संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
अथ स्नान पटलः

अथ क्रियापादः - अथ स्नान पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् ।
पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥१॥

स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।
वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् ॥२॥

दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।
मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥३॥

वक्ष्ये वारुणमाग्नेयं शृणु तत्वं गजानन ।
नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥४॥

प्. २५) कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे ।
तटाकेष्वपिन स्नानं सरित्सत्यांगजानन ॥५॥

कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।
तस्माद् दशगुणं नद्यः समुद्रगामिकाः पराः ॥६॥

प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥७॥

तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।
तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥८॥

शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् ।
तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥९॥

शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।
प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥१०॥

मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।
रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् ॥११॥

मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः शृणु ।
मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥१२॥

सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।
तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥१३॥

हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।
हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥१४॥

सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।
अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् ॥१५॥

पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।
ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥१६॥

अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।
अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥१७॥

शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।
फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥१८॥

जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।
ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥१९॥

शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।
शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥२०॥

उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।
तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥२१॥

ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा ।
अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे ॥२२॥

तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।
अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥२३॥

अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।
अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥२४॥

अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।
पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥२५॥

चक्रवत्युपचारेण सुगन्धामलकादिभिः ।
जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥२६॥

शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।
पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥२७॥

अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।
दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥२८॥

मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।
अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥२९॥

ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।
ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥३०॥

सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।
आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् ॥३१॥

स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।
स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥३२॥

एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।
अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥३३॥

मित्रा सत्येनेमम्मेति सततं स ममंत्रितः ।
एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥३४॥

देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।
तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥३५॥

अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।
वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥३६॥

तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।
रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥३७॥

सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।
प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥३८॥

जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।
तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥३९॥

एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।
ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥४०॥

शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।
फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥४१॥

धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।
शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥४२॥

प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।
यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥४३॥

तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।
भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥४४॥

तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।
स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥४५॥

अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।
कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥४६॥

ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् ।
जलस्नानमिदं प्रोक्तं भस्मस्नानमथो शृणु ॥४७॥

इति स्नान पटलः पञ्चमः ॥५॥

N/A

References : N/A
Last Updated : January 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP