संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २८ Translation - भाषांतर मार्कण्डेय उवाच -एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः ।क्रीडते ह्युमया सार्द्धं नारदस्तत्र चागतः ॥१॥प्रणम्य देवदेवेशमुमया सह शङ्करम् ।व्यज्ञापयत्तदा देवं यद्वृत्तं त्रिपुरे तदा ॥२॥गतोऽहं स्वामिनिर्देशाद्यत्र तद्बाणमन्दिरम् ।दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत् ॥३॥तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः ।यथायोग्यं यथाकाममागतः क्षोभ्य तत्पुरम् ॥४॥नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् ।चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि ॥५॥करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना ।महावेगं महायामं रक्षितं तेजसा मम ॥६॥स च मे भक्तिनिरतो बाणो लोके च विश्रुतः ।भारती च मया दत्ता ब्राह्मणानां विशेषतः ॥७॥एवं स सुचिरं कालं देवदेवो महेश्वरः ।चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः ॥८॥ततोऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् ।विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः ॥९॥फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् ।सुपर्णं पुङ्खयोर्मध्ये जवे वायुं प्रकल्प्य च ॥१०॥रथं महीमयं कृत्वा धुरि तावश्विनावुभौ ।अक्षे सुरेश्वरं देवमग्रकील्यां धनाधिपम् ॥११॥यमं तु दक्षिणे पार्श्वे वामे कालं[१] सुदारुणम् ।आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु ॥१२॥यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् ।खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत् ॥१३॥कृत्वा प्रतोदमोंकारं मुखग्राह्यं महेश्वरः ।धातारं[२] चाग्रतः कृत्वा विधातारं च पृष्ठतः ॥१४॥मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च ।महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा ॥१५॥गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु ।युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः ॥१६॥सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ ।गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने ॥१७॥सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः ।रथं देवमयं कृत्वा देवदेवो महेश्वरः ॥१८॥संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।बद्धा परिकरं गाढं जटाजूटं नियम्य च ॥१९॥सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् ।रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर ॥२०॥धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् ।स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः ॥२१॥निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः ।ध्यात्वा तं परमं मन्त्रमात्मानं च निरुध्य सः ॥२२॥मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया ।यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु ॥२३॥ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च ।त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत् ॥२४॥ततो लोका भयत्रस्तास्त्रिपुरे भरतोत्तम ।सर्वासुरविनाशाय कालरूपा भयावहाः ॥२५॥अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास्तदा ।निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु ॥२६॥निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव ।देवायतनगा देवा रटन्ति प्रहसन्ति च ।स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम् ॥२७॥रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे ।पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम् ॥२८॥पश्यन्ति यानमारूढं रासभैश्च नृपोत्तम ।संवर्तको महावायुर्युगान्तप्रतिमो महान् ॥२९॥गृहानुन्मूलयामास वृक्षजातीननेकशः ।भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः ॥३०॥रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु ।अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः ॥३१॥ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह ।कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः ॥३२॥अवादितानि वाद्यन्ते वादित्राणि सहस्रशः ।ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च ॥३३॥ज्वलति पादपास्तत्र पर्णानि च सभं ततः ।सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम् ॥३४॥उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः ।तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः ॥३५॥वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः ।दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः ॥३६॥सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते ।गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते ॥३७॥हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः ।प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम् ॥३८॥पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः ।पावको धूमसंपृक्तो दह्यमानः समन्ततः ॥३९॥नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति ।देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च ॥४०॥प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः ।ददाह लोकान्सर्वत्र हरकोपप्रकोपितः ॥४१॥दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् ।सपुरं सगृहद्वारं सवाहनवनं नृप ॥४२॥केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे ।अपरा नृत्यगीतेषु संसक्ता वारयोषितः ॥४३॥अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः ।दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः ॥४४॥अथान्ये दानवास्तत्र दह्यन्तेऽग्निविमोहिताः ।न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः ।हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः ॥४५॥दह्यन्ते विविधास्तत्र वाप्यः कूपाश्च भारत ।दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ।अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः ॥४६॥गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः ।दृश्यन्तेऽनलसंदग्धा विशीर्णा धरणीतले ॥४७॥नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः ।निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् ।काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम ॥४८॥क्रीडित्वा च सुविस्तीर्णशयनस्था वराङ्गना ।काचित्सुप्ता विशालाक्षी हारावलिविभूषिता ।धूमेनाकुलिता दीना न्यपतद्धव्यवाहने ॥४९॥काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा ।पुत्रमालिङ्गते गाढं दह्यते त्रिपुरेऽग्निना ॥५०॥काचित्कनकवर्णाभा इन्द्रनीलविभूषिता ।भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि ॥५१॥काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि ।अग्निज्वालाहता गाढं कंठमालिङ्गते नृप ॥५२॥मेधवर्णा परा नारी चलत्कनकमेखला ।श्वेतवस्त्रोत्तरीया तु पपात धरणीतले ॥५३॥काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता ।शिरसा प्राञ्जलिर्भूत्वा विज्ञापयति पावकम् ॥५४॥कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत ।ज्वलज्ज्वलनसङ्काशैर्हेमभाण्डैस्त्रसंहित च ॥५५॥काचित्प्रभूतदुःखार्ता विललाप वराङ्गना ।भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा ॥५६॥आलिङ्ग्य गाढं सहसा पतिता तस्य मूर्धनि ।काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि ॥५७॥भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा ।मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम् ॥५८॥वेपते पतिता भूमौ खेदिता वडवा यथा ।इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना ॥५९॥नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता ।कुम्भिलस्य गृहं दग्धं पतितं धरणीतले ॥६०॥कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च ।विरूपनयनस्यापि विरूपाक्षस्य चैव हि ॥६१॥शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः ।दण्डपाणिर्विपाणिश्च सिंहवक्त्रस्तथानघ ॥६२॥दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस्तथैव च ।बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ ॥६३॥एवमन्येऽपि ये केचिद्दानवा बलदर्पिताः ।तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप ।दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे ॥६४॥करुणाक्षरवादिन्यो निराधारा गताः शिवम् ।यदि वैरं सुरारेश्च पुरुषोपरिपावक ॥६५॥स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः ।अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति ॥६६॥किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः ।किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः ॥६७॥न कारुण्यं त्वया किंचिद्दाक्षिण्यं च स्त्रियं प्रति ।दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम् ॥६८॥म्लेच्छानामपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः ।एवं विलपमानानां स्त्रीणां तत्रैव भारत ॥६९॥ज्वालाकलापबहुलः प्रज्वलत्येव पावकः ।एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह ॥७०॥अवज्ञाय विनष्टोऽहं पापात्मा हरमञ्जसा ।मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम् ॥७१॥गोब्राह्मणा हता नित्यमिह लोके परत्र च ।नाशितान्यन्नपानानि मठारामाश्रमास्तथा ॥७२॥ऋषीणामाश्रमाश्चैव देवारामा गणालयाः ।तेन पापेन मे ध्वंसस्तपसश्च बलस्य च ॥७३॥किं धनेन करिष्यामि राज्येणान्तःपुरेण च ॥७४॥वरं शङ्करपादौ च शरणं यामि मूढधीः ।न माता न पिता चैव न बन्धुर्नापरो जनः ॥७५॥मुक्त्वा चैव महेशानं परमार्तिहरं परम् ।आत्मना च कृतं पापमात्मनैव तु भुज्यते ॥७६॥अहं पुनः समस्तैश्च दह्यामि सह साधुभिः ।एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि ॥७७॥निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः ।स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर्मुहुः ॥७८॥हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ ।त्वत्कोपानलनिर्दग्धो यदि वध्योऽस्मि शङ्कर ॥७९॥त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु ।अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो ॥८०॥प्राणादिष्टतमं देव तस्माद्रक्षितुमर्हसि ।यदि तेऽहमनुग्राह्यो वध्यो वा सुरसत्तम ॥८१॥प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे ।पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च ।स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे ॥८२॥एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः ।स्तोत्रेण देवदेवेशं छन्दयामास भारत ॥८३॥बाण उवाच -शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः ।कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः ॥८४॥जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार ।जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र ॥८५॥जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप ।जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग ॥८६॥जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त ।जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार ॥८७॥जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र ।जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल ॥८८॥जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन ।जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण ॥८९॥जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय ।जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व ॥९०॥जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार ।जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख ॥९१॥अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः ।प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर ॥९२॥अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् ।अतिप्रमाथि च तदा तपो महत्सुदारुणम् ॥९३॥न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः ।सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥९४॥यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् ।तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः ॥९५॥निर्धनस्यैव चरतो न भयं विद्यते क्वचित् ।धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥९६॥लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः ।श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥९७॥त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः ।इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते ॥९८॥त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः ।त्वं दीक्षा यजमानश्च आकाशं सोम एव च ॥९९॥त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च ।त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा ॥१००॥एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः ।क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनमब्रवीत् ॥१०१॥ईश्वर उवाच -न भेतव्यं न भेतव्यमद्यप्रभृति दानव ।सौवर्णे भवने तिष्ठ मम पार्श्वेऽथवा पुनः ॥१०२॥पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया ।अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु ॥१०३॥मार्कण्डेय उवाच -भूयस्तस्य वरो दत्तो देवदेवेन भारत ।स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः ॥१०४॥अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् ।ततो निवारयामास रुद्रः सप्तशिखं तदा ॥१०५॥तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना ।ज्वालामालाकुलं चान्यत्पतितं धरणीतले ॥१०६॥अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः ।हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः ॥१०७॥दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः ।एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम् ॥१०८॥द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके ।प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम् ॥१०९॥दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे ।रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः ॥११०॥हाहाकारपराणां तु ऋषीणां रक्षणाय च ।स्वयं मूर्तिर्महेशानुमावृषभसंयुतः ॥१११॥मनसापि स्मरेद्यस्तु भक्त्या ह्यमरकण्टकम् ।चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः ॥११२॥अतिपुण्यो गिरिश्रेष्ठो यस्माद्भरतसत्तम ।अस्मान्नित्यं भवेद्राजन्सर्वपापक्षयंकरः ॥११३॥नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ।नानागुल्मलताकीर्णो नानावल्लीभिरावृतः ॥११४॥सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः ।श्वापदानां च घोषेण नित्यं प्रमुदितोऽभवत् ॥११५॥ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः ।सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते ॥११६॥पतनं कुरुते योऽस्मिन्पर्वतेऽमरकण्टके ।क्रीडते क्रमशो राजन्भुवनानि चतुर्दश ॥११७॥ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च ।नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च ॥११८॥ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् ।उमारुद्रं महाभाग ऐश्वरं तदनन्तरम् ॥११९॥परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् ।तस्मिन्याति लयं धीरो विधिना नात्र संशयः ॥१२०॥युधिष्ठिर उवाच -कोऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम ।एतन्मे सर्वमाचक्ष्व संशयोऽस्ति महामुने ॥१२१॥श्रीमार्कण्डेय उवाच -शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन ।यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम् ॥१२२॥कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु ।शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप ॥१२३॥त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् ।दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत् ॥१२४॥लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् ।रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत् ॥१२५॥अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् ।स्वर्गलोकमनुप्राप्य क्रीडते त्रिदशैः सह ॥१२६॥त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस्तथैव च ।मुक्त्वा मनोरमान्भोगांस्तदा गच्छेन्महीतलम् ॥१२७॥पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः ।व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥१२८॥ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता ॥१२९॥निर्वाप्य तद्बाणपुरं रेवया सह संगता ।तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः ॥१३०॥तिलसंमिश्रतोयेन तर्पयेत्पितृदेवताः ।पिण्डदानेन च पितॄन् पौण्डरीकफलं लभेत् ॥१३१॥अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥१३२॥अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः ।तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान् ॥१३३॥समन्ताद्योजनं तीर्थं पुण्यं ह्यमरकण्टकम् ।रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम् ॥१३४॥तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् ।प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥१३५॥वाचिकं मानसं चैव कायिकं त्रिविधं च यत् ।नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥१३६॥अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप ।तपस्तप्त्वा पुरा तत्र शक्रेण स्थापितं किल ॥१३७॥कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् ।ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम् ॥१३८॥अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ।कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम् ॥१३९॥एतानि दक्षिणे तीरे रेवाया भरतर्षभ ।संसेवनस्नानदानैः पापसङ्घहराणि च ॥१४०॥भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः ।तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम् ॥१४१॥एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे ।तावभ्यर्च्य तथा नत्वा सम्यग्यात्राफलं भवेत् ।अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ ॥१४२॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP