संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २१ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१ Translation - भाषांतर युधिष्ठिर उवाच -श्रुतं मे विविधाश्चर्यं त्वत्प्रसादाद्द्विजोत्तम ।भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत ॥१॥कथमेषा नदी पुण्या सर्वनदीषु चोत्तमा ।नर्मदा नाम विख्याता भूयो मे कथयानघ ॥२॥श्रीमार्कण्डेय उवाच -नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥३॥नर्मदायास्तु माहात्म्यं यत्पूर्वेण मया श्रुतम् ।तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥४॥गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥५॥त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥६॥कलिङ्गदेशात्पश्चार्धे पर्वतेऽमरकण्टके ।पुण्या च त्रिषु लोकेषु रमणीया पदे पदे ॥७॥तत्र देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।तपस्तप्त्वा महाराज सिद्धिं परमिकां गताः ॥८॥तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः ।उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥९॥सिद्धिक्षेत्रं परं तात पर्वतो ह्यमरंकटः ।सर्वदेवाश्रितो यस्मादृषिभिः परिसेवितः ॥१०॥सिद्धविद्याधरा भूतगन्धर्वाः स्थानमुत्तमम् ।दृश्यादृश्याश्च राजेन्द्र सेवन्ते सिद्धिकाङ्क्षिणः ॥११॥अहं च परमं स्थानं ततः प्रभृति संश्रितः ।अत्र प्रणवरूपो वै स्थाने तिष्ठत्युमापतिः ॥१२॥श्रीकण्ठः सगणः सर्वभूतसङ्घैर्निषेवितः ।अस्माद्गिरिवराद्भूप वक्ष्ये तीर्थस्य विस्तरम् ॥१३॥यानि सन्तीह तीर्थानि पुण्यानि नृपसत्तम ।यानि यानीह तीर्थानि नर्मदायास्तटद्वये ॥१४॥न तेषां विस्तरं वक्तुं शक्तो ब्रह्मापि भूपते ।योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥१५॥विस्तरेण तु राजेन्द्र अर्धयोजनमायता ।षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥१६॥पर्वतादुदधिं यावदुभे कूले न संशयः ॥१७॥सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।सप्तषष्टिस्तथा कोट्यो वायुस्तीर्थानि चाब्रवीत् ॥१८॥परं कृतयुगे तानि यान्ति प्रत्यक्षतां नृप ।पश्यन्ति मानवाः सर्वे सततं धर्मबुद्धयः ॥१९॥यथायथा कलिर्घोरो वर्तते दारुणो नृप ।तथातथाल्पतां यान्ति हीनसत्त्वा यतो नराः ॥२०॥जालेश्वरादितीर्थानि पर्वतेऽस्मिन्नराधिप ।पितृतृप्तिप्रदान्याहुः स्वर्गमोक्षप्रदानि च ॥२१॥श्रेष्ठं दारुवनं तत्र चरुकासंगमः शुभः ।उत्तरे नर्मदायास्तु चरुकेश्वरमुत्तमम् ॥२२॥दारुकेश्वरतीर्थं च व्यतीपातेश्वरं तथा ।पातालेश्वरतीर्थं च कोटियज्ञं तथैव च ॥२३॥इति चैवोत्तरे कूले रेवाया नृपसत्तम ।अमरेश्वरपार्श्वे च लिङ्गान्यष्टोत्तरं शतम् ॥२४॥वरुणेश्वरमुख्यानि सर्वपापहराणि च ॥२५॥मान्धातृपुरपार्श्वे च सिद्धेश्वरयमेश्वरौ ।ओङ्कारात्पूर्वभागे च केदारं तीर्थमुत्तमम् ॥२६॥तत्समीपे महाराज स्वर्गद्वारमघापहम् ।नाम्ना ब्रह्मेश्वरं पुण्यं सप्तसारस्वतं पुरः ॥२७॥रुद्राष्टकं च सावित्रं सोमतीर्थं तथैव च ।एतानि दक्षिणे तीरे रेवाया भरतर्षभ ॥२८॥अस्मिंस्तु पर्वते तात रुद्राणां कोटयः स्थिताः ।स्नानैस्तुष्टिर्भवेत्तेषां गन्धमाल्यानुलेपनैः ॥२९॥प्रीतास्तेऽपि भवन्त्यत्र रुद्रा राजन्न संशयः ।जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥३०॥दानेन भोगानाप्नोति इत्येवं शङ्करोऽब्रवीत् ।पर्वतात्पश्चिमे देशे स्वयं देवो महेश्वरः ।स्थितः प्रणवरूपोऽसौ जगदादिः सनातनः ॥३१॥तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।पितृकार्यं प्रकुर्वीत विधिदृष्टेन कर्मणा ॥३२॥तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः ।आ सप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव ॥३३॥आत्मना सह भोगांश्च विविधान् लभते सुखी ।षष्टिवर्षसहस्राणि क्रीडते सुरपूजितः ॥३४॥मोदते सुचिरं कालं पितृपूजाफलधितः ।ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ॥३५॥धनवान्दानशीलश्च नीरोगो लोकपूजितः ।पुनः स्मरति तत्तीर्थं गमनं कुरुते पुनः ॥३६॥द्वितीये जन्मनि भवेद्ध्रदस्यानुचरोत्कटः ।तथैव ब्रह्मचर्येण सोपवासो जितेन्द्रियः ॥३७॥सर्वहिंसानिवृत्तस्तु लभते फलमुत्तमम् ।एवं धर्मसमाचारो यस्तु प्राणान्परित्यजेत् ॥३८॥तस्य पुण्यफलं यद्वै तन्निबोध नराधिप ।शतं वर्षसहस्राणि स्वर्गे मोदति पाण्डव ॥३९॥अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।दिव्यगन्धानुलिप्ताङ्गो दिव्यालङ्कारभूषितः ॥४०॥क्रीडते दैवतैः सार्द्धं सिद्धगन्धर्वसंस्तुतः ।ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥४१॥हस्त्यश्वरथयानैश्च धर्मज्ञः शास्त्रतत्परः ।गृहे स्तम्भशताकीर्णे सौवर्णे रजतान्विते ॥४२॥सप्ताष्टभूमिसुद्वारे दासीदाससमाकुले ।मत्तमातङ्गनिःश्वासैर्वाजिहेषितनादितैः ॥४३॥क्षुभ्यते तस्य तद्द्वारमिन्द्रस्य भुवनं यथा ।राजराजेश्वरः श्रीमान्सर्वस्त्रीजनवल्लभः ॥४४॥तस्मिन्गृहे वसित्वा तु क्रीडाभोगसमन्वितः ।जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥४५॥एवं तेषां भवेत्सर्वं ये मृता ह्यमरेश्वरे ।अग्निप्रवेशं यः कुर्याद्भक्त्या ह्यमरकण्टके ॥४६॥स मृतः स्वर्गमाप्नोति यास्यते परमां गतिम् ।स्नानं दानं जपो होमः शुभं वा यदि वाशुभम् ॥४७॥पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत् ।तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्यये ॥४८॥नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ।अनिवृत्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥४९॥पतनं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप ।कन्यास्त्रीणि सहस्राणि पाताले भोगभागिनः ॥५०॥तिष्ठन्ति भवने तस्य प्रेषणे प्रार्थयन्ति च ।दिव्यभोगैः सुसम्पन्नः क्रीडते कालम् ॥५१॥पृथिव्यां ह्यासमुद्रायां तादृशो नैव जायते ।यादृशोऽयं नरश्रेष्ठ पर्वतोऽमरकण्टकः ॥५२॥तत्र तीर्थं तु विज्ञेयं पर्वतस्यानु पश्चिमे ।ह्रदो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥५३॥तत्र पिण्डप्रदानेन सन्ध्योपासनकेन तु ।पितरो द्वादशाब्दानि तर्पितास्तु भवन्ति वै ॥५४॥दक्षिणे नर्मदातीरे कपिला तु महानदी ।सरलार्जुनसंछन्ना खदिरैरुपशोभिता ॥५५॥माधवीसल्लकीभिश्च वल्लीभिश्चाप्यलंकृता ।श्वापदैर्गर्जमानैश्च गोमायुवानरादिभिः ॥५६॥पक्षिजातिविशेषैश्च नित्यं प्रमुदिता नृप ।साग्रं कोटिशतं तत्र ऋषीणामिति शुश्रुम ॥५७॥तपस्तप्त्वा गतं मोक्षं येषां जन्म न चागमः ।येन तत्र तपस्तप्तं कपिलेन महात्मना ॥५८॥तत्र तच्चाभवत्तीर्थं पुण्यं सिद्धनिषेवितम् ।येन सा कापिलैस्तात सेविता ऋषिभिः पुरा ॥५९॥तेन सा कपिला नाम गीता पापक्षयंकरी ।तत्र कोटिशतं साग्रं तीर्थानाममरेश्वरे ॥६०॥अहोरात्रोषितो भूत्वा मुच्यते सर्वकिल्बिषैः ।दानं च विधिवद्दत्त्वा यथाशक्त्या द्विजोत्तमे ॥६१॥ईश्वरानुग्रहात्सर्वं तत्र कोटिगुणं भवेत् ।यस्मादनक्षरं रूपं प्रणवस्येह भारत ॥६२॥शिवस्वरूपस्य ततः कृतमात्राक्षरं भवेत् ।तिर्यञ्चः पशवश्चैव वृक्षा गुल्मलतादयः ॥६३॥तेऽपि तत्र क्षयं याताः स्वर्गं यान्ति न संशयः ।विशल्या तत्र या प्रोक्ता तत्रैव तु महानदी ॥६४॥स्नात्वा दत्त्वा यथान्यायं तत्रापि सुकृती भवेत् ।तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ॥६५॥यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः ।सर्वे समागतास्तां वै पश्यन्ति ह्यमरेश्वरे ॥६६॥तैश्च सर्वैः समागम्य वन्दितौ तौ शुभौ कटौ ।पुरा युगे महाघोरे सर्वलोकभयंकरे ॥६७॥नर्मदायाः सुतस्तत्र सशल्यो विशलीकृतः ।सर्वदेवैश्च ऋषिभिर्विशल्या तेन सा स्मृता ॥६८॥युधिष्ठिर उवाच -उत्पन्ना तु कथं तात विशल्या कपिला कथम् ।कथं वा नर्मदापुत्रः शल्ययुक्तोऽभवन्मुने ॥६९॥आश्चर्यभूतं लोकस्य श्रोतुमिच्छामि सुव्रत ॥७०॥श्रीमार्कण्डेय उवाच -पुरा दाक्षायणी नाम सहिता शूलपाणिना ।क्रीडित्वा नर्मदातोये परया च मुदा नृप ॥७१॥जलादुत्तीर्य सहसा वस्त्रमन्यत्समाहरत् ।देव्यास्तु स्नानवस्त्रं तत्पीडितं लीलया नृप ॥७२॥सहितानुचरीभिस्तु इन्द्रायुधनिभं भृशम् ।तस्मिन्निष्पीड्यमाने तु वारि यन्निःसृतं तदा ॥७३॥तस्मादियं सरिज्जज्ञे कपिलाख्या महानदी ।संयोगादङ्गरागस्य वस्त्रोद्यत्कपिलं जलम् ॥७४॥गलितं तेन कपिला वर्णतो नामतोऽभवत् ।तथा गन्धरसैर्युक्तं नानापुष्पैस्तु वासितम् ॥७५॥नानावर्णारुणं शुभ्रं वस्त्राद्यद्वारि निःसृतम् ।पीड्यमानं करैः शुभ्रैस्तैस्तु पल्लवकोमलैः ॥७६॥कपिलं जलमिश्रैस्तु तस्मादेषा सरिद्वरा ।कपिला चोच्यते तज्ज्ञैः पुराणार्थविशारदैः ॥७७॥एषा वै वस्त्रसम्भूता नर्मदातोयसम्भवा ।महापुण्यतमा ज्ञेया कपिला सरिदुत्तमा ॥७८॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP