संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ८ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८ Translation - भाषांतर मार्कण्डेय उवाच -नष्टे लोके पुनश्चान्ये सलिलेन समावृते ।महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम् ॥१॥दिव्ये वर्षशते पूर्णे श्रान्तोऽहं नृपसत्तम ।ध्यातुं समारभं देवं महदर्णवतारणम् ॥२॥ध्यायमानस्ततः काले अपश्यं पक्षिणं परम् ।हारकुन्देन्दुसंकाशं बकं गोक्षीरपाण्डुरम् ॥३॥ततोऽहं विस्मयाविष्टस्तं बकं समुदीक्ष्य वै ।अस्मिन्महार्णवे घोरे कुतोऽयं पक्षिसंभवः ॥४॥तरन्बाहुभिरश्रान्तस्तं बकं प्रत्यभाषिषि ।पाक्षरूपं समास्थाय कस्त्वमेकार्णवीकृते ॥५॥भ्रमसे दिव्ययोगात्मन्मोहयन्निव मां प्रभो ।एतत्कथय मे सर्वं योऽसि सोऽसि नमोऽस्तु ते ॥६॥सोऽब्रवीन्मां महादेवो ब्रह्माहं विष्णुरेव च ।जगत्सर्वं मया वत्स संहृतं किं न बुध्यसे ॥७॥तव माता पिताहं वै विश्वस्य च महामुने ।कारुण्यं मम संजातं दृष्ट्वा मग्नं महार्णवे ॥८॥पक्षिरूपं समास्थाय अतोऽत्राहं समागतः ।किमर्थमातुरो भूत्वा भ्रमसीत्थं महार्णवे ॥९॥शीघ्रं प्रविश मत्पक्षौ येन विश्रमसे द्विज ।एवमुक्तस्ततस्तेन देवेनाहं नरेश्वर ॥१०॥ततोऽहं तस्य पक्षान्ते प्रलीनस्तु भ्रमञ्जले ।काले युगसाहस्रान्ते अश्रान्तोऽर्णवमध्यगः ॥११॥ततः शृणोमि सहसा दिक्षु सर्वासु सुव्रत ।किंचिन्नूपुरसंमिश्रमद्भुतं शब्दमुत्तमम् ॥१२॥तदार्णवजलं सर्वं संक्षिप्तं सहसाभवत् ।किमेतदिति संचिन्त्य दिशः समवलोकयम् ॥१३॥दश कन्यास्ततो दिक्षु आगताश्च महार्णवे ।वस्त्रालंकारसहिता दिग्भ्यो नूपुरभूषिताः ॥१४॥काचिच्चन्द्रसमाभासा काचिदादित्यसप्रभा ।काचिदंजनपुञ्जाभा काचिद्रक्तोत्पलप्रभा ॥१५॥नानारूपधरा सौम्या नानाभरणभूषिता ।अर्घ्यपाद्यादिभिर्माल्यैर्बकमभ्यर्च्य सुव्रताः ॥१६॥ततस्तं पर्वताकारं गुह्यं पक्षिणमव्ययम् ।प्रविवेश महाघोरं पर्वतो ह्यर्णवं स्वराट् ॥१७॥योजनानां सहस्राणि तावन्त्येव शतानि च ।त्रिंशद्योजनसाहस्रं यावद्भूमण्डलं त्विति ॥१८॥ततो भूमण्डलं दिव्यं पञ्चरत्नसमाकुलम् ।दिव्यस्फटिकसोपानं रुक्मस्तंभमनोरमम् ॥१९॥योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् ।वापीकूपसमाकीर्णं प्रासादाट्टालकावृतम् ॥२०॥कल्पवृक्षसमाकीर्णं ध्वजषष्टिविभूषितम् ।तस्मिन्पुरवरे रम्ये नानारत्नोपशोभितम् ॥२१॥तथान्यच्च पुरं रम्यं पताकोज्ज्वलवेदिकम् ।शतयोजनविस्तीर्णं तावद्द्विगुणमायतम् ॥२२॥पुरमध्ये ततस्तस्मिन्नदी परमशोभना ।महती पुण्यसलिला नानारत्नशिला तथा ॥२३॥तस्यास्तीरे मया दृष्टं तडित्सूर्यसमप्रभम् ।इन्द्रनीलमहानीलैश्चितं रत्नैः समन्ततः ॥२४॥क्वचिद्वह्निसमाकारं क्वचिदिन्द्रायुधप्रभम् ।क्वचिद्धूम्रं क्वचित्पीतं क्वचिद्रक्तं क्वचित्सितम् ॥२५॥नानावर्णैः समायुक्तं लिङ्गमद्भुतदर्शनम् ।ब्रह्मविष्ण्विन्द्रसाध्यैश्च समन्तात्परिवारितम् ॥२६॥नन्दीश्वरगणाध्यक्षैश्चेन्द्रादित्यैश्च तद्वृतम् ।पश्यामि लिङ्गमीशानं महालिङ्गं तमेव च ॥२७॥परिवार्य ततस्तं तु प्रसुप्तान्देवदानवान् ।निमीलिताक्षान्पश्यामि दिव्याभरणभूषितान् ॥२८॥ततस्ताः पद्मपत्राक्ष्यो नार्यः परमसंमताः ।नद्यास्तस्या जले स्नात्वा दिव्यपुष्पैर्मनोरमैः ॥२९॥दत्त्वार्घपाद्यं विधिवल्लिंगस्य सह पक्षिणा ।अर्चयन्तीर्वरारोहा दश ताः प्रमदोत्तमाः ॥३०॥ततस्त्वभ्यर्च्य तल्लिङ्गं तस्मिन्नेव पुरोत्तमे ।सर्वा अदर्शनं जग्मुर्विद्युतोऽभ्रगणेष्विव ॥३१॥न चासौ पक्षिराट्तस्मिन्न स्त्रियो न च देवताः ।तदेवैकं स्थितं लिङ्गमर्चयन्विस्मयान्वितः ॥३२॥ततोऽहं दुःखमूढात्मा रुद्रमायेति चिन्तयन् ।ततः कन्याः समुत्तीर्य दिव्यांबरविभूषणाः ॥३३॥भासयन्त्यो जगत्सर्वं विद्युतोऽभ्रगणानिव ।पद्मैर्हिरण्मयैर्दिव्यैरर्चयित्वा शुभाननाः ॥३४॥विविशुस्तज्जलं क्षिप्रं समंताद्वरभूषणाः ।तस्मिन्पुरवरे चान्ये तामेवाहं पुनःपुनः ॥३५॥पश्यामि ह्यमरां कन्यामर्चयन्तीं महेश्वरम् ।ततोऽहं तां वरारोहामपृच्छं कमलेक्षणाम् ॥३६॥का त्वमस्मिन्पुरे देवि वससे शिवमर्चती ।ताश्चागताः स्त्रियः सर्वाः क्व गतास्ते गणेश्वराः ॥३७॥नमोऽस्तु ते महाभागे ब्रूहि पुण्ये महेश्वरि ।तव प्रसादाद्विज्ञातुमेतदिच्छामि सुव्रते ।दयां कृत्वा महादेवि कथयस्व ममानघे ॥३८॥श्र्युवाच -विस्मृताहं कथं विप्र दृष्ट्वा कल्पे पुरातने ।मा तेऽभूत्स्मृतिविभ्रंशः सा चाहं कल्पवाहिनी ॥३९॥नर्मदा नाम विख्याता रुद्रदेहाद्विनिःसृता ।यास्ताः कन्यास्त्वया दृष्टा ह्यर्चयन्त्यो महेश्वरम् ॥४०॥याभिस्त्विह समानीतः पक्षिराजसमन्विताः ।दिशस्ता विद्धि सर्वेशाः सर्वास्त्वं मुनिसत्तम ॥४१॥तिर्यक्पक्षिस्वरूपेण महायोगी महेश्वरः ।एभिः शिवपुराद्विप्र आनीतः स महेश्वरः ॥४२॥सैष देवो महादेवो लिङ्गमूर्तिर्व्यवस्थितः ।अर्च्यते ब्रह्मविष्ण्विन्द्रैः सुरासुरजगद्गुरुः ॥४३॥लयमायाति यस्माद्धि जगत्सर्वं चराचरम् ।तेन लिङ्गमिति प्रोक्तं पुराणज्ञैर्महर्षिभिः ॥४४॥तेन देवगणाः सर्वे संक्षिप्ता मायया पुरा ।प्रलीनाश्चैव लोकेश न दृश्यन्ते हि सांप्रतम् ॥४५॥पुनर्दृश्या भविष्यन्ति सृजमानाः स्वयंभुवा ।साहं लिङ्गार्चनपरा नर्मदा नाम नामतः ॥४६॥कालं युगसहस्रस्य रुद्रस्य परिचारिका ।अस्य प्रसादादमरस्तथा त्वं द्विजपुंगव ॥४७॥सत्यार्जवदयायुक्तः सिद्धोऽसि त्वं शिवार्चनात् ।एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥४८॥ताः स्त्रियः स च देवेशो बकरूपो महेश्वरः ।तस्यास्तद्वचनं श्रुत्वा अवतीर्य महानदीम् ॥४९॥स्नात्वा समर्चय त्वं हि विधिना मन्त्रपूर्वकम् ।ततोऽहं सहसा तस्मात्समुत्तीर्य जलाशयात् ॥५०॥न च पश्यामि तल्लिङ्गं न च तां निम्नगां नृप ।तदैव लोकाः संजाताः क्षितिश्चैव सकानना ॥५१॥ऋक्षचन्द्रार्कविततं तदेव च नभस्तलम् ।यथापूर्वमदृष्टं तु तथैव च पुनः कृतम् ।नतोऽहं मनसा देवमपूजयं महेश्वरम् ॥५२॥एवं बके पुरा कल्पे मया दृष्टेयमव्यया ।नर्मदा मर्त्यलोकस्य महापातकनाशिनी ॥५३॥तस्माद्धर्मपरैर्विप्रैः क्षत्रशूद्रविशादिभिः ।सदा सेव्या महाभागा धर्मवृद्ध्यर्थकारिभिः ॥५४॥येऽपि भक्तया सकृत्तोये नर्मदाया महेश्वरम् ।स्नात्वा ते सर्वं पापं नाशयन्त्यसंशयम् ॥५५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो नामाष्टमोऽध्यायः ॥ N/A References : N/A Last Updated : December 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP