संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| परिवारविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - परिवारविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः परिवारविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि परिवारविधिक्रमम् ।द्वारपालादि पीठान्तं परिवारमिति स्मृतम् ॥१॥द्वारस्थात् प्रथमंयिष्येत् द्वारपालां ततः परम् ।वृषभं वै तृतीयन्तु इन्द्रादींस्तु चतुर्थकम् ॥२॥पञ्चमं भद्रपीठन्तु तथैवबहिरावृतम् ।यत्र यत्र मुखद्वारे कवाटाभ्यान्तु देशिकाः ॥३॥तत्र तत्र विशेषेण नवधैवं विसर्जयेत् ।भुजंगञ्च पतंगञ्च ऊर्ध्वाधः संप्रकल्प्य वै ॥४॥उत्तरञ्च पताकाञ्च तिष्ठतः सव्यवामयोः ।विमलञ्च सुबाहुञ्च विन्यसेद्वामदक्षयोः ॥५॥श्रियं सरस्वतीञ्चैव स्कन्दोर्ध्वाधः प्रकल्प्य वै ।तस्य मध्ये तु विघ्नेशं स्वनाम्नाबासने सदा ॥६॥स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत् ।एवं कृत्वा यथा न्यायं द्वारेद्वारे विशेषतः ॥७॥सुदृढं वृक्षसारैस्तु कवाटौ तु सलक्षणौ ।शून्यमेक कपाटञ्चेत् द्विकपाटे तु शान्तिकम् ॥८॥दण्डानुपरिबध्वाथ अथस्थाद्दारुजानपि ।पुलकान्नर्धचंद्रादीञ्छल्पशास्त्रोक्तमार्गतः ॥९॥उत्सेधस्याष्टभागैक ऊर्ध्वाधस्तु घनं क्रमात् ।विस्तारस्तु चतुर्भागं घनं वै दक्षिणोत्तरे ॥१०॥कपाटलक्षणं ह्येवं तत्रस्थान् प्रथमं यजेत् ।द्वारे तु देवता प्रोक्ता द्वारपालां ततः शृणु ॥११॥अभ्यन्तरग्रहद्वारे शक्तिद्वारमिति स्मृतम् ।दक्षिणे ज्ञानदाशक्ति धर्मदा चैव चोत्तरे ॥१२॥एकवक्त्रो द्विहस्ते च मध्यक्षामेस्तनान्विते ।कुंकुमाभो महाकालः परशुच्छायुधस्तथा ॥१३॥अनन्तेशः पशुपतिर्दक्षिणे द्वारपालकौ ।अनन्तो रक्तवर्णस्तु वस्त्रायुधसमन्वितः ॥१४॥पशुपद्मोत्पलवर्णः शक्तिहस्तोग्रलोचनः ।पश्चिमद्वारपालौ च दण्डिमुण्डीशसंज्ञकौ ॥१५॥दण्डी सुरेन्द्र चापास्त्र खट्गहस्तोग्रदंष्ट्रकः ।मुण्डीकुंदेन्दु वर्णाभभिण्डिपालायुधस्तथा ॥१६॥विजयश्चैव भृंगीशश्चोत्तरद्वारपालकौ ।भ्रंशो भृंगश्चवर्णस्तु क्षुरिकायुधहस्तकः ॥१७॥विजयश्चेन्द्रकोलोहः शूलहस्तोभयंकरः ।सर्वेत्रिभंगियुक्तश्च सर्वेकुञ्चित पादकाः ॥१८॥उग्रदंष्ट्राः सुवृत्ताश्च सर्वां निर्देशहस्तकाः ।सर्वे चतुर्भुजोपेता द्विभुजा वा त्रिणेत्रकाः ॥१९॥द्विनेत्राश्चोग्रदंष्ट्राश्च हलपल्लवहस्तकाः ।द्वारोत्सेध समाभद्राः किरीटाद्यङ्गदोज्वलाः ॥२०॥प्रासादे मण्डपेद्वारे द्वारेद्वारे च कीर्तिताः ।महामर्यादिभित्तिस्था द्वारगोपुर पार्श्वयोः ॥२१॥चतुर्दिक्षु विशेषेण महाकाराणि कारयेत् ।संवर्तकं श्रियावर्तं कुण्डोदर बृहोदरौ ॥२२॥सिंहमुखोहय मुखस्त्वेक पादस्त्वधोमुखः ।श्वेतवर्णस्तथा न्यस्त्वास्त्व परांश्यामसन्निभः ॥२३॥द्विनेत्रा द्विभूजाः सर्वे शूलखट्गायुधास्तथा ।भूतौ द्वौ द्वौ प्रकर्तव्यौ वासवादिप्रदक्षिणम् ॥२४॥अथाहपरिवाराणां पिठञ्चेदन्तरावृते ।तेषां विमानमन्विच्छेत् द्वितीयेपि च हारके ॥२५॥मातृंस्तु दक्षिणे भागे वीरविघ्नसमन्वितम् ॥२६॥विष्णुं वा तत्र संस्थाप्य आसीनमथवा स्थितम् ।विघ्नेशन्नै-ऋते भागे सुब्रह्मण्यन्तु पश्चिमे ॥२७॥ज्येष्ठायां वायुदिक्भागे श्रियं वै स्थापयेत् गुरुः ।दुर्गां वै चोत्तरे कुर्यात् ब्रह्माणमथवापि वा ॥२८॥चण्डेशमैशदिग्भागे भास्करं पूर्वतोदिशि ।कूपस्थानं तथैशान्यामाग्नेय्यां पचनालयम् ॥२९॥अन्तरालेष्वनुक्तेषु यथा रुचिविशेषतः ।शयनस्थानमाख्यातं पार्वती सहितं तथा ॥३०॥परिवारालयं सर्वं बाह्येवाभ्यन्तरेपि वा ।द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ॥३१॥इन्द्रादिलोकपालांश्च स्वेस्वेस्थानेऽष्टदिक्षु वै ।शक्रशांकरयोर्मध्ये पित्रस्थानं विधीयते ॥३२॥नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ।वरुणवायुदिशोर्मध्ये आदित्या द्वदशोच्यते ॥३३॥भास्करक्षेत्रपालौ च शंकरे वा विशेषतः ।चक्रपावकयोर्मध्ये अश्विन्यौ द्वौ तु विन्यसेत् ॥३४॥आग्नेयधर्मयोर्मध्ये संस्थाप्यसप्तरोहिणीः ।याम्यनै-ऋतयोर्मध्ये पितृस्थानं विधीयते ॥३५॥नि-ऋतिर्वरुणयोर्मध्ये पित्रस्थानं विधीयते ।नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ॥३६॥वरुणवायव्ययोर्मध्ये मुनीनां स्थानमुत्तमम् ।वायव्यसोमयोर्मध्ये चान्ते तु वसवस्तथा ॥३७॥उत्तरेशानयोर्मध्ये रुद्रैकादश एव हि ।बलिपीठं ततः कृत्वा चतुर्दिक्षु विचक्षणः ॥३८॥बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे प्रकल्पयेत् ।अन्तरे सर्वभूतांस्तु पिशाचान् बाह्यपीठके ॥३९॥यक्षाणां दक्षिणेपीठे राक्षसानां तु पश्चिमे ।अधमं हि तदग्रे तु अथवाभ्यन्तरे बुधः ॥४०॥गर्भगेहस्य पञ्चांशे चतुष्कञ्चोत्तमोन्नतम् ।त्रिभागं मध्यमप्रोक्तं द्विभागमधमं स्मृतम् ॥४१॥द्वारोत्सेध समञ्ज्येष्ठं तत्त्रिभागन्तु मध्यमम् ।द्वाराणामधमं विद्धि उत्सेधसमविस्तृतम् ॥४२॥उत्सेधसंविभज्याथ भागमेकोनविंशतिः ।भागेनोपानमेकेन चतुर्भुजगतिस्तथा ॥४३॥कुम्भं कृत्वा त्रिभिर्भागैस्तदूर्ध्वे केन पट्टकम् ।कण्ठं कुर्यात् त्रिभिर्भागैरेके चैवोर्ध्वपट्टिका ॥४४॥महापट्टिका द्विंशेन दलोत्सेधं गलोष्टकम् ।कर्णिकाचैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥४५॥प्रवेशनिर्गमं वक्ष्ये विस्तारं षोडशांशकम् ।समस्तांशमुपानं तु मन्वन्तं जगतीं तथा ॥४६॥भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिकास्तथा ।अष्टांशं कण्ठविस्तारं दशांशञ्चोर्ध्वपट्टिका ॥४७॥द्वादशांशं महापट्टं वेदिकायां दशांशकम् ।अष्टांशं दलविस्तारं त्रियंशेन तु कर्णिका ॥४८॥चतुरश्रं यथा पीठं कुर्यात् पददलं विना ।स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥४९॥प्रतिष्ठाविधि मार्गेण कारयेद् देशिकोत्तमः ।एवं तथोत्तमं विद्धि सर्वसिद्धिप्रदायकम् ॥५०॥द्वारकान् भूतपीठान्तं कल्पयेच्चक्रमाद्गुरुः ।सूर्यार्कवारुणेयात् तु नांशेहर्म्याणु कल्पयेत् ॥५१॥आग्नेय्यान्तु प्रकर्तव्यं च्छात्रादीनान्तु मण्डपम् ।नै-ऋत्यां दिशिकर्तव्यं धर्मश्रवणमण्डपम् ॥५२॥गीताभ्यां सर्वविख्यातं वायव्यान्तु विशेषतः ।यागानामुत्सवादीनां ऐशाने मण्डपं स्मृतम् ॥५३॥विख्यातं मध्यहारायां मर्यादिभित्तिके शृणु ।गोपुरेशानयोर्मध्ये धान्यस्थानमुदाहृतम् ॥५४॥कुर्याज्जननशालान्तु याम्यपावकमध्यगः ।याम्यनै-ऋतयोर्मध्ये कुर्यादायुधमण्डपम् ॥५५॥वरुणनै-ऋतयोर्मध्ये कुर्यादास्थानमण्डपम् ।पाशभ्रद्वायुमध्ये तु नृत्तांव्यासस्यमण्डपम् ॥५६॥कुबेरानिलयोर्मध्ये धनसञ्चितमण्डपम् ।ईशानसोमयोर्मध्ये कर्तव्यं पुष्पमण्डपम् ॥५७॥मर्यादिभित्तिके ख्यातं महामर्यादिके शृणु ।चतुर्दिक्षु महाद्वारे गोपुराणिप्रकल्पयेत् ॥५८॥अन्तरालेषु सर्वेषु क्रमेणैवप्रदक्षिणम् ।ऋग्यजुः सामधर्वाणाञ्छन्दो ज्योतिषयोस्तथा ॥५९॥शीक्षाकल्पनिरुक्तानां ततो व्याकरणस्य च ।शैवसिद्धान्त शास्त्रस्य तथा पाशुपतस्य च ॥६०॥सोमसिद्धान्त तन्त्रस्य बौद्ध अर्हतयोस्तथा ।पाचरात्राख्य तन्त्रस्य व्याख्यानाभ्यासनानि वै ॥६१॥विप्राणां भोजनार्थाय लिङ्गानां भोजनाय वै ।आदिशैवानुशैवानां स्थापनापरिकल्पयेत् ॥६२॥परिवारसमायुक्तं प्राकाराणां प्रकीर्तितम् ।अतः परं विशेषेण वृषभस्थापनं शृणु ॥६३॥इति परिवारविधिपटल एकोनचत्वारिंशत्तमः ॥३९॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP