संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| प्रायश्चित्तविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - प्रायश्चित्तविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः प्रायश्चित्तविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।प्राशब्दाख्यो विनाशस्तु प्रायश्चित्तमिति स्मृतम् ॥१॥अर्चनादिहुतान्तञ्च प्रायश्चित्तं वदाम्यहम् ।अर्चनाकालहीने तु शिवमन्त्रञ्जपेच्छतम् ॥२॥अर्चनाकालहीने तु सन्ध्याया द्विगुणं तथा ।एकाहेचाङ्गविच्छेदे हृन्मन्त्रेण शताहुतिः ॥३॥एकाहेचार्चहीनेन स्नपनं नवकुंभकैः ।द्विदिनेत्रि दिने हीने पञ्चविंशतिकुंभकैः ॥४॥चतुर्त्था हेतु पञ्चाहे पूजाहीने तु संभवे ।पञ्चादौ दशके हीने स्नपनं शतकुंभकैः ॥५॥पूजाहीने तु मासान्तं त्रिशतैः कलशैः पुनः ।त्रिमासमर्चनाहीने सहस्रकलशैः क्रमात् ॥६॥षाण्मासोर्ध्वेऽर्चनाहीने संप्रोक्षणमथाचरेत् ।सन्ध्यायां बलिहीने तु रुद्रमन्त्रंशतं जपेत् ॥७॥द्विसन्ध्यं बलिहीने तु शताद्यर्धं जपेत् गुरुः ।त्रिसन्ध्यं बलिहीने च स्नपनं कारयेत् ततः ॥८॥द्वियहादि च मासान्तं बलिविच्छेदकर्मणि ।शिवाग्निं पूर्ववद् ध्यात्वा स्नपनन्तु शताष्टकम् ॥९॥बलिर्मासोर्ध्वहीने तु शिवागिं तत्र बुद्धिमान् ।सहस्राज्याहुतिञ्चाङ्गैः शिवे नैव तु देशिकः ॥१०॥अष्टोतरशतैः कुंभैः स्नपनं कारयेत् बुधः ।नित्योत्सवं पुनः कुर्यात् पूर्ववच्च विशेषतः ॥११॥बलि भ्रमणकाले तु लिङ्गं पतितमेव वा ।स्फटितञ्चलितं भग्नं च्छिन्नं भिन्नन्तु संभवेत् ॥१२॥तत्रैव कारयेद्धोममथवालय मध्यमे ।पूर्ववत् बलिलिङ्गस्य कृत्वा तत्र प्रदक्षिणम् ॥१३॥अथवा पूर्ववत् कृत्वा भ्रमणान्ते हुतं क्रमात् ।मूलमन्त्रं जपेत् तत्र शतमष्टाक्षरं बुधः ॥१४॥अगम्यमितिगम्यं वा मूलमन्त्रंशतञ्जपेत् ।तत्काले दीपहीने तु स्थित्वा तत्र बलिं ततः ॥१५॥पुनर्दीपं समावाह्य कृत्वा शेषं प्रदक्षिणम् ।नैवेद्ये च वीहीने तु द्विगुणन्तु निवेदयेत् ॥१६॥हविर्द्रव्यविहीने तु द्विगुणेन तु बुद्धिमान् ।नित्यं द्रव्यविहीने तु तदान्ये द्विगुणञ्चरेत् ॥१७॥नित्याग्निकार्ये हीने तु हृन्मन्त्रेणशता हुतिः ।उत्सवे तु विशेषेण प्रायश्चित्तं ततः शृणु ॥१८॥ध्वजस्य ध्वजदण्डस्य घण्डायास्तु विशेषतः ।छिन्ने भिन्ने च पतिते चोरग्रस्तादि संभवे ॥१९॥कृत्वा तत् पूर्ववत् सर्वं पुनरुत्थापनं कुरु ।हृदयेनशतं हुत्वा स्नापयेत् पञ्चगव्यकैः ॥२०॥यागकाले विहीने तु मूलमन्त्रेण होमयेत् ।होमद्रव्यविहीने तु हृदयेन शताहुतिः ॥२१॥बलिप्रदानवेलायां शुनानीतेति रिक्तके ।हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्तकः ॥२२॥शूलास्त्रं पतितं वापि आयुधञ्चाष्टमङ्गलम् ।शूलस्य स्नपनं तत्र अन्येषाञ्च शताहुतिः ॥२३॥प्रतिमां प्रतिमां वापि स्पृष्टां वै चान्त्यपायिभिः ।कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते ॥२४॥प्रमादात् भिन्नच्छिन्नादि संभवे पूर्ववत् कुरु ।सर्वेष्वङ्गेषु हीनञ्चेत् पुनरङ्गं नियोजयेत् ॥२५॥कण्ठोर्ध्व हीनं बिंबन्तु जीर्णोद्धारन्तु कारयेत् ।तिथिवारमुहूर्तानि निरपेक्षेण बुद्धिमान् ॥२६॥अधिवासनादिकार्याणि सद्य एव समाचरेत् ।प्रतिष्ठाप्य विशेषेण प्रायश्चित्तं शृणुष्वहि ॥२७॥स्नपने कालहीने तु शिरसा तु शताहुतिः ।स्नपन द्रव्यहीने तु शिखया तु तदर्धतः ॥२८॥सुषिरं पतितं भिन्नं भेदनञ्छेदनं हि वा ।व्यपोह्यकलशन्तत्तु पूर्ववत् कल्पयेत् बुधः ॥२९॥अस्पृश्य स्पर्शने वापि श्वानकाकादि स्पर्शिते ।अन्यं कलशमादाय मन्त्रतो येन पूरयेत् ॥३०॥हृदयेन शतंहुत्वा स्नपनं तत्र पूर्ववत् ।करुणालय हीनश्चेत् कृत्वा तत्पूर्ववत् बुधः ॥३१॥तरुणं लिङ्गपीठे वा च्छिन्नभिन्नादि संश्रिते ।तल्लिङ्गन्तु जले त्यक्त्वा लिङ्गं संस्थाप्य पूर्ववत् ॥३२॥पतितञ्चलितं लिङ्गं पूर्ववत् स्थापयेत् क्रमात् ।मूललिङ्गे च विघ्नेश वक्ष्येहमधुना शृणु ॥३३॥लिङ्गन्तु स्फटितं भिन्नं जीर्णञ्छेद्यन्तथैव च ।ईदृग्लिङ्गन्ततस्त्यक्त्वा स्थापयेत् तु न वीकृतम् ॥३४॥चलितं पतितं वापि नदिस्रोतेन पातितम् ।गजेनोत्थापितं वापि चोरैरुन्मत्तकैरपि ॥३५॥तल्लिङ्गं तत्र संस्थाप्य पूर्ववच्छेषमाचरेत् ।गंभीरे च महालिङ्गे स्रोतसा चलिते सत् ॥३६॥अन्यस्यां प्रतिमायां वा शतदण्डात् तु योजयेत् ।मूललिङ्गमदृश्यञ्चेन् नवलिङ्गन्तु पूर्ववत् ॥३७॥एवं वै पिण्डिकायास्तु तथान्यप्रतिमासु च ।प्रतिष्ठालयहीने तु मूले नैवशताहुतिः ॥३८॥क्रियाहीने यथा शास्त्रं मूले नैव समाचरेत् ।क्रियायां मन्त्रहीने तु शिखया तु शताहुतिः ॥३९॥द्रव्यहीने तु विघ्नेश सहस्राहुति वर्मणा ।क्रियातिरिक्ते सर्वत्र न्यूनेमूलं शतञ्जपेत् ॥४०॥काकश्वानखरोष्ट्रैश्च मत्तोन्मत्तैश्च दूषयेत् ।स्पर्शाहुतिञ्च कुर्वीत पुण्याहन्तु विशेषतः ॥४१॥हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं हि वा ।चण्डालाद्यैस्तु परितः संस्पृष्टं वा समीपगम् ॥४२॥संप्रोक्षणं प्रतिष्ठाञ्च कुर्वीत स्नपनं पुनः ।प्रासादे पतिते भिन्नेच्छिन्नेनष्टे तथैव च ॥४३॥बालालये शिवं नित्वा विमाने पूर्ववत् कृते ।विधिवत् प्रोक्षणं कृत्वा पश्चादुत्सवमारभेत् ॥४४॥गर्भगेहे स्थलेनिम्ने कलकाद्यैर्द्रवं पुनः ।तदन्ते वास्तुहोमञ्च पुण्याहं तत्र वाचयेत् ॥४५॥बलिपीठविनाशे तु स्थापयेत् बलिपीठकम् ।परिवारालये हीने पूर्ववत् परिकल्पयेत् ॥४६॥तत्बिंबे पतिते भिन्नेच्छिन्ने भेदे तु वर्जयेत् ।हुत्वा तु शिवमन्त्रेण कुर्यात् बिंबानि पूर्ववत् ॥४७॥प्रतिष्ठां कारयेत् प्राग्वत् स्वकीयेन विधानतः ।अथाद्भुतानां शान्तिन्तु वक्ष्ये दोषविनाशनम् ॥४८॥सर्वं विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च ।ज्वरमारिसमुत्पन्ने रोगस्फोटादि संभवे ॥४९॥नवप्रासादपतने चैत्य वृक्षस्य पातने ।एवमादिसमुत्पन्ने ग्रामादीनाञ्च दोषकम् ॥५०॥तद्दोषशमनार्थन्तु त्रिसप्ताहन्तु शान्तिकम् ।भूमिकंपेदिशान्दाहे प्रतिसूर्य प्रदर्शने ॥५१॥दिवानक्षत्रमुत्पन्ने रात्राविन्द्रधनु स्थिते ।दुर्भिक्षं शत्रुवर्धन्यां राजराष्ट्रभयंकरः ॥५२॥मासपूर्णं तथा शान्तिं कुर्याद्दोषनिवृत्तये ।प्रासादमण्डपाद्येषु वल्मीकं यत्र दृश्यते ॥५३॥रत्नकन्यासमुत्पन्ने प्रासादे मधुसंश्रिते ।प्रविष्टेपिपीलिकालूकौ प्रासादाभ्यन्तरे तथा ॥५४॥तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धपांसुभिः ।पञ्चगव्येन संप्रोक्ष्य पुनःशान्तिन्तु कारयेत् ॥५५॥शान्तिं संक्षेपतो वक्ष्ये शृणु तत्वं गजानन ।हविषं द्विगुणं कृत्वा दीपैः पूष्पैर्विशेषतः ॥५६॥शीतकुंभन्तु विधिना शिवस्योर्ध्वन्निदापयेत् ।दिशाहोमन्ततः कृत्वा मूर्तिहोमं विशेषतः ॥५७॥चतुर्दिक्षु चतुर्वेदैः पूर्वमध्यापनं तथा ।यथावत् स्नपनन्नित्यं तथा वित्तानुसारतः ॥५८॥गृतं क्षीरं यथा शक्ति अभिषेकन्तु नित्यशः ।नालिकेरस्य सलिलैरभिषेकं समाचरेत् ॥५९॥तदन्ते रात्रिचूर्णन्तु लिङ्गमुद्वर्त्यशोधयेत् ।प्रभूतहविषं नित्यं तदन्ते द्विगुणं स्मृतम् ॥६०॥एवं शान्तिस्तु तत्प्रोक्तं सर्वारिष्टविनाशनम् ।शान्तिरेवं कृतं यत्र धनधान्याभिवर्धनम् ॥६१॥अनुक्तानां तु सर्वेषां विदित्वा गुरुलाघवम् ।उक्तैरेवं प्रकारैस्तु प्रायश्चित्तानि कारयेत् ॥६२॥शान्तिहोमङ्गुरुः कुर्यात् शेषाणान्तु यथोक्ततः ।प्रायश्चित्तमिदं प्रोक्तं तत्राणां संकरं शृणु ॥६३॥इति प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः ॥५५॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP