संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २२७ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २२७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२७ Translation - भाषांतर मार्कण्डेय उवाच -एतानि तव संक्षेपात्प्राधान्यात्कथितानि च ।न शक्तो विस्तराद्वक्तुं संख्यां तीर्थेषु पाण्डव ॥१॥एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥२॥मनसा संस्मरेद्यस्तु नर्मदां सततं नृप ।चान्द्रायणशतस्याशु लभते फलमुत्तमम् ॥३॥अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः ।पतन्ति नरके घोरे प्राहैवं परमेश्वरः ॥४॥नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥५॥इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा ।प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर ॥६॥जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती ।इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः ॥७॥यथा हि पुरुषे देवस्त्रैमूर्तत्वमुपाश्रितः ।ब्रह्मविष्णुमहेशाख्यं न भेदस्तत्र वै यथा ।तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः ॥८॥कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत ।तथा सहस्रशो रेवातीरद्वयगतानि तु ॥९॥वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च ।कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः ॥१०॥स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् ।सप्तजन्मकृतं नश्येत्पापं रेवावगाहनात् ॥११॥देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः ।वेदा अधीताश्चत्वारो येन रेवावगाहिता ॥१२॥प्राधान्याच्चापि संक्षेपात्तीर्थान्युक्तानि ते मया ।न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया ॥१३॥युधिष्ठिर उवाच -विधानं च यमांश्चैव नियमांश्च वदस्व मे ।प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे ॥१४॥श्रीमार्कण्डेय उवाच -साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् ।शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते ॥१५॥अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् ।अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव ॥१६॥दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः ।परोपकरणं कायादसारात्सारमुद्धरेत् ॥१७॥अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥१८॥ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥१९॥मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥२०॥अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२१॥यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२२॥सन्तीह विविधोपाया नृणां देहविशोधनाः ।तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम् ॥२३॥कृच्छ्रचान्द्रायणाद्यैर्वा द्वितीयं तीर्थसेवया ।यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप ।तदा देवाश्च पितरस्तं व्रजन्त्यनु खेचराः ॥२४॥परमा मोदपूर्णास्ते प्रयान्त्यस्यानुयायिनः ।कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम् ॥२५॥इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् ।व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि ॥२६॥एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् ।वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम् ॥२७॥वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम ।साधुवेषं समास्थाय विनयेन विभूषितः ॥२८॥दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते ।यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥२९॥विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ॥३०॥आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥३१॥वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम् ॥३२॥विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः ।प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः ॥३३॥तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः ।एकाशनं ब्रह्मचर्यमक्षारलवणाशनम् ॥३४॥स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् ।वर्जयेत्पतितालापं बहुभाषणमेव च ॥३५॥परीवादं परान्नं च नीचसङ्गं विवर्जयेत् ।व्रजेच्च निरुपानत्को वसानो वाससी शुचिः ॥३६॥संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् ।तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम् ॥३७॥दुष्कर्मतो विमुक्तः स्यादनुतापी भवेद्यदि ।वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ ॥३८॥यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि ॥३९॥अर्थवादभवां शङ्कां विहाय भरतर्षभ ।कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम् ॥४०॥कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये ।ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत् ॥४१॥तच्छृणुष्व महाराज नर्मदायां यथोचितम् ।चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः ॥४२॥चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् ।अत ऊर्ध्वं योजनेषु पादकृच्छ्रमुदाहृतः ॥४३॥तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया ।योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः ॥४४॥प्रणवाख्ये महाराज तथा रेवोरिसंगमे ।भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम् ॥४५॥सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम ।द्विगुणं पादहीनं स्यात्करजासंगमे तथा ॥४६॥एरण्डीसङ्गमे तद्वत्कपिलायाश्च संगमे ।केचित्त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे ॥४७॥ओंकारे च महाराज तदपि स्यात्समञ्जसम् ।सङ्गमेषु तथान्यासां नदीनां रेवया सह ॥४८॥प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर ।त्रिगुणं कृच्छ्रमाप्नोति रेवासागरसङ्गमे ॥४९॥कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर ।योजने योजने गत्वा चतुर्विंशतियोजनम् ।तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम ॥५०॥रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् ।दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते ॥५१॥इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् ।रेवायात्राविधानं च गुह्यमेतद्युधिष्ठिर ॥५२॥युधिष्ठिर उवाच -योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम ।यज्ज्ञात्वा निश्चितं मे स्यान्मनःशुद्धेस्तु कारणम् ॥५३॥मार्कण्डेय उवाच -शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् ।तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम् ॥५४॥तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः ।प्रमाणमङ्गुलस्याहुर्वितस्तिर्द्वादशांगुला ॥५५॥वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् ।स एव दण्डो गदितो विशेषज्ञैर्युधिष्ठिर ॥५६॥धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं च योजनम् ।एतद्योजनमानं ते कथितं भरतर्षभ ॥५७॥येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् ।उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम ॥५८॥यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च ।तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते ॥५९॥यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप ।तत्राप्युपोषणात्कृच्छ्रफलं प्राप्नोत्यथाधिकम् ॥६०॥दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः ।तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च ॥६१॥प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः ।तीर्थे मुख्यफलं स्नानाद्द्वितीयं चाप्युपोषणात् ॥६२॥तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः ।चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम् ॥६३॥पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः ।तीरस्थो योजनादर्वाग्दशांशं लभते फलम् ॥६४॥उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा ॥६५॥उपवासेन सहितं महानद्यां हि मज्जनम् ।अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम् ॥६६॥षड्योजनवहा कुल्य नद्योऽल्पा द्वादशैव च ।चतुर्विंशतिगा नद्यो महानद्यस्ततोऽधिकाः ॥६७॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP