संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| शिवोत्सवविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - शिवोत्सवविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः शिवोत्सवविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शिवोत्सवविधिं शृणु ।नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं स्मृतम् ॥१॥पञ्चाहमधमं प्रोक्तमुत्सवं त्रिविधं स्मृतम् ।अलाभे तु प्रकर्तव्यौ त्रयहैकाहकौ तथा ॥२॥आद्येषु च त्रितीयेषु ध्वजारोहणमारभेत् ।न ध्वजारोहणं प्रोक्तं द्वितये तु तथोत्सवे ॥३॥तद्दिनं त्रिगुणि कृत्य तदादौध्वजमुद्धरेत् ।द्विगुणे तद्दिनादौ वा ध्वजमारोप्य बुद्धिमान् ॥४॥ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् ।त्रिगुणे द्विगुणे काले कारयेद् देशिकोत्तमः ॥५॥अङ्कुरार्पण पूर्वे तु आदिरात्र्यङ्कुरार्पणम् ।कृत्वा भेरीन्तु सन्ताड्य ध्वजमारोपयेत् ततः ॥६॥उत्सवे च प्रतिष्ठायं सायादिदिनमुत्तमम् ।प्रातः काले ह्यवभृथं सायङ्काले समारभेत् ॥७॥रात्रिः सायाह्नि वा प्रातरितिशास्त्रस्य निश्चयः ।नवाहेऽष्टादशबलिं सप्ताहे तु चतुर्दश ॥८॥पञ्चत्रयैक ऋक्षषु दशषट्द्वितयं बलिम् ।एवं कृते तु मतिमान् लोकशान्तिकरं भवेत् ॥९॥कृत्तिकादिषु मासेषु कार्तिके कृत्तिकान्तकम् ।मार्गशीर्षकमासेषु आर्द्रान्तन्तु शिवोत्सवम् ॥१०॥पुष्यान्तं पौष्यमासे तु मघान्तं माघमासके ।फाल्गुने चोत्तरान्तं स्यात् चित्रान्तञ्चैत्रमासके ॥११॥विशाखान्तं हि वैशाखे ज्येष्ठे मूलान्तकं भवेत् ।उत्तराषाढमाषाढे श्रावणे श्रवणान्तकम् ॥१२॥पूर्वाभाद्रे तथा मासे पूर्वाभाद्रान्तमुच्यते ।आश्वन्तमश्वयुङ्मासे उत्सवं कारयेत् बुधः ॥१३॥आर्द्रान्तं सर्वमासेषु कर्तव्यन्तु शिवोत्सवम् ।षष्ठ्यष्टमीह्यमावास्यान्ते वान्यत् पुण्य ऋक्षके ॥१४॥राज्ञन्मन्य विलये युद्धारंभे समारभेत् ।विस्तारेणसमं पुच्छं त्रिपुच्छं वा द्विपूच्छकम् ॥१५॥मध्ये वृषभमालिख्य स्थितं वा शयनन्तु वा ।दर्भमालासमायुक्तं किंकिणिवरकान्वितम् ॥१६॥ग्रामप्रदक्षिणं कृत्वा चालयं वा प्रदक्षिणम् ।वेणुं वा क्रमुकं वापि चन्दनञ्जातिबिल्वकम् ॥१७॥सालस्तं भञ्चखदिरञ्चंपंकं देवदारुकम् ।नालिकेरतरुं वापि निर्णितं सुदृढध्वजम् ॥१८॥प्रासाद त्रिगुणं दैर्घ्यं द्विगुणं वा ततः समम् ।शिखरग्रीवसीमान्तं वृषभस्थलसंमतम् ॥१९॥तथा द्वित्रितलान्तं वा गोपुरान्तमथापि वा ।षट्त्रिंशदंगुलन्नाहं ध्वजदण्डं विधीयते ॥२०॥त्रिंशदंगुलके नाथ चतुर्विंशन्तु वाङ्गुलम् ।उत्तमादधमन्नाहं ग्राह्यमेवं सुदण्डके ॥२१॥घटिकात्रयसंयुक्तं विस्तारेऽष्टाङ्गुलेन तु ।तत् घनञ्चतुरङ्गुल्यं त्रिभिरङ्गुलिभिस्तु वा ॥२२॥दैर्घ्यन्तु द्वादशाङ्गुल्यं षोडशाङ्गुल्यकन्तु वा ।दण्डे तु सुषिरं कृत्वा सुस्निग्धन्तु यथा तथा ॥२३॥घटिकात्रयकं न्यस्य तेष्वन्तस्थं सवैणवम् ।दण्डाग्रेण समं कुर्यादग्रं वेणवकस्य तु ॥२४॥दण्डञ्चाप्यथवा कुर्यात् घट्यन्तस्थं सुनिश्चलम् ।वैणवस्य तु दैर्घ्यन्तु द्वादशन्तालमुच्यते ॥२५॥अथवा षोडशन्तालं चतुर्दशन्तालमेव वा ।दशतालन्तु वा ग्राह्यं द्वादशाङ्गुल नाहकम् ॥२६॥तस्यार्धार्धश्च मात्रे तु वलयन्त्वायसेन तु ।यन्त्रार्थं बन्धयेद्धीमानलाभे दारुणा भवेत् ॥२७॥तदन्ते रज्जुसंवेश्य द्विगुणं मूलमाश्रितम् ।मध्यमाङ्गुलिनाहन्तु तन्तुना सुदृढं कृतम् ॥२८॥पीठगोपुरयोर्मध्ये वृषभस्याग्रतोऽपि वा ।कलयेन्मध्यहारायां मध्यादेर्मध्यमेपि वा ॥२९॥भूमिं खात्वोरुमात्रन्तु हैमन्तत्रैव निक्षिपेत् ।दण्डं संस्थाप्य पूर्वन्तु दर्भमालासमावृतम् ॥३०॥चतुस्तालन्तु विस्तारादुत्सेधं द्वितलान्तकम् ।दर्पणोदर संकाशं ध्वजपीठं विधीयते ॥३१॥पञ्चतालन्तु विस्तारमुत्सेधन्तु त्रितालकम् ।उत्तमोत्तमपीठस्य मध्यमस्योर्ध्वमुलतः ॥३२॥तयोर्मध्येऽष्टधाभज्यध्वजपीठानव स्मृताः ।ध्वजमारोपयेत् तत्र रज्जुयन्त्रेण बुद्धिमान् ॥३३॥प्रासादाभिमुखं स्थित्वाप्य घोरास्त्रेणमन्त्रतः ।ध्वजदण्डेन संबध्वा रोपयेद्विधिपूर्वकम् ॥३४॥प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥३५॥सर्वदेवमयं शूलं स्थण्डिलोपरिविन्यसेत् ।मध्यपत्रे भवेद् रुद्रो ब्रह्मादक्षिण पत्रके ॥३६॥वामपत्रे ततो विष्णु स्त्रिपत्रस्याधिदैवतम् ।वामे ज्येष्ठान्तु रौद्रीन्तु शूलमूले प्रकल्पयेत् ॥३७॥फलकास्कन्ददैवत्या कुंभन्तत्रैव वारुणम् ।स्थली चैवाग्निदैवत्यं दण्डस्य तु सरस्वती ॥३८॥पीठस्य पार्वती प्रोक्ता भूमिभागे वसुन्धरा ।गन्धादिभिः समभ्यर्च्य तदग्रे कलशान्न्यसेत् ॥३९॥विद्येश्वरसमायुक्तां मध्ये वृषभदैवतम् ।सकूर्चान् सा पिधानांश्च सहास्त्रान् स हिरण्यकान् ॥४०॥गन्धादिनार्चयित्वा तु स्वैस्वैर्नामभिरेव तु ।तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रेण वेष्टिताम् ॥४१॥पटहं विष्णुदैवत्यं सुषिरं वायुदैवतम् ।शब्दन्तत् ब्रह्मरूपं स्याद् रूपाभावस्तथैश्वरम् ॥४२॥वासुकी चर्मसूत्रन्तु वलयौरविचन्द्रकौ ।मातरः सप्तकीलास्तु प्रहारास्कन्ददैवतम् ॥४३॥अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणम् ।आचार्यं पूजयेत् पूर्वं वादकं तदनन्तरम् ॥४४॥आचार्यो वाममन्त्रेण सन्ताड्य स्त्रिप्रकारतः ।वादकस्ताडयेत् पश्चात् बलितालं विशेषतः ॥४५॥गेयनृत्तादिसंयुक्तं दिशितालन्तु वादयेत् ।तीक्ष्ण शृङ्गायविद्महे वेदपादायधीमहि ॥४६॥तन्नो वृषभः प्रचोदयात् * * * * * * * ।इमं मन्त्रमनुस्मृत्य रवन्दत्वा विशेषतः ॥४७॥तन्मूलेकलशैः स्नाप्यमुद्गान्नन्तु निवेदयेत् ।पुण्याहन्तत्र कर्तव्यं भेर्यारवमथाचरेत् ॥४८॥शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमाकुलम् ।सर्वालङ्कारसंयुक्तं त्रिशूलेनसमन्वितम् ॥४९॥ग्रामप्रदक्षिणे काले सन्धिदेवान् समर्चयेत् ।आवाह्य लोकपालांश्च बलिन्दत्वा विशेषतः ॥५०॥श्रावयेत् तीर्थदिवसानाचर्य प्रीतमानसः ।त्रिशूलञ्च ध्वजन्नित्यं संपूज्य हविषान्वितम् ॥५१॥उत्सवारंभ पूर्वे तु रथादीन् कारयेत् क्रमात् ।यन्त्र डोलांदृढाञ्चित्र यन्त्र रंगांस्तथैव च ॥५२॥यन्त्र देवालयांश्चैव मन्त्रमण्डपिकां तथा ।भ्रमत् गजांश्चयन्त्रांश्च सिंहयन्त्रान्तथैव च ॥५३॥वृषभं यंत्रिकांश्चैव कारयेत् सुविशेषतः ।नानापिच्छान्विताञ्छत्रां नानाव्यजनमेव च ॥५४॥नानाच्छत्रध्वजांश्चैव चामराण्यपि कारयेत् ।देवालयमलङ्कृत्य बाह्यमभ्यन्तरं ततः ॥५५॥द्वारतोरणविन्यासं कदली क्रमुकान्वितम् ।देवालयस्य पुरतः प्रपाङ्कृत्वाति सुन्दराम् ॥५६॥वितानो परिसञ्छन्नां मुक्तादामैरलङ्कृताम् ।पुष्पमालासमायुक्तामलङ्कृत्य प्रपां क्रमात् ॥५७॥स्तंभानावेष्ट्य वस्त्रैश्च फलपुष्प ध्वजान्वितान् ।यागशालां ततः कुर्यात् पूर्वोत्खातस्य पार्श्वयोः ॥५८॥उत्तरे वाथ कर्तव्यमैशान्न्यां पावके तथा ।मण्डपे वा दृढं कार्यं षोडशस्तंभसंयुतम् ॥५९॥नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् ।हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥६०॥कुण्डानिपरितः कुर्यादेककुण्डमथापि वा ।गोमयेनोपलिप्यात्र नानापुष्पैः प्रकीर्य च ॥६१॥ सूक्ष्मैस्तण्डुल चूर्णैस्तु नानावर्णसुचूर्णकैः ।वज्राङ्कुशं त्रिशूलञ्च चक्रं तत्र तथैव च ॥६२॥पद्मञ्चैवोत्पलाङ्कञ्च नन्द्यावर्तकमेव च ।कुम्भाभं मध्यचन्द्राभं वृक्षाकारांश्च लाञ्छयेत् ॥६३॥वामां वा नगरादीं वा ह्यलङ्कृत्य विशेषतः ।वीधयश्चोपवीध्यश्च निम्नोन्नतविवर्जिताः ॥६४॥शोधयित्वा समांभूमिञ्जलसेकोपलेपनैः ।पताकाभिर्ध्वजैश्चापि तथा काशद्ध्वजैरपि ॥६५॥कदलीभिर्धूपदीपैर्द्वारकुंभैरथान्यकैः ।साङ्कुरैच्छिद्र कुम्भैश्च पालिकाभिः समन्ततः ॥६६॥वस्त्रैश्च गन्धमाल्यैश्च भवनं प्रतिभूषयेत् ।ततोङ्कुरार्पणङ्कुर्यादुत्सवस्य दिनादितः ॥६७॥यथाङ्कुरार्पणे प्रोक्ता तथा कुर्याद् विशेषतः ।वेदिमध्ये ततः कृत्वा स्थण्डिलं शालिकामयम् ॥६८॥षट्द्रोणैः पञ्चद्रोणैर्वा चतुद्रोणैस्तु वा पुनः ।तण्डुलैः समलंकृत्य तिलैर्दर्भैस्ततोपरि ॥६९॥ससूत्रं कुर्चवस्त्राढ्यं पञ्चरत्नसमन्वितम् ।शिवकुम्भं न्यसेन्मध्ये वर्धनं तस्य वामतः ॥७०॥वस्त्रकूर्च्च समायुक्तं हेमयुक्तं प्रकल्पयेत् ।ध्यात्वा सदाशिवं देवं शिवकुम्भे निवेशयेत् ॥७१॥मनोन्मनींस्तु सञ्चिन्त्य वर्धन्यां विन्यसेत् सुधीः ।परितोऽष्टौ घटां न्यस्य विद्येश्वरसमन्वितान् ॥७२॥सकूर्चान्वस्त्रसंयुक्तान् सहेमान्वारिपूरितान् ।कलशाधिपतींस्तत्र स्वैस्वैर्मन्त्रैः सुपूजयेत् ॥७३॥लोहादिदारुवर्णहनि आयुधानिदशक्रमात् ।वक्ष्यमाणोक्तविधिना कारयेत् प्रतिमाकृति ॥७४॥वेदिकायास्तु परितस्त्वायुधानि प्रपूजयेत् ।वज्रादीन् स्थापयेद् विद्वान् पूर्वादिषु प्रदक्षिणम् ॥७५॥वामे संस्थाप्य चक्रन्तु दक्षिणे पद्ममेव च ।अष्टमङ्गलरूपाणि वेदिबाह्ये प्रपूजयेत् ॥७६॥शूलास्त्रं विन्यसेत् तत्र उत्सवे योगधामनि ।अग्निकार्यन्ततः कृत्वा नवपञ्चैक वा पुनः ॥७७॥एकाग्नेर्वेदिका पूर्वे ह्युत्तरे पश्चिमेऽथवा ।वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥७८॥पर्यग्निकरणं कृत्वा यागशालां विशेषतः ।यवं हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः ॥७९॥तिलमीशानमन्त्रेण हुत्वामुद्गन्तु नेत्रतः ।द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥८०॥पूजावसाने विद्वान्वै वह्निकार्योक्तमाचरेत् ।अर्चनं विधिनावत्स सायं प्रातर्दिने दिने ॥८१॥होमान्ते तु बलिं दद्यात् बल्यन्ते चोत्सवं बुधः ।प्रथमं विश्वरात्रन्तु द्वितीयं भूतरात्रकम् ॥८२॥तृतीयमृषिरात्रं स्याच्चतुर्थञ्चेन्द्ररात्रकम् ।पञ्चमं ब्रह्मरात्रन्तु षष्ठं वै विष्णुरात्रकम् ॥८३॥सप्तमं रुद्ररात्रं स्यादष्टमञ्चैश्वरस्य तु ।सदाशिवस्य नवमन्नवाहेष्वधि देवताः ॥८४॥ऋषिरात्रं समारभ्य सदाशिवदिनान्तकम् ।सप्ताहेतु प्रयोक्तव्यं ब्राह्म्यात् सदाशिवान्तकम् ॥८५॥पञ्चाहेतु प्रयोक्तव्यं रुद्रात्सदाशिवान्तकम् ।त्रयहेत्विति चैका हे सदाशिव पदान्तिकम् ॥८६॥त्रयहेत्वितिचैकाहे सदाशिवदिनं भवेत् ।हविर्भिर्दीपकैश्चैव दिनेष्वेतेषु नित्यशः ॥८७॥विशेषात् पूजनं कुर्यात् विभवस्यानुरूपतः ।ग्रामाधिदैवतांश्चैव पूजयेत् तु विशेषतः ॥८८॥शुद्धान्नन्दधिसंमिश्रं लड्डुकापूपसंयुतम् ।फलञ्च गुलसम्मिश्रं गणेशस्य प्रियन्त्विदम् ॥८९॥बलयोरजनी पूर्णं घृतान्नन्दधिसक्तुकम् ।भूत क्रूरबलिः प्रोक्तस्तेन भूतबलिं हरेत् ॥९०॥पञ्चमूलङ्कुशाग्रञ्च शाल्यनञ्चाज्यमिश्रकम् ।कदलीफलसंयुक्त मृषीणां बलिरुच्यते ॥९१॥इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृतसंयुतम् ।चतुर्थे हनिदातव्यमिन्द्रस्य बलिरुत्तमम् ॥९२॥पद्मपुष्पं स रजनी पायसंलाजसंयुतम् ।पञ्चमे हनिदातव्यं ब्रह्मणोबलिरुच्यते ॥९३॥गुलोदनं घृतोपेतं बृहतीफलसंयुतम् ।षष्ठे हनि च दातव्यं विष्णु प्रीतिकरं परम् ॥९४॥साज्यन्तु कृसरान्नं वै नालीकेरफलैर्युतम् ।सप्तमे हनिदातव्यं रुद्रप्रीतिकरं भवेत् ॥९५॥वेणुकन्दधिसंयुक्तं कदलीफलसंयुतम् ।अष्टमे हनिदातव्यमीश्वरस्य बलिस्तथा ॥९६॥शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम् ।कदलीपनसोपेतं गुलखण्डसमिश्रितम् ॥९७॥नवमे हनिदातव्यं सादाख्यस्य शिवस्य तु ।सर्वेषामपि शुद्धान्नमाज्ययुक्तं दधिप्लुतम् ॥९८॥दापयेद् वा विशेषेण तत्तन्मन्त्रेण देशिकः ।द्रोणं वापि तदर्धं वा तदर्धं वापि पाचयेत् ॥९९॥कपित्थफलमात्रेण बलिं दत्वा पृथक् पृथक् ।उत्सवस्य पुरस्तात्तु दद्यात् ग्रामबलिं तथा ॥१००॥वाद्यध्वनिसमायुक्तं धूपदीपसमायुतम् ।ध्वजैः पिञ्छैः समायुक्तं स्तोत्रमङ्गलवाचकैः ॥१०१॥यज्ञपिठोपरिस्थाप्य त्रिशूलञ्चान्नलिङ्गकम् ।दशायुधानि परितः स्थापयेद् देशिकोत्तमः ॥१०२॥यज्ञाभावे तु तत् सर्वं व्रजेयुः शिरसाधृताः ।आचार्यः शिष्य संयुक्तः सर्वाभरणभूषितः ॥१०३॥सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः ।आदिशैवः प्रसन्नात्मा श्रद्धाभक्तिसमन्वितः ॥१०४॥ब्रह्मादीशानपर्यन्तमिंद्रादीशान्तमेव वा ।बलिं दत्वा तु तत् ग्रामे देवैश्चैवं विशेषतः ॥१०५॥सायं प्रातर्बलिं दद्यात् होमान्ते तु विशेषतः ।उत्सवं प्रारभेदन्ते सर्वालङ्कारसंयुतम् ॥१०६॥नानाप्रहरणोपेताः सगजाश्चाग्रतस्ततः ।तदन्ते तुरगारूढास्तदन्ते गजवाहनाः ॥१०७॥यन्त्ररङ्गास्तदन्ते तु दिव्यस्त्री परिभूषिताः ।तदन्ते शाश्चयन्त्राश्च डोलायन्त्राश्च मण्डपाः ॥१०८॥यन्त्र देवालयं पश्चान्नृत्तगेयसमन्विताः ।आद्यं सुखासनं प्रोक्तं द्वितीयमुमयासह ॥१०९॥वृषारूढं त्रितीयन्तु त्रिपुरघ्नञ्चतुर्थकम् ।नृत्ताख्यं पञ्चमं प्रोक्तं षष्ठ वै चन्द्रशेखरम् ॥११०॥सप्तमं त्वर्धनारीशं हरिरर्धन्तु चाष्टमम् ।भिक्षाटनं च नवमं दशमङ्कालनाशनम् ॥१११॥दशैकं कामदहनं ततो लिङ्गं पुराणकम् ।द्वादश प्रतिमास्त्वेते सर्वालङ्कारसंयुताः ॥११२॥रङ्गे वा शिबिकायां वा रथेवारोप्य भक्तितः ।आदिशैवानुशैवाश्च देवानामनुगा स्मृताः ॥११३॥पशुपतास्तदन्ते तु महावृतधरास्त्वनु ।कालामुखास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् ॥११४॥तदग्रे रुद्र गणिकाः सर्वालङ्कारसंयुताः ।तदन्ते गायकाः प्रोक्तास्तदन्ते नर्तका व्रजेत् ॥११५॥ईश्वरः शक्तिसहितस्ततो गच्छेश्चनैः क्रमात् ।योषिद्भिः सत्रिशूलादि यन्त्रदीपैर्विशेषतः ॥११६॥अस्त्रदीपैर्यष्टिदीपैः सर्वत्र परिशोभितः ।वितानैच्छिद्र दीपैश्च पताकाभिश्च शोभितः ॥११७॥सर्वेषां पृष्ठतो गच्छेच्चण्डेशः समलङ्कृतः ।तदग्रे घोषयेत् सम्यक् सर्वातोद्यान् क्रमेण तु ॥११८॥पटहैर्मद्दलैस्तालैर्भेरीपणवडुण्डुभैः ।जर्झरी झल्लरी मोन्तैर्वीणावेणुरवैस्तथा ॥११९॥अग्रतः पृठतश्चैव घोषयेत् सविशेषतः ।तदन्ते वैश्य शूद्राद्यागच्छेयुर्भक्तिसंयुताः ॥१२०॥सर्वे वर्णास्तदन्ते तु व्रजेयुः क्रमशस्ततः ।ये देवमनुगच्छन्ति तत्गतेनान्तरात्मना ॥१२१॥पदे पदेश्वमेथस्य प्राप्नुवन्ति फलं नराः ।वृद्धबालयुवानश्च स्त्रियश्च पुरुषास्तथा ॥१२२॥सर्वपापाद्विमुच्यन्ते सर्वत्रैव समन्विताः ।एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरन्तु वा ॥१२३॥शनैर्देवालयङ्गच्छेत् बलिपीठे बलिं क्षिपेत् ।पादप्रक्षालनङ्कृत्वा प्रविशेदालयं प्रति ॥१२४॥प्रपाङ्कृत्वा स्थितं देवं सर्वदेवगणैः सह ।मृदङ्गादिमहाशब्दं शिवस्य पुरतस्थितम् ॥१२५॥नमकश्चमकश्चैव दक्षिणे तु व्यवस्थितौ ।गान्धर्वकोवं शकश्च उत्तरे तु व्यवस्थितौ ॥१२६॥आचार्यो दक्षिणेभागे नृपस्तस्यैव चोत्तरे ।उभयोरपि पार्श्वाभ्यां देवस्य गणिका स्मृताः ॥१२७॥देवस्याग्रे विशेषेण नृत्तं कुर्यात्सगेयकम् ।नीराञ्जनं कर्तव्यं देवदेवस्य चोत्सवे ॥१२८॥भस्मपुष्पञ्च दीपञ्च पात्रेषु च विनिक्षिपेत् ।पुरादत्वा त्वाचमनं पुष्पं शिरसि विन्यसेत् ॥१२९॥अच्युतं मूर्ध्नि विन्न्यस्य गन्धं दद्याद् विशेषतः ।पुनराचमनं दद्याद् धूपदीपं प्रदापयेत् ॥१३०॥पिष्टे विन्यस्त दीपेन भ्रामयेच्छिवमूर्धनि ।तदन्ते दापयेत् भस्मदर्पणं दर्शयेत् पुनः ॥१३१॥गणिकाभिर्वहित्वा तु वाद्यध्वनि समायुतम् ।पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिः क्षिपेत् ॥१३२॥कारयेत् साधकेन्द्रेण एतत् साये तु रक्षयेत् ।वस्त्रादिनि प्रदातव्यं भक्तानाञ्च विशेषतः ॥१३३॥परिवेष क्रमं ह्येवं दर्शनादघनाशनम् ।यावद् देवोत्सवं कुर्यात् तावदेवदिने दिने ॥१३४॥अनाद्यं सर्ववर्णानां दद्याद् देवस्य तुष्टये ।तत स्त्रीर्थदिनात् पूर्वे मृगयात्रां समारभेत् ॥१३५॥युद्धारंभ प्रभावेन ग्रामङ्गत्वा प्रदक्षिणम् ।कौतुकं बन्धयेद् धीमान् तस्मिन्रात्रौ विशेषतः ॥१३६॥सौवर्णं रजतं सूत्रं अथ कार्पासमेव वा ।स्थण्डिलोपरिसंस्थाप्य त्रिशूलं स्थण्डिलोपरि ॥१३७॥याग मण्डपमध्ये तु शूले कौतुकबन्धनम् ।हृदये नैव कृत्वा तु पुण्याहन्तत्र कारयेत् ॥१३८॥उत्सवप्रतिमां बध्वा कौतुकं हृदयेन तु ।स्थण्डिलोपरिसंस्थाप्य कलशान्नवसङ्ख्यया ॥१३९॥पिधानकूर्चवस्त्राढ्याञ्छिव विद्येश्वरान्वितान् ।गन्धादिभिः समभ्यर्च्य शूलन्तैः स्नानमाचरेत् ॥१४०॥नद्यां वाप्यां तटाके वा हृदे स्नानं समाचरेत् ।अथ नद्यादिषु स्नानं विना वा शेषमाचरेत् ॥१४१॥होमबल्युत्सवान् प्रातः कृत्वा चूर्णोत्सवन्ततः ।प्रासादस्याग्रतो वापि याम्ये वा पावकेऽथवा ॥१४२॥गोमयालेपनं कृत्वा धूपदीपैः समन्वितम् ।पालिकाद्यैरलङ्कृत्य स्थण्डिलन्तत्र कारयेत् ॥१४३॥शूलं पश्चिमतः स्थाप्यो लूखलं मुसलं ततः ।वस्त्रेणो लूखले वेष्ट्यदर्भैरावेष्टयेत् पुनः ॥१४४॥गन्धाद्यैरर्चयित्वा तु त्रिशूलं लूखलं ततः ।घृतं शिरोर्पणङ्कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥१४५॥सुशुष्कां रजनीं पूर्वं चूर्णे चूर्णे तु लूखले ।हृदा प्रक्षिप्य चास्त्रेण कुट्टयेद् देशिक स्त्रिभिः ॥१४६॥ततो भक्तजनैः सार्धं चूर्णयेद् देशिकोत्तमः ।संस्नाप्य लिङ्गं चूर्णेन पञ्चब्रह्मसमुच्चरन् ॥१४७॥स्नापयेत् कौतुकं शूलं हृन्मन्त्रेण सतैलकम् ।आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥१४८॥ग्रामं वा नगरं वापि शीघ्रङ्गच्छेत् प्रदक्षिणम् ।नदीतटाकतीरे वा स्थण्डिले द्वितये कृते ॥१४९॥शूलन्तत्रैव संस्थाप्य तत्पूर्वेकलशां न्यसेत् ।अर्चयेत् स्वस्वमन्त्रेण शूलं वै कलशांस्तथा ॥१५०॥गङ्गा च यमुना चैव नर्ददा च सरस्वती ।सिन्धुर्गोदावरी चैव कावेरी चैव सप्तकान् ॥१५१॥आवाह्य मध्यकलशे गन्धतोय सुपूरिते ।अनन्तादि शिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ॥१५२॥पुण्याहं वाच्यशूलास्त्र देवानभ्यर्च्य पूजयेत् ।स्नापयेत् कलशैः पश्चात् स्नानं तीर्थे समाचरेत् ॥१५३॥त्रिशूलेन सहैवात्रये तीर्थं कुर्वते नराः ।मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ॥१५४॥याग गेहे शिवाग्नौ तु दद्यात् पूर्णाहुतिं पुनः ।होमोपरिष्टात् तत्रस्थं शास्त्रोक्तं सुसमाचरेत् ॥१५५॥यागेशं पूजयेत् पश्चात् गन्धपुष्पादिभिः शुभैः ।साधितैः कलशैस्तत्र स्नपनं कारयेच्छिवम् ॥१५६॥भक्तानां परिचाराणां वस्त्रादिभिः प्रदापयेत् ।ध्वजावरोहणं कुर्यात् तत्रादौ तु विशेषतः ॥१५७॥त्रयाहे वापि पञ्चाहे सप्ताहे वा वरोहयेत् ।स्नपनन्तु ततः कृत्वा मूललिङ्गे विशेषतः ॥१५८॥उत्सव प्रतिमाश्चापि त्रिशूलञ्च ध्वजस्तथा ।स्नपनङ्कारयेत् तत्र स्तोत्रमङ्गलवाचकैः ॥१५९॥हरिद्रानथ शुद्धान्नं सो पदंशं बलिं क्षिपेत् ।ध्वजावरोहणङ्कृत्वा पूजान्ते तु विचक्षणः ॥१६०॥प्रदक्षिणं ततः कृत्वा सन्धिदेवां विसर्जयेत् ।यागोपयुक्त द्रव्याणि देशिकाय प्रदापयेत् ॥१६१॥एवं यः कुरुते मर्त्त्य उत्सवं च शिवस्य तु ।कुलैकविंशदुत्तार्य शिवलोकमवास्यति ॥१६२॥शिवोत्सवमिदं प्रोक्तं स्नपनञ्च ततः शृणु ।इति शिवोत्सवविधि पटलश्चतुदर्शः ॥१४॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP