संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ८४ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ८४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८४ Translation - भाषांतर श्रीमार्कण्डेय उवाच -अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम् ॥१॥ईश्वर उवाच -पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः ।चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम् ॥२॥हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् ।महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक ॥३॥ततः सीतां समासाद्य समं वानरपुंगवैः ।रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः ।तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः ॥४॥तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् ।कृतकार्योऽथ हनुमान्कैलासमगात्पुरा ॥५॥ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् ।न च संगमयामास रुद्रेणाघौघहारिणा ॥६॥तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् ।येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम् ॥७॥नन्द्युवाच -त्वयावतरणं चक्रे कपीन्द्रामरहेतुना ।तथापि हि कृतं पापमुपभोगेन शाम्यति ॥८॥हनुमानुवाच -किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा ।राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः ॥९॥ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् ।उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः ॥१०॥ईश्वर उवाच -गङ्गा गया कपे रेवा यमुना च सरस्वती ।सर्वपापहरा नद्यस्तासु स्नानं समाचर ॥११॥नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर ॥१२॥तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया ।उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे ॥१३॥जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् ।तस्य वै तप्यमानस्य रक्षोवधकृतं तमः ॥१४॥विलीनं पार्थ कालेन कियतेशप्रसादतः ।ततो देवैः समं देवस्तत्तीर्थमगमद्धरः ॥१५॥कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् ।अद्यप्रभृति ते तीर्थं भविष्यति न संशयः ॥१६॥कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः ।हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा ॥१७॥तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् ।सर्वपापानि नश्यन्ति हरस्य वचनं यथा ॥१८॥तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः ।यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत् ॥१९॥हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् ।चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत् ॥२०॥श्रीराम उवाच -कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः ।ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम् ॥२१॥तत्रैव दक्षिणे कूले रेवायाः पापहारिणि ।चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः ॥२२॥ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् ।तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया ॥२३॥स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ ।प्रभावात्सत्यतपसो रेवातीरे महामती ।निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ ॥२४॥ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह ।आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे ॥२५॥मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि ।एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत् ॥२६॥कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः ।रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम् ॥२७॥ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये ।चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः ॥२८॥यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् ।तदेव देवयात्रेयमिति देवा जगुर्मुदा ॥२९॥यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् ।तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्नृणाम् ॥३०॥करिष्यन्त्यत्र ये श्राद्धं पितॄणां नर्मदातटे ।कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख ॥३१॥यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् ।तावद्वर्षप्रमाणेन पितॄणामक्षया गतिः ॥३२॥पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु ।लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात् ॥३३॥अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।सरोगो मुच्यते रोगान्नात्र कार्या विचारणा ॥३४॥सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् ।तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः ॥३५॥ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् ।नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम् ॥३६॥यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् ।चतुर्विंशतिमे वर्षे तथेयं देवभाषितम् ॥३७॥यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः ।तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके ॥३८॥महादानानि देयानि तत्र लौकैर्विचक्षणैः ।गोदानमत्र शंसन्ति सौवर्णं राजतं तथा ॥३९॥यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः ।स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति ॥४०॥तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर ।एकोत्तरं कुलशतमुद्धरेच्छिवशासनात् ॥४१॥यानि कानि च तीर्थानि चासमुद्रसरांसि च ।शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम् ॥४२॥एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः ।स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम् ॥४३॥तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः ।अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात् ॥४४॥सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः ।अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम् ॥४५॥पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् ।नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम् ॥४६॥तावत्पापानि देहेषु महापातकजान्यपि ।यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम् ॥४७॥ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम् ॥४८॥तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् ।तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम् ॥४९॥मार्कण्डेय उवाच -श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण ।सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श ॥५०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP