संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १०३ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १०३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १०३ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् ।यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥१॥एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः ।प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥२॥ईश्वर उवाच -शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया ।रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् ।भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥३॥पार्वत्युवाच -कथयस्व महादेव तीर्थं परमशोभनम् ।भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥४॥ईश्वर उवाच -अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः ।अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥५॥सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति ।अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥६॥पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ।एवं याति ततः काले न पुत्रा न च पुत्रिका ॥७॥अपराह्णे महादेवि सुखासीनौ तु सुन्दरि ।वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥८॥अत्रिरुवाच -सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि ।विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥९॥पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे ।न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥१०॥रतिपुत्रफला नारी पठ्यते वेदवादिभिः ।पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥११॥यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु ।पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥१२॥पतन्तं रक्षयेद्देवि महापातकिनं यदि ।महाघोरे गता वापि दुष्टकर्मपितामहाः ॥१३॥तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि ।पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः ॥१४॥अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् ।नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥१५॥अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा ।शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥१६॥अनसूयोवाच -यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् ।तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥१७॥येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः ।तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः ॥१८॥अत्रिरुवाच -तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् ।व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥१९॥क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते ।तेन शोचामि चात्मानं रहस्यं कथितं मया ॥२०॥अनसूयोवाच -भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी ।त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥२१॥जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् ।देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥२२॥ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने ।वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम् ॥२३॥अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् ।पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥२४॥अत्रिरुवाच -साधु साधु महाप्राज्ञे मम संतोषकारिणि ।आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥२५॥देवतानां मनुष्याणां पित्ःणामनृणो भवे ।न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥२६॥तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् ।सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥२७॥तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः ।महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥२८॥तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया ।एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत् ॥२९॥त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् ।हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥३०॥नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् ।शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥३१॥यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥३२॥ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् ।सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥३३॥ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि ।मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥३४॥नर्मदायाः समीपे तु तावुभौ योजनद्वये ।न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥३५॥ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे ।नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥३६॥तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा ।ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः ॥३७॥वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च ।हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥३८॥प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् ।देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि ॥३९॥यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च ।एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥४०॥सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये ।पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥४१॥अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः ।उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥४२॥अद्य मे सफलं जन्म अद्य मे सफलं तपः ।दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥४३॥प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् ।कन्दमूलफलं शाकं नीवारानपि पावनान् ।प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥४४॥विप्रा ऊचुः ।तपसा तु विचित्रेण तपःसत्येन सुव्रते ।तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥४५॥अस्माकं कौतुकं जातं तापसेन व्रतेन यत् ।स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥४६॥अनसूयोवाच -तपसा सिध्यते स्वर्गस्तपसा परमा गतिः ।तपसा चार्थकामौ च तपसा गुणवान्सुतः ।तप एव च मे विप्राः सर्वकामफलप्रदम् ॥४७॥विप्रा ऊचुः ।तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥४८॥किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥४९॥अनसूयोवाच -यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः ।गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये ॥५०॥तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥५१॥चतुर्भुजो महादेवि शङ्खचक्रगदाधरः ।अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥५२॥गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः ।प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥५३॥पीतवासा महादेवि चतुर्वदनपङ्कजः ।हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः ॥५४॥आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥५५॥वृषभं तु समारूढो दशबाहुसमन्वितः ।भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥५६॥जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः ।एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥५७॥अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् ।वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥५८॥अनसूयोवाच -किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः ।एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥५९॥ब्रह्मोवाच -प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः ।मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥६०॥अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ ।एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥६१॥विष्णुरुवाच -हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् ।पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥६२॥रुद्र उवाच -ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ।कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥६३॥एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते ।त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः ॥६४॥तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः ।वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥६५॥अनसूयोवाच -धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा ।ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥६६॥यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि ।अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥६७॥रुद्र उवाच -एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ।प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥६८॥यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥६९॥एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति ।रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान् ॥७०॥यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि ।प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥७१॥रजतं च तथा गावो भूमिदानमथापि वा ।सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत् ॥७२॥ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे ।यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥७३॥अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् ।एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥७४॥विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान् ॥७५॥एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले ।महापातकिनो वापि ते यान्ति परमां गतिम् ॥७६॥अनसूयोवाच -यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः ।मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥७७॥विष्णुरुवाच -पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ।शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् ।रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥७८॥अनसूयोवाच -ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे ।नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥७९॥विष्णुरुवाच -पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥८०॥स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः ।एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥८१॥अयोनिजा भविष्यामस्तव पुत्रा वरानने ।योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥८२॥सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः ।एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥८३॥त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे ।वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥८४॥क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा ।कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥८५॥शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः ।हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥८६॥अत्रिरुवाच -साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते ।अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥८७॥अनसूयोवाच -त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् ।तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः ॥८८॥एवमुक्ता तु सा देवी हर्षेण महता युता ।आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥८९॥ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् ।नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥९०॥कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् ।तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥९१॥हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः ।आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः ॥९२॥चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज ।इष्टापूर्ते च संपाति कलाषोडशकेन तु ॥९३॥प्रतिपच्च द्वितीया च तृतीया च महेश्वरि ।चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥९४॥चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥९५॥सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् ।वनस्पतिगते सोमे धनवांश्च वरानने ॥९६॥भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् ।वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् ।तेन पापेन देवेशि नरा यान्ति यमालयम् ॥९७॥वनस्पतिगते सोमे मैथुनं यो निषेवते ।ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥९८॥वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् ।गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥९९॥वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति ।भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥१००॥अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् ।अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥१०१॥हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु ।सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥१०२॥एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ।संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥१०३॥द्वितीयस्तु महादेवि दुर्वासा नाम नामतः ।सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥१०४॥ऋषिमध्यगतो देवि तपस्तपति दुष्करम् ।सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥१०५॥इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने ।द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥१०६॥दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः ।जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥१०७॥एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि ।वरदानेन ते देवा ह्यवतीर्णा महीतले ॥१०८॥पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे ।अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥१०९॥श्रीमार्कण्डेय उवाच -आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् ।भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥११०॥युधिष्ठिर उवाच -इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ ।सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥१११॥श्रीमार्कण्डेय उवाच -सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः ।कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥११२॥वसते तत्र गोविन्दः संजातो विपुले कुले ।पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥११३॥शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् ।प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः ॥११४॥रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः ।न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः ॥११५॥आगतस्त्वरितो गेहे पिपासार्तो नराधिप ।शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥११६॥भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी ।दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम् ॥११७॥अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् ।शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥११८॥ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् ।पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥११९॥यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः ।तदा सा दीनवदना रुरोद च मुमोह च ॥१२०॥तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः ।किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥१२१॥द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप ।विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥१२२॥कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् ।संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥१२३॥त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् ।दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम् ॥१२४॥मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक ।एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥१२५॥इमां तु विकलां दीनां विहीनां सुतबान्धवैः ।रुदन्तीं पतितां पाहि मातरं धरणीतले ॥१२६॥पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥१२७॥अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः ।मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥१२८॥मृषायं वदते लोकश्चन्दनं किल शीतलम् ।पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥१२९॥श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् ।पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥१३०॥दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥१३१॥वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ।रुदितं बालकस्यैव तस्मादाह्लादकारकम् ॥१३२॥मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ।पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥१३३॥मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा ।पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥१३४॥देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि ।पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक ॥१३५॥ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप ।इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥१३६॥स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव ।चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम् ॥१३७॥रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् ।कार्तवीर्यो जितो येन रामेणामिततेजसा ॥१३८॥स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः ।एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥१३९॥रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते ।हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥१४०॥एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते ।वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥१४१॥मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते ।ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥१४२॥पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥१४३॥एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः ।जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥१४४॥ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा ।समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥१४५॥एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर ।भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः ॥१४६॥यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥१४७॥दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥१४८॥पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् ।अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥१४९॥विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ।यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥१५०॥ततः स त्वरितो विप्रो जगाम महिषीः प्रति ।न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम् ॥१५१॥धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः ।ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥१५२॥तज्जलं पीतमात्रं तु त्वरया चातितर्षितः ।अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥१५३॥आजगाम ततः पश्चाद्भवनं दिवसक्षये ।भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥१५४॥निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः ।पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥१५५॥कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् ।पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥१५६॥भार्योवाच -अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते ।गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥१५७॥मया तत्पातकं घोरं रहस्यं न प्रकाशितम् ।तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥१५८॥न सुखं तव गात्रस्य पश्यामि न हि चात्मनः ।निद्रा मम शमं याता रतिश्चैव त्वया सह ॥१५९॥श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥१६०॥कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् ।इह लोके परे चैव पापस्याप्येवमेव च ॥१६१॥एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा ।कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥१६२॥पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः ।क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥१६३॥एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः ।न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥१६४॥तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् ।यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम् ॥१६५॥एवमुक्तस्तु विप्रोऽसौ कथयामास भारत ।भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥१६६॥अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः ।नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥१६७॥नान्यत्तीर्थं विजानामि सरितं सर एव वा ।सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥१६८॥एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा ।सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥१६९॥स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् ।स्नापयामास देवेशं शङ्करं चोमया सह ॥१७०॥पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः ।गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥१७१॥पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् ।रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥१७२॥ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः ।गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥१७३॥गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् ।मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥१७४॥एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् ।पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥१७५॥क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् ।यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥१७६॥सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः ।सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥१७७॥ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ।कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥१७८॥पक्षिराजसमारूढं त्रैलोक्यवरदायकम् ।पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥१७९॥सर्गप्रदं समस्तस्य कमलाकरशोभितम् ।यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥१८०॥ततः प्रभाते विमले ह्यष्टम्यां च नराधिप ।ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान् ॥१८१॥सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् ।वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥१८२॥श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन ।प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥१८३॥प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः ।दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥१८४॥हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ ।सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥१८५॥अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् ।रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥१८६॥कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् ।स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥१८७॥प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः ।संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥१८८॥पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप ।स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥१८९॥चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् ।एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥१९०॥दैवज्ञेनैव चैकेन अथवा सामगेन वा ।पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥१९१॥गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् ।आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा ॥१९२॥गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् ।सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥१९३॥कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः ।अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥१९४॥तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा ।प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥१९५॥मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे ।फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥१९६॥उपानहौ च यानं च स भवेद्दुःखवर्जितः ।भास्करे क्रीडते लोके यावदाभूतसम्प्लवम् ॥१९७॥दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् ।यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥१९८॥एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् ।समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥१९९॥भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् ।प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥२००॥अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् ।पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥२०१॥जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते ।काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा ॥२०२॥संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् ।वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥२०३॥एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः ।किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥२०४॥मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः ।भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥२०५॥एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप ।सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥२०६॥एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः ।विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम् ॥२०७॥एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥२०८॥तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः ।शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥२०९॥एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप ।भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥२१०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP