यवस्थितः ॥३३॥एतच्चराचरं देव क्रीडनार्थं त्वया कृतम् ।एवं संतप्तदेहेन स्तुतो देवो मया प्रभुः ॥३४॥भक्त्या परमया राजन्सर्वभूतपतिः प्रभुः ।स्तुवन्वै तत्र पश्यामि वारिपूर्णांस्ततो घटान् ॥३५॥ततो मया विस्मृता या तृषा सा वर्धिता पुनः ।उपासर्पं ततस्तस्य पार्श्वं वै पुरुषस्य हि ॥३६॥पानीयं पातुकामेन चिन्तितं च मया पुनः ।नापश्यत हि मां चैष सुप्तोऽपि न च बुध्यते ॥३७॥यस्तु पापेन संमूढः सुखं सुप्तं प्रबोधयेत् ।जायते तस्य पापस्य ब्रह्महत्याफलं महत् ॥३८॥एवं संचिन्त्यमाने तु द्वितीयो ह्यागतः पुमान् ।नेक्षते जल्पते किंचिद्वामस्कन्धे मृगाजिनी ॥३९॥जटी कमण्डलुधरो दण्डी मेखलया वृतः ।भस्मोन्मृदितसर्वाङ्गो महातेजास्त्रिलोचनः ॥४०॥यावत्तं स्तोतुकामोऽहमपश्यं स्वच्छचक्षुषा ।तावत्सर्वाङ्गसम्भूत्यामहत्या रूपसम्पदा ॥४१॥अपश्यं संवृतां नारीं सर्वाभरणभूषिताम् ।दृष्ट्वा तां पतितो भूमौ जयस्वेति ब्रुवंस्ततः ॥४२॥जय रुद्राङ्गसम्भूते जयवाहिनि सनातनि ।जय कौमारि माहेन्द्रि वैष्णवी वारुणी तथा ॥४३॥जय कौबेरि सावित्रि जय धात्रि वरानने ।तृष्णया तप्तदेहस्य रक्षां कुरु चराचरे ॥४४॥श्रीदेव्युवाच -प्रसन्ना विप्रशार्दूल तव वाक्यैः सुशोभनैः ।वर्तते मानसे यत्ते मया ज्ञातं द्विजोत्तम ॥४५॥शृणु विप्र ममाप्यस्ति व्रतमेतत्सुदारुणम् ।स्त्रीलघुत्वान्मयारब्धं दुष्करं मन्दमेधया ॥४६॥यदि भावी च मे पुत्रो धर्मिष्ठो लोकविश्रुतः ।विप्रस्य तु स्तनं दत्त्वा पश्चाद्दास्यामि बालके ॥४७॥स मे पुत्रः समुत्पन्नो यथोक्तो मे महामुने ।स्तनं पिब त्वं विप्रेन्द्र यदि जीवितुमिच्छसि ॥४८॥श्रीमार्कण्डेय उवाच -अकार्यमेतद्विप्राणां यस्त्विमं पिबते स्तनम् ।पुनश्चैवोपनयनं व्रतसिद्धिं न गच्छति ॥४९॥ब्राह्मणत्वं त्रिभिर्लोकैर्दुर्लभं पद्मलोचने ।संस्कारैः संस्कृतो विप्रो यैश्च जायेत तच्छृणु ॥५०॥प्रथमं चैव नारीषु संस्कारैर्बीजवापतम् ।बीजप्रक्षेपणादेव बीजक्षेपः स उच्यते ॥५१॥तदन्ते च महाभागे गर्भाधानं द्वितीयकम् ।पुंसवनं तृतीयं तु सीमन्तं च चतुर्थकम् ॥५२॥पञ्चमं जातकर्म स्यान्नाम वै षष्ठमुच्यते ।निष्क्रामः सप्तमश्चैव ह्यन्नप्राशनमष्टमम् ॥५३॥नवमं वै चूडकर्म दशमं मौञ्जिबन्धनम् ।ऐषिकं दार्विकं चैव सौमिकं भौमिकं तथा ॥५४॥पत्नीसंयोजनं चान्यद्दैवकर्म ततः परम् ।मानुष्यं पितृकर्म स्याद्दशमाष्टासु शोभने ॥५५॥भूतं भव्यं तथेष्टं च पार्वणं च ततः परम् ॥५६॥श्राद्धं श्रावण्यामाग्रयणं च चैत्राश्वयुज्यां दशपौर्णमास्याम् ।निरूढपशुसवनसौत्रामण्यग्निष्टोमात्यग्निष्टोमाः ॥५७॥षोडषीवाजपेयातिरात्राप्तोर्यामोदशवाजपेयाः ।सर्वभूतेषु क्षान्तिरनसूया शौचमङ्गलमकार्पण्यमस्पृहेति ॥५८॥एभिरष्टचत्वारिंशद्भिः संस्कारैः संकृतो ब्राह्मणो भवति ॥५९॥एवं ज्ञात्वा महाभागे न तु मां पातुमर्हसि ।शिशुपेयं स्तनं भद्रे कथं वै मद्विधः पिबेत् ॥६०॥ममैतद्वचनं श्रुत्वा नारी वचनमब्रवीत् ॥६१॥यदि त्वं न पिबेः स्तन्यं पयो बालो मरिष्यति ।श्रूयते त्रिषु लोकेषु वेदेषु च स्मृतिष्वपि ।मुच्यते सर्वपापेभ्यो भ्रूणहत्या न मुञ्चति ॥६२॥भवित्री तव हत्या च महाभागवतः पुनः ।जन्मानि च शतान्यष्टौ क्लिश्यते भ्रूणहत्यया ॥६३॥मृतः शुनत्वं चाप्नोति वर्षाणां तु शतत्रयम् ।ततस्तस्य क्षये जाते काकयोनिं व्रजेत्पुनः ॥६४॥तत्रापि च शतान्यष्टौ क्लिश्यते पापकर्मणि ।वराहो दश जन्मानि तदन्ते जायते कृमिः ॥६५॥ततश्चारोहिणीं प्राप्य गोगजाश्वनृजन्मभाक् ।श्रूयते श्रुतिशास्त्रेषु वेदेषु च परंतप ॥६६॥सर्वपापाधिकं पापं बालहत्या द्विजोत्तम ।बालहत्यायुतो विप्रः पच्यते नरके ध्रुवम् ॥६७॥वर्षाणि च शतान्यष्टौ प्राप्नोति यमयातनाम् ।तस्मादल्पतरो दोषः पिबतो मे स्तनं तव ॥६८॥तथैवापिबतः पापं जायते बहुवर्षिकम् ।क्षुधातृषाविरामस्ते पुण्यं च पिबतः स्तनम् ॥६९॥अतो न चेतः संदिग्धं कर्तव्यमिह कर्हिचित् ।एहि विप्र यथाकामं बालार्थे पिब मे स्तनम् ॥७०॥ततोऽहं वचनं श्रुत्वा स्तनं पातुं समुद्यतः ।न च तृप्तिं विजानामि पिबतः स्तनमुत्तमम् ॥७१॥त्रिंशद्वर्षसहस्राणि भारतैवं शतानि च ।ततः प्रबुद्धोत्सङ्गेऽहं मायानिद्राविमोहितः ॥७२॥निद्राविगतमोहोऽहं यावत्पश्यामि पाण्डव ।तावत्सुप्तं न पश्यामि न च तं बालकं विभो ॥७३॥चतुरस्तांश्च वै कुम्भान् पश्यामि तत्र भारत ।न च पश्यामि तां देवीं गता वै कुत्रचिच्च ते ॥७४॥एवं विमृश्यमानस्य चिन्तयानस्य तिष्ठतः ।ईषद्धसितया वाचा देवी वचनमब्रवीत् ॥७५॥श्रीदेव्युवाच -कृष्णः स पुरुषः सुप्तो द्वितीयोऽप्यागतो हरः ।ये चत्वारश्च ते कुम्भाः समुद्रास्ते द्विजोत्तम ॥७६॥यश्च बालस्त्वया दृष्टो ब्राह्मा लोकपितामहः ।अहं च पृथिवी ज्ञेया सप्तद्वीपा सर्वता ॥७७॥या गता त्वां परित्यज्य भूतले सुप्रतिष्ठिता ।इमां च प्रेक्षसे विप्र नर्मदां सरितां वराम् ॥७८॥सर्वसत्त्वोपकाराय बृहते पुण्यलक्षणा ।रेवानदी तु विख्याता न मृता तेन नर्मदा ॥७९॥एवं ज्ञात्वा शमं गच्छ स्वस्थो भव महामुने ।इत्युक्त्वा मां तदा देवी तत्रैवान्तरधीयत ॥८०॥एवं हि शेते भगवान्सत्त्वस्थः प्रलये सदा ।सत्त्वरूपो महादेवो यदाधारे जगत्स्थितम् ॥८१॥एवं मयानुभूतं तु दृष्टमाश्चर्यमुत्तमम् ।सर्वपापहरं पुण्यं कथितं ते नरोत्तम ॥८२॥विष्णोश्चरितमित्युक्तं यत्त्वया परिपृच्छितम् ।भूय एव महाबाहो किमन्यच्छ्रोतुमिच्छसि ॥८३॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वाराहकल्पवृत्तान्तवर्णनं नाम विंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP