संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २३१ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २३१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २३१ Translation - भाषांतर श्रीसूत उवाच -तथैव तीर्थस्तबकान् वक्ष्येऽहमृषिसत्तमाः ।यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥१॥विभक्तो भक्तलोकानामानन्दप्रथनः शुभः ।मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥२॥यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह ।शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥३॥तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा ।यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥४॥तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः ।भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥५॥तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् ।दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः ।तस्याः स्तबकसंस्थानं वक्ष्येऽहमृषिसत्तमाः ॥६॥ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् ।संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥७॥दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे ।पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥८॥सङ्गमः सहितान्येवं रेवातीरद्वयेऽपि च ।चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥९॥त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् ।तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥१०॥मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः ।दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥११॥सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः ।कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा ॥१२॥नागेश्वराश्च सप्तैव रेवातीरद्वयेऽपि तु ।सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥१३॥केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च ।वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥१४॥देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः ।वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥१५॥अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः ।सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥१६॥गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः ।कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥१७॥त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः ।सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥१८॥भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च ।धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥१९॥ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् ।दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥२०॥मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा ।पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥२१॥व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा ।नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥२२॥मारुतेशद्वयं तद्वद्द्वौ च ज्वालेश्वरौ स्मृतौ ।शुक्लतीर्थद्वयं पुण्यमप्सरेशद्वयं तथा ॥२३॥पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते ।द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः ।उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥२४॥द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् ।लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥२५॥सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः ।स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥२६॥शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः ।शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥२७॥अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः ।तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥२८॥चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि ।विष्णुनाधिष्ठितान्येव प्राह पूर्वं मृकण्डजः ॥२९॥तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् ।त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरोऽपरे ।अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥३०॥एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥३१॥सूत उवाच -एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया ।यथा पार्थाय संक्षेपान्मार्कण्डो मुनिरब्रवीत् ॥३२॥अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः ।यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥३३॥ओङ्कारतीर्थपरितः पर्वतादमरकण्टात् ।क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥३४॥तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः ।कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥३५॥अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् ।शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥३६॥तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् ।शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥३७॥तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता ।तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥३८॥शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् ।सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥३९॥शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः ।देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥४०॥लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता ।तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ।वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥४१॥एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः ।साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥४२॥ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् ।अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥४३॥सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् ।एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥४४॥धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता ।स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥४५॥कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता ।सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥४६॥रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् ।अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥४७॥लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः ।तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥४८॥शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च ।नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥४९॥कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा ।तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥५०॥मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् ।भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥५१॥साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् ।सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥५२॥त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् ।भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥५३॥अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् ।विमलेश्वरतीर्थे तु रेवासागरसङ्गमे ।दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥५४॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP