संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २०९ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २०९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २०९ Translation - भाषांतर श्रीमार्कण्डेय उवाच -तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् ।तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत् ॥१॥क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।दानवगन्धर्वैरप्सरोभिश्च सेवितम् ॥२॥तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः ।भारेण महता जातो भारभूतिरिति स्मृतः ॥३॥युधिष्ठिर उवाच -भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् ।श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे ॥४॥श्रीमार्कण्डेय उवाच -भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम ।विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना ॥५॥आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः ।विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः ॥६॥क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा ।विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम् ॥७॥ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम ।पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते ॥८॥इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम ।पतन्ति नरके घोरे रौरवे पापमोहिताः ॥९॥ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१०॥एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे ।वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः ॥११॥तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः ।द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम् ॥१२॥दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् ।अभिवादयते विप्रं स्वागतेन च पूजितः ॥१३॥प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः ।किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम् ॥१४॥बटुरुवाच -विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम ।ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे ॥१५॥ब्राह्मण उवाच -सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे ।दानानां परमं दानं कथं विद्या च दीयते ॥१६॥गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।अथवा विद्यया विद्या भवतीह फलप्रदा ॥१७॥बटुरुवाच -यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् ।तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः ॥१८॥तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने ।वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन् ॥१९॥ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः ।पचनाद्यं बटो कर्म कुरु क्रमत आगतम् ॥२०॥तथेति चोक्तो देवेशो भारग्राममुपागतः ।ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत् ॥२१॥यावदागच्छते विप्रो बटुभिः सह मन्दिरम् ।अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम् ॥२२॥एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः ।क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक् ॥२३॥दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् ।धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ ॥२४॥क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् ।त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम् ॥२५॥तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज ।मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते ॥२६॥बटुरुवाच -सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः ।मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा ॥२७॥बटुरुवाच -दिनशेषेण चास्माकं पञ्चतां च दिने दिने ।निष्पत्तिं याति वा नेति तदसिद्धमशेषतः ॥२८॥असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् ।दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे ॥२९॥बटुरुवाच -भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः ।प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत् ॥३०॥यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः ।यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि ॥३१॥अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः ।गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे ॥३२॥तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ ।स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः ॥३३॥दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने ।षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक् ॥३४॥ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः ।वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते ॥३५॥साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च ।प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम् ॥३६॥प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् ।द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले ॥३७॥क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर ।ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः ॥३८॥उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः ।जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो ॥३९॥तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप ।गुरोस्तु पश्यतो राजन्धावमाना दिशो दश ॥४०॥वायुवेगेन देवेन लुञ्जितास्ते समन्ततः ।भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर ॥४१॥शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे ।ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले ॥४२॥गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् ।एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः ॥४३॥यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् ।एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति ॥४४॥तदा स्वकीयजीवेन त्वं योजयितुमर्हसि ।मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः ॥४५॥ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि ।द्विजबन्धनमात्रेण नरको भवति ध्रुवम् ॥४६॥मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम ।एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः ॥४७॥भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् ।मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान् ॥४८॥लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् ।मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता ॥४९॥गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै ।ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः ॥५०॥नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना ।ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः ॥५१॥अज्ञानेन मया सव यदुक्तं परमेश्वर ।अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो ॥५२॥देव उवाच -भगवन्गुरुर्भवान्देवो भवान्मम पितामहः ।वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः ॥५३॥जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥५४॥एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः ।तत्र तीर्थे जगामाशु कैलासं धरणीधरम् ॥५५॥तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् ।विख्यातं सर्वलोकेषु महापातकनाशनम् ॥५६॥तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते ।सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत् ॥५७॥पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः ।सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः ॥५८॥सोमशर्मेति विख्यातो मृतः पृथुललोचनः ।स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम् ॥५९॥सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् ।एकदा तु समं तेन व्यवहारमचिन्तयत् ॥६०॥सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः ।भाण्डं बहु समादाय मदीये द्रव्यसाधने ॥६१॥परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः ।इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम् ॥६२॥सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् ।तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा ॥६३॥प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च ।नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः ॥६४॥नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् ।दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम् ॥६५॥शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् ।एष निद्रावशं यातो मयि प्राणान्निधाय वै ॥६६॥अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः ।उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा ॥६७॥इति निश्चित्य मनसा पापस्तं लवणोदधौ ।चिक्षेप सोमशर्माणं पापध्यातेन चेतसा ॥६८॥उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् ।ततः कतिपयाहोभिः संयुक्तः कालधर्मणा ॥६९॥गतो यमपुरं घोरं गृहीतो यमकिंकरैः ।स नीतस्तेन मार्गेण यत्र संतपते रविः ॥७०॥कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा ।सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः ॥७१॥तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः ।सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत् ॥७२॥पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् ।अन्नं पानीयसहितं यावत्तद्दीयते विषम् ॥७३॥छायां संप्रार्थमानानां भृशं ज्वलति पावकः ।तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः ॥७४॥हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः ।इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः ॥७५॥यत्र तिष्ठति देवेशः प्रजासंयमनो यमः ।ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः ॥७६॥बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् ।अवधारय देवेश बुध्यस्व यदनन्तरम् ॥७७॥यम उवाच -न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् ।ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत् ॥७८॥ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः ।ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम् ॥७९॥इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः ।मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया ॥८०॥द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् ।विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति ॥८१॥मुनय ऊचुः ।अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् ।कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम् ॥८२॥ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् ।आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः ॥८३॥आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि ।पुराणानि च मीमांसा दृष्टमस्माभिरत्र च ॥८४॥ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे ।निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥८५॥ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः ।विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥८६॥वापीकूपतडागानां भेत्तारो ये च पापिनः ।उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः ॥८७॥दावाग्निदाहका ये च सततं येऽसुहिंसकाः ।न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः ॥८८॥मातापितृगुरूणां च त्यागिनो दोषदायिनः ।स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी ॥८९॥विवेकरहिता या स्त्री यास्नाता भोजने रता ।द्विकालभोजनरतास्तथा वैष्णववासरे ॥९०॥तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् ।विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा ॥९१॥तेषां गतिर्न वेदेषु पुराणेषु च का कथा ।इति स्थितेषु पापेषु गतिरेषां न विद्यते ॥९२॥नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् ।इतो नीत्वा यमदूता एनं विश्वस्तघातिनम् ॥९३॥कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् ।नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया ॥९४॥क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् ।इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च ॥९५॥यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः ।ते तमादाय हि नरके घोरे रौरवसंज्ञिते ॥९६॥चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् ।नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत् ॥९७॥अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् ।यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः ॥९८॥भवति स्पर्शनात्तस्य किमेतेन कृतामलम् ।यथा दुर्जनसंसर्गात्सुजनो याति लाघवम् ॥९९॥सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् ।प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः ॥१००॥एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति ।तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः ॥१०१॥एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले ।नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः ॥१०२॥यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ ।गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः ।नरके न स्थितिर्यस्य तस्य किं क्रियतां वद ॥१०३॥यम उवाच -पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् ।कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम् ॥१०४॥एवमुक्ते तु वचने प्रजासंयमनेन च ।स गतः कृमितां पापो विष्ठासु च पृथक्पृथक् ॥१०५॥ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् ।यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः ॥१०६॥स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् ।सरीसृपानजगरवराहमृगहस्तिनः ॥१०७॥वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् ।योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम् ॥१०८॥एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै ।स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः ॥१०९॥स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः ।स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः ॥११०॥पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् ।न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम् ॥१११॥समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः ।यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः ॥११२॥संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः ।तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम् ॥११३॥सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः ।एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः ॥११४॥ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे ।भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम ॥११५॥तत्र यामो वयं सर्वे सर्वपापक्षयावहम् ।एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु ॥११६॥शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः ।यः कृत्वा मित्रहननं गोयोनिं समुपागतः ॥११७॥इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् ।गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः ॥११८॥गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् ।शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम् ॥११९॥उद्धृतासि वराहेण रुद्रेण शतबाहुना ।अहमप्युद्धरिष्यामि प्रजया बन्धनेन च ॥१२०॥स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे ।ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत् ॥१२१॥अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे ।मृत्तिके हर मे पापं जन्मकोटिशतार्जितम् ॥१२२॥तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् ।त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम् ॥१२३॥स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् ।स स्नात्वानेन विधिना संतर्प्य पितृदेवताः ॥१२४॥ययौ देवालयं पश्चादुपहारैः समन्वितः ।भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम् ॥१२५॥पुराणोक्तविधानेन पूजां समुपचक्रमे ।पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते ॥१२६॥संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् ।घृतेन पूरणं पश्चात्कृतं नृपवरेण तु ॥१२७॥धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि ।अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम् ॥१२८॥नमस्ते देवदेवेश शम्भो परमकारण ।गृहाणार्घमिमं देव संसाराघमपाकुरु ॥१२९॥वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् ।अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात् ॥१३०॥अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः ।तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः ॥१३१॥अनेन विधिना तेन पूजितः प्रथमे शिवः ।यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत् ॥१३२॥स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् ।तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः ॥१३३॥कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् ।श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम् ॥१३४॥प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा ।यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः ॥१३५॥देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः ।तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन् ॥१३६॥तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः ।तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम ॥१३७॥अनेन विधिना राजा यामिनीयामपूजनम् ।अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम् ॥१३८॥चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् ।ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः ॥१३९॥ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः ।पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि ॥१४०॥हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् ।यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम् ॥१४१॥निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् ।उपवासपराणां च देवायतनवासिनाम् ॥१४२॥शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ ।न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः ॥१४३॥शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः ।रेवाया उत्तरं कूलं तीरं भारेश्वरेति च ॥१४४॥जागृतश्चातिदुःखेन कथं पापं न हास्यति ।इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः ॥१४५॥प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् ।स्नापितास्तेन ते सर्वे वाहनानि गजादयः ॥१४६॥यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् ।तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक् ॥१४७॥दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः ।तेन वाहकृताद्दोषान्मुक्तो भवति मानवः ॥१४८॥अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति ।संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः ॥१४९॥संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि ।कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम् ॥१५०॥गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च ।संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च ॥१५१॥सर्वौषधिजलेनैव ततः शुद्धोदकेन च ।चन्दनेन सुगन्धेन समालभ्य च शङ्करम् ॥१५२॥कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा ।पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम् ॥१५३॥कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् ।गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा ॥१५४॥धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता ।अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर ॥१५५॥धेनुं स्वलंकृतां दद्यादनेन विधिना ततः ।क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून् ॥१५६॥षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् ।दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत् ॥१५७॥स स्वयं बुभुजे पश्चात्परिवारसमन्वितः ।तामेव रजनीं तत्र न्यवसज्जगतीपतिः ॥१५८॥तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर ।आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम् ॥१५९॥वागुवाच -राजन्समं ततो लोके फलं भवति साम्प्रतम् ।संसारसागरे ह्यत्र पतितानां दुरात्मनाम् ॥१६०॥यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् ।यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत् ॥१६१॥य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः ।अनेन मित्रहननं पापं विश्वासघातनम् ॥१६२॥कृतं जन्मसहस्राणामतीते परिजन्मनि ।गतेन पाप्मनात्मानं नरकेषु च संस्थितिः ॥१६३॥ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि ।गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः ॥१६४॥स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे ।दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया ॥१६५॥तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः ।स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति ॥१६६॥श्रीमार्कण्डेय उवाच -एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत ।विमानवरमारूढस्तत्क्षणात्समदृश्यत ॥१६७॥स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव ॥१६८॥वृष उवाच -भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् ।यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः ।मया ज्ञातमशेषेण मत्समो नास्ति पातकी ॥१६९॥अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् ।भवान्माता भवन्भ्राता भवांश्चैव पितामहः ॥१७०॥क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः ।गतिमीदृग्विधां यान्ति न जाने तव का गतिः ॥१७१॥समाराध्य महेशानं सम्पूज्य च यथाविधि ।का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो ॥१७२॥त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः ।स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात् ॥१७३॥श्रीमार्कण्डेय उवाच -गते चादर्शनं तत्र स राजा विस्मयान्वितः ।तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः ॥१७४॥इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् ।सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ॥१७५॥उपपापानि नश्यन्ति स्नानमात्रेण भारत ।कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः ॥१७६॥चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु ।ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥१७७॥महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् ।सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम् ॥१७८॥कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः ।स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम् ॥१७९॥अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् ।दीपं पिष्टमयं कृत्वा पितॄन् सर्वान् विमोक्षयेत् ॥१८०॥तत्र यद्दीयते दानमपि वालाग्रमात्रकम् ।तदक्षयफलं सर्वमेवमाह महेश्वरः ॥१८१॥भारभूत्यां मृतानां तु नराणां भावितात्मनाम् ।अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम् ॥१८२॥अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति ।साङ्गवेदज्ञविप्राणां जायते विमले कुले ॥१८३॥धनधान्यसमायुक्तो वेदविद्यासमन्वितः ।सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥१८४॥पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात् ॥१८५॥एतत्पुण्यं पापहरं कथितं ते नृपोत्तम ।भारतेदं महाख्यानं शृणु चैव ततः परम् ॥१८६॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP