संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| कुण्डलक्षण पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - कुण्डलक्षण पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः कुण्डलक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि कुण्डलक्षणमुत्तमम् ।प्रतिष्ठाद्युत्सवे काले मण्डपङ्कारयेत् बुधः ॥१॥प्रासादपुरतोभागे प्रतिष्ठायां विशेषतः ।ईशाने पार्श्वके चैन्द्रे कल्पयेत् तु विशेषतः ॥२॥महानसेन्यधाग्नेय्यां नित्याग्न्यायतनं बुधः ।अनुक्तेषु च येज्ञेषु उक्तदेशे विधीयते ॥३॥उत्तमन्दशहस्तं स्यान्मध्यमं नवहस्तकम् ।अधमं सप्तहस्तं स्यान्मण्डपं त्रिविधं मतम् ॥४॥षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा ।दिशश्च विदिशश्चैव नच्छिद्रं व्योमसंपदम् ॥५॥चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।स्थलन्तालसमुत्सेधमथवा च षडङ्गुलम् ॥६॥दर्भमालाभिरावेष्ट्य पुष्पामालोपशोभितम् ।वितानैरूर्ध्वमाच्छाद्यमुक्तादामैरलङ्कृतम् ॥७॥तत् त्रिभागैक भागेन वेदिं मध्ये प्रकल्पयेत् ।हस्तमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥८॥तत् पूर्वे चतुरश्रं स्यादाग्नेय्यान्तु भगाकृतिः ।अर्धचन्द्रस्तु याम्यायां नै-ऋत्यान्तु त्रिकोणकः ॥९॥वारुण्यां वर्त्तुलं कुण्डं षट्कोणञ्चैव वायवे ।उत्तरे पद्मकुण्डन्तु ऐशान्न्यामष्टकोणकम् ॥१०॥ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।नित्यहोमाग्नि कुण्डन्तु हस्तमात्रप्रमाणतः ॥११॥शतार्धाहुति कुण्डस्यमुष्टिमात्रप्रमाणतः ।रत्निः स्याच्छतसङ्ख्यायाः सहस्रे करसंहितम् ॥१२॥द्विकरं दशसाहस्रे चतुर्हस्तन्तु लक्षके ।षट्करं दशलक्षे तु कोट्याहुत्यष्टहस्तकम् ॥१३॥कुण्डविस्तारमाख्यातं कुट्यूर्ध्वेऽष्टकरं मतम् ।अनुक्तमानाहुतयश्चोक्त कुण्डेषु होमयेत् ॥१४॥चतुरश्रस्यकुण्डस्य लक्षणं शृणु सांप्रतम् ।प्राङ्मुखानि त्रिसूत्राणि उदङ्मुखानि तथैव च ॥१५॥एवं विन्यस्यमानेस्याच्चतुरश्रञ्चतुष्पदम् ।योन्यादि सर्वकुण्डानि चतुरश्रोद्भवानि हि ॥१६॥कोणे ग्राह्या चतुर्थांशं तद्भागेन तु वर्तयेत् ।क्षेत्रस्यार्धावधिर्यावत् तथान्यं भ्रमयेत् क्रमात् ॥१७॥कर्णायामस्य सप्तांशं पूर्वायादिशिविन्यसेत् ।तस्माच्च पादयेत् सूत्रौ भवेदश्वत्थ पत्रवत् ॥१८॥दशभाग कृतं क्षेत्रं द्विभागन्तु व्यपोह्य च ।मध्येऽष्टांशं परिग्राह्य भ्रामयेदर्धचन्द्रवत् ॥१९॥पञ्चभाग कृतं क्षेत्रं द्विभागौ पार्श्वयोर्न्यसेत् ।तेनमानेन सूत्रेण द्विसूत्रञ्चाग्रसंयुतम् ॥२०॥तत्र सूत्रत्रयं कृत्वा तत् त्रिकोणमिहोच्यते ।अष्टादशकृतं क्षेत्रमेकभागं बहिर्न्यसेत् ॥२१॥तस्मान्मध्यं गृहीत्वैव भ्राम्यतद्वर्तुलं स्मृतम् ।तत् क्षेत्रमष्टधा कृत्वा भागैकं पार्श्वयोर्बहिः ॥२२॥तयोर्मध्यं गृहीत्वार्धं सूत्रेणैव पुरा तथा ।षट्सूत्रं परितः कृत्वा षट्कोणन्तद्भवेदिह ॥२३॥वर्तुलं पूर्ववत् कृत्वा मध्यमेकर्न्निकान्न्यसेत् ।षोडशंदलसंयुक्तं दलाग्रं दर्शयेद् बहिः ॥२४॥पद्मकुण्डमिदं प्रोक्तं सर्वकामार्थसाधनम् ।चतुर्विंशति भागैकं बाह्ये दिक्षु व्यवस्थितम् ॥२५॥मध्यात् कोणं गृहीत्वा तु अष्टसूत्रं समर्पयेत् ।अष्टकोणमिदं प्रोक्तमितिशास्त्रस्य निश्चयः ॥२६॥यावन्मात्रन्तु विस्तारन्तावद् घातप्रमाणकम् ।कुण्डस्ययाद्रशं रूपन्तादृशि मेखला भवेत् ॥२७॥त्रिमेखलन्तु कर्तव्यमेकमेखलमेव वा ।चतुरङ्गुलमुत्सेधं विस्तारं तत् प्रमाणतः ॥२८॥एकमेखलमेवं स्यात् त्रिमेखलमथ शृणु ।चतुरङ्गुलं भवेदूर्ध्वं मध्यमन्त्र्यङ्गुलं भवेत् ॥२९॥अधस्तात् द्व्यङ्गुलं प्रोक्तं विस्तारोत्सेधमेव हि ।अश्वत्थ पत्रवद्योनि मेखलोपरिविन्न्यसेत् ॥३०॥एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् ।सप्ताङ्गुलन्तु दैर्घ्यं स्यादेकाङ्गुलन्तु नालकम् ॥३१॥कुण्डानां लक्षणं प्रोक्तं स्थण्डिलञ्चेत् तु पूर्ववत् ।चतुरङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ॥३२॥एकाङ्गुलन्तदुत्सेधमष्टाङ्गुल सुविस्तृतम् ।प्रणिता स्थानमेवं स्यात् ब्रह्मस्थानं तथा भवेत् ॥३३॥चतुरश्रं प्रणिताया ब्रह्मणे पद्ममेव च ।विना वा केवलं स्थाप्य स्थलमात्रे यजेदुभौ ॥३४॥सिकतैस्थण्डिलञ्चेत् तु स्यात् कुर्याद् धस्तमात्रकम् ।हस्तमात्रस्य कुण्डस्य लक्षणं कीर्तितं क्रमात् ॥३५॥द्विहस्तादीनिकुण्डानि कृत्वैवं मेखलादिकान् ।अङ्गुलाङ्गुलवृद्ध्या तु विस्तारोत्सेधतः समान् ॥३६॥समन्तात् सुसमान् कृत्वा ह्योष्ठ कुण्डस्य चापरि ।एकाङ्गुलेन हस्तस्यान्मेखलायाः सुमध्यमे ॥३७॥अङ्गुलाङ्गुल वृध्यातु मानाधिक्येषु कारयेत् ।अथवाङ्गुलिभिः षट्भिश्चतुर्भिश्चाष्ट हस्तके ॥३८॥कुण्डानां लक्षणं प्रोक्तं नित्योत्सवमथ शृणु ।इति कुण्डलक्षण पटलोद्वादशः ॥१२॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP