संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २३२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २३२ Translation - भाषांतर सूत उवाच -इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् ।यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा ॥१॥तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः ।प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥२॥एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥३॥सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः ।मृकण्डतनयो धीमान्परमार्थविदुत्तमः ॥४॥संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा ।बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम् ॥५॥मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ ।अजराममरां देवीं दैत्यध्वंसकरीं पराम् ॥६॥महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् ।तस्यामाबध्य सत्प्रेम जातः सोऽप्यजरामरः ॥७॥षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः ।व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे ॥८॥सारितः परितः सन्ति सतीर्थास्तु सहस्रशः ।न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः ॥९॥एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः ।यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति ॥१०॥तद्वन्मृकण्डतनयोऽप्यनुभूयाखिलां नदीम् ।सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम् ॥११॥एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः ।नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥१२॥किमन्यैः सरितां तोयैः सेवितैस्तु सहस्रशः ।यदि संसेव्यते तोयं रेवायाः पापनाशनम् ॥१३॥मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम् ॥१४॥यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः ।तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च ॥१५॥इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः ।इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥१६॥तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः ।यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः ॥१७॥ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः ।शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥१८॥तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् ।यावन्न नर्मदानामकीर्तनं क्रियते कलौ ॥१९॥गरिमा गाण्यते तावत्तपोदानव्रतादिषु ।नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी ॥२०॥ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥२१॥धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा ।नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता ॥२२॥कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते ।ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम् ॥२३॥इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः ।शृणोति यः कीर्तयते मुच्यते सर्वपातकः ॥२४॥यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः ।श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत् ॥२५॥सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् ।श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत् ॥२६॥सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु ।सकृच्छ्रुत्वा च माहात्म्यं रेवायास्तत्फलं लभेत् ॥२७॥एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् ।देशे वा मण्डले वापि नगरे ग्राममध्यतः ॥२८॥गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् ।स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ॥२९॥धर्मार्थकाममोक्षाणां मार्गेऽयं देवसेवितः ।गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम् ॥३०॥यश्चेदं शृणुयान्नित्यं पुराणं देवभाषितम् ।ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत् ॥३१॥धनाढ्यो जायते वैश्यः शूद्रो वै धर्मभाग्भवेत् ॥३२॥सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् ।श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले ॥३३॥रसभेदी कृतघ्नश्च स्वामिध्रुङ्मित्रवञ्चकः ।गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥३४॥ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः ।नर्मदाचरितं शृण्वंस्तामब्दं योऽभिषेवते ॥३५॥सर्वपापविनिर्मुक्तो जायते नात्र संशयः ।पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः ॥३६॥परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा ।तेऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः ॥३७॥ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः ।पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः ॥३८॥पुष्पैः फलैश्चन्दनाद्यैर्भोजनैर्विविधैरपि ।शास्त्रेऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा ॥३९॥इह लोके परे चैव नात्र कार्या विचारणा ।तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः ॥४०॥पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च ।वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः ॥४१॥तत्फलं समवाप्नोति नर्मदाचरिते शुभे ।कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा ॥४२॥रुद्रावर्ते गयायां च वाराणस्यां विशेषतः ।गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥४३॥एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् ।नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत् ॥४४॥आदिमध्यावसानेषु नर्मदाचरितं शुभम् ।यः शृणोति नरो भक्त्या शृणुध्वं तत्फलं महत् ॥४५॥समाप्य शिवसंस्थानं देवकन्यासमावृतः ।रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते ॥४६॥धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् ।गृहेऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः ॥४७॥धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् ।पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु ॥४८॥नर्मदा पूजिता तेन भगवांश्च महेश्वरः ।वाचके पूजिते तद्वद्देवाश्च ऋषयोऽर्चिताः ॥४९॥लेखयित्वा च सकलं रेवाचरितमुत्तमम् ।भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने ॥५०॥नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् । तत्फलं समवाप्नोति स नरो नात्र संशयः ॥५१॥ एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम् ॥५२॥धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् ।पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम् ॥५३॥यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः ।शिवलोके स्थितिस्तस्य पुराणाक्षरवत्सरी ॥५४॥इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य ।त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस्तत्सूतमुख्येन साधु ॥५५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP