संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| वह्निस्थापनविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - वह्निस्थापनविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः वह्निस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि वह्नेः संस्थापनं शृणु ।परिवारेऽप्यथाग्नेय्यां विमाने पूर्ववत् कृते ॥१॥तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः ।हस्तमानेन वा चार्धकरेणैव तु पीठकम् ॥२॥त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा ।पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् ॥३॥यत्ते नाद्यस्वरोपेतं प्रथमंबीजमिष्यते ।रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना ॥४॥द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् ।शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् ॥५॥जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् ।तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे ॥६॥मौलिना भूषिताः सर्वे भुक्तिमुक्तिफलप्रदम् ।वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् ॥७॥वरदाभयहस्तञ्च - - - - - ।शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् ॥८॥एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च ।वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् ॥९॥यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः ।संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः ॥१०॥धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् ।प्रागुक्तेन क्रमेणैव पञ्चाग्निं संप्रकल्पयेत् ॥११॥त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः ।लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् ॥१२॥जलाधिवासयेत् बिंबं शैलजे तु विशेषतः ।ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि ॥१३॥प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् ।निर्दोषां नवकुंभाश्च वर्धन्यां सहसूत्रके ॥१४॥संयोज्यगन्धतो येन पूरयित्वा सकूर्चकान् ।वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् ॥१५॥स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् ।आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् ॥१६॥वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च ।अष्टकुंभांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् ॥१७॥स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा ।भास्करं वामकेकुंभे लोकेशां स्वस्वदिक्षु च ॥१८॥विन्यस्याभ्यर्च्य गन्धाद्यैः कुंभानां दक्षिणे तथा ।संकल्प्यचासनं प्राग्वत् तस्मिन् बिंबं सुशाययेत् ॥१९॥आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् ।शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् ॥२०॥अग्निमूर्तिन्तु संकल्प्य समिधान्याज्यलाजकैः ।तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् ॥२१॥प्रभाते सुमुहूर्ते तु शयनात् बिंबमुद्धरेत् ।समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् ॥२२॥स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे ।पीठे वा न्यस्य बिंबन्तु रत्नन्यासादनन्तरम् ॥२३॥हृदये पञ्चमंबीजं मुर्ध्निवक्त्रे च नाभिके ।गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् ॥२४॥गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् ।पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् ॥२५॥ततः कुंभान् सुमुद्धृत्य मध्ये कुंभन्तु पञ्चभिः ।बीजैः पिण्डेनबिंबन्तु प्रागुक्तन्यासमार्गतः ॥२६॥तत्कुंभवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः ।तत्कुंभस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः ॥२७॥यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः ।देशिकं पूजयेत् तत्र वस्त्रहेमांगुलीयकैः ॥२८॥वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं शृणु ।इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः ॥४१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP