संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १९८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १९८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९८ Translation - भाषांतर मार्कण्डेय उवाच -ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् ।शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम् ॥१॥पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः ।शूलपाणिर्महादेवः सर्वदेवतपूजितः ॥२॥स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः ।दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः ॥३॥दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः ।यदन्यद्दुष्कृतं कर्म नश्यते शङ्करोऽब्रवीत् ॥४॥युधिष्ठिर उवाच -कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः ।प्रथितो नर्मदातीरे एतद्विस्तरतो वद ॥५॥मार्कण्डेय उवाच -बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥६॥अशोकाश्रममध्यस्थो वृक्षमूले महातपाः ।ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः ॥७॥तस्य कालेन महता तीव्रे तपसि वर्ततः ।तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥८॥अनुसर्प्यमाणा बहुभिः पुरुषैर्भरतर्षभ ।ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन ॥९॥निधाय च तदा लीनास्तत्रैवाश्रममण्डले ।तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥१०॥आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम् ॥११॥वद केन पथा याता दस्यवो द्विजसत्तम ।तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम् ॥१२॥तथा तु वचनं तेषां ब्रुवतां स तपोधनः ।न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥१३॥ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् ।संयम्यैनं ततो राज्ञे सर्वान् दस्यून्न्यवेदयन् ॥१४॥तं राजा सहितैश्चोरैरन्वशाद्वध्यतामिति ।सम्बध्य तं च तैर्राजञ्छूले प्रोतो महातपाः ॥१५॥ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।प्रतिजग्मुर्महीपाल धनान्यादाय तान्यथ ॥१६॥शूलस्थः स तु धर्मात्मा कालेन महता तदा ।ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम् ॥१७॥बहुकालं महेशानं मनसाध्याय संस्थितः ।निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥१८॥धारयामास विप्राणामृषभः स हृदा हरिम् ।शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा ॥१९॥सन्तापं परमं जग्मुः श्रुत्वैतन्मुनयोऽखिलाः ।ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत ॥२०॥दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् ।श्रोतुमिच्छाम ते ब्रह्मन् किं पापं कृतवानसि ॥२१॥श्रीमार्कण्डेय उवाच -ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।दोषतः किं गमिष्यामि न हि मेऽन्यो पराध्यति ॥२२॥एवमुक्त्वा ततः सर्वानाचचक्षे ततो मुनिः ।मुनयश्च ततो राज्ञे द्वितीयेऽह्नि न्यवेदयन् ॥२३॥राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः ।प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥२४॥राजोवाच -यन्मयाऽपकृतं तात तवाज्ञानवशाद्बहु ।प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥२५॥एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।कृतप्रसादं राजा तं ततः समवतारयत् ॥२६॥अवतीर्यमाणस्तु मुनिः शूले मांसत्वमागते ।अतिसंपीडितो विप्रः शङ्करं मनसागमत् ॥२७॥संध्यातः शङ्करस्तेन बहुकालोपवासतः ।प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत् ॥२८॥शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः ।ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण ॥२९॥अदेयमपि दास्यामि तुष्टोऽस्म्यद्योमया सह ।किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी ॥३०॥स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जन्तवः ।शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु ॥३१॥बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते ।केषां दरिद्रभावेन केषां धनविपत्तिजम् ॥३२॥सन्तत्यभावजं केषां केषांचित्तद्विपर्ययः ।तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन्नृणाम् ॥३३॥केषांचित्पुत्रमरणे वियोगात्प्रियमित्रयोः ।राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम् ॥३४॥तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते ।जराश्च विविधाः केषां दृश्यन्ते व्याधयस्तथा ॥३५॥दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः ।कष्टाः कष्टतरावस्था गताः केचिदनागसः ॥३६॥पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः ।दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः ॥३७॥ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः ।दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम् ॥३८॥न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते ।इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः ॥३९॥हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये ।स्मरन्ति मां महेशानमथवा पुष्करेक्षणम् ॥४०॥दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति ॥४१॥दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद्देवमीशम् ।तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा ॥४२॥यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च ।गौरीसहायस्तेन इहागतोऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र ॥४३॥माण्डव्य उवाच -तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर ।तदा मे शूलसंस्थस्य संशयं परमं वद ॥४४॥न रुजा मम कापि स्याच्छूलसंप्रोतितेऽगके ।अमृतस्रावि तच्छूलं प्रभावात्कस्य शंस मे ॥४५॥श्रीशूलपाणिरुवाच -शूलस्थेन त्वया विप्र मनसा चिन्तितोऽस्मि यत् ।अनयानां निहन्ताहं दुःखानां विनिबर्हणः ॥४६॥ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः ।शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता ।जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत् ॥४७॥माण्डव्य उवाच -पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह ।प्रसादप्रवणो मह्यमिदानीं चानया सह ॥४८॥यस्याः संस्मरणादेव दौर्भाग्यं प्रलयं व्रजेत् ।न दौर्भाग्यात्परं लोके दुःखाद्दुःखतरं किल ॥४९॥किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम ।त्रैलोक्यं दहतस्तुभ्यं सौभाग्यमेकतां गतम् ॥५०॥विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् ।पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना ॥५१॥तस्मात्सतीति संजज्ञ इयमिन्दीवरेक्षणा ।यजतस्तस्य देवेश तव मानावखण्डनात् ॥५२॥जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् ।आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता ॥५३॥मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा ।अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर ॥५४॥यदि तुष्टोऽसि देवेश ह्युमा मे वरदा यदि ।उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः ॥५५॥अवतारो यत्र तत्र संस्थितिं वै ततः कुरु ॥५६॥श्रीमार्कण्डेय उवाच -तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा ।निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ ॥५७॥प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते ।वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता ॥५८॥विलोभयन्ती च जगद्भाति पूरयती दिशः ।दृष्ट्वा कृताञ्जलिपुटः स्तुतिं चक्रे द्विजोत्तमः ॥५९॥माण्डव्य उवाच -त्वमस्य जगतो माता जगत्सौभाग्यदेवता ।न त्वया रहितं किंचिद्ब्रह्माण्डेऽस्ति वरानने ॥६०॥प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुमर्हसि ।ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि ।प्रसादप्रवणा भूत्वा वद तानि महेश्वरि ॥६१॥श्रीदेव्युवाच -सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।सर्वलोकेषु यत्किंचिद्विहितं न मया विना ॥६२॥तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥६३॥वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।प्रयागे ललिता देवी कामुका गन्धमादने ॥६४॥मानसे कुमुदा नाम विश्वकाया तथाऽपरे ।गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥६५॥मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे ।कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते ॥६६॥एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः ।पुष्करे पुरुहूता च केदारे मार्गदायिनी ॥६७॥नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका ।स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका ॥६८॥श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च ।जया वराहशैले तु कमला कमलालये ॥६९॥रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा ।महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥७०॥शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया ।मायापुर्यां कुमारी तु संताने ललिता तथा ॥७१॥उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।गयायां विमला नाम मङ्गला पुरुषोत्तमे ॥७२॥विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥७३॥विपुले विपुला नाम कल्याणी मलयाचले ।कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने ॥७४॥गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।शिवचण्डे सभानन्दा नन्दिनी देविकातटे ॥७५॥रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।देवकी मथुरायां तु पाताले परमेश्वरी ॥७६॥चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ।सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका ॥७७॥रमणा रामतीर्थे तु यमुनायां मृगावती ।करवीरे महालक्ष्मी रूपादेवी विनायके ॥७८॥आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ।अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे ॥७९॥माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे ।छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके ॥८०॥सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।वेदमाता सरस्वत्यां पारा पारातटे मुने ॥८१॥महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।सिंहिका कृतशौचे तु कर्तिके चैव शांकरी ॥८२॥उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।मता सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे ॥८३॥जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥८४॥भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा ।कपालमोचने शुद्धिर्माता कायावरोहणे ॥८५॥शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥८६॥वेणायाममृता नाम बदर्यामुर्वशी तथा ।ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥८७॥मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ।अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये ॥८८॥गायत्री वेदवदने पार्वती शिवसन्निधौ ।देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥८९॥सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ।अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥९०॥चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥९१॥एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥९२॥इदमेव परं विप्र सर्वेषां तु भविष्यति ।पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ ॥९३॥स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् ।स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥९४॥न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम ।नित्यं मद्दर्शने नारी नियताया भविष्यति ॥९५॥पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् ।मदालये तु या नारी तुलापुरुषसंज्ञितम् ॥९६॥सम्पूज्य मण्डयेद्देवांल्लोकपालांश्च साग्निकान् ।सपत्नीकान्द्विजान्पूज्य वासोभिर्भूषणैस्तथा ॥९७॥भूतेभ्यस्तु बलिं दद्यादृत्विग्भिः सह देशिकः ।ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥९८॥शुचिरक्ताम्बरो वा स्याद्गृहीत्वा कुसुमाञ्जलिम् ।नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥९९॥साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ।त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥१००॥कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् ।ततोऽपरे तुलाभागेन्यसेयुर्द्विजपुंगवाः ॥१०१॥द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः ।मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥१०२॥सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् ।तृणराजेन्दुलवणं कुङ्कुमं तु तथाष्टमम् ॥१०३॥एषामेकतमं कुर्याद्यथा वित्तानुसारतः ।साम्यादभ्यधिकं यावत्काञ्चनादि भवेद्द्विज ॥१०४॥तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् ।नमो नमस्ते ललिते तुलापुरुषसंज्ञिते ॥१०५॥त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् ।ततोऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत् ॥१०६॥ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।तेभ्यो लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु ॥१०७॥सपत्नीकं गुरुं रक्तवाससी परिधापयेत् ।अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥१०८॥शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति ।अनेन विधिना या तु कुर्यान्नारी ममालये ॥१०९॥मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला ।सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च ॥११०॥श्रीमार्कण्डेय उवाच -एवं निशम्य वचनं गौर्या द्विजवरोत्तमः ।नमस्कृत्य जगामाशु धर्मराज निवेशनम् ॥१११॥तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च ।तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥११२॥ब्राह्मणानन्नवासोभिः पिण्डैः पितृपितामहान् ।भक्तोपहारैर्देवेशमुमया सह शङ्करं ॥११३॥धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः ।सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम् ॥११४॥तस्मिंस्तीर्थे तु यः कश्चिदभियुक्तो नरेश्वर ।अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः ॥११५॥कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः ।उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः ।प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति ॥११६॥त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रोऽपरः ।क्रीडते देवकन्याभिर्यावच्चन्द्रार्कतारकम् ॥११७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP