संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| आदित्यस्थापनविधिपटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - आदित्यस्थापनविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः आदित्यस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि आदित्यस्थापनं परम् ।अदितेः पुत्रभावत्वादादित्यस्यति चोच्यते ॥१॥ईश्वरस्यार्धभागे तु जगश्चक्षुरिति स्मृतः ।द्विभुजं सौम्यमित्युक्वा तस्मात् सौम्यन्तु पूजयेत् ॥२॥सर्वसिद्धिं समन्विच्छेत् ग्राममध्ये विशेषतः ।आलये वामपार्श्वे तु विभवार्थाय देशिकः ॥३॥प्रासादं विधिना कृत्वा चाश्वाकर्णसमायुतान् ।मूर्तयस्तु चतुर्दिक्षु सूर्याक्षविभवानुगाः ॥४॥रक्तं श्वेतञ्च पीतञ्च श्यामं सूर्यादिवर्णकम् ।शिल्पालङ्कारसंयुक्तं प्रासादलक्षणान्वितम् ॥५॥ग्रामस्याभिमुखद्वारमालये पश्चिमे मुखम् ।काष्ठलोहशिलाकृत्भिः कृत्वा तु प्रतिमां ततः ॥६॥द्विभुजं पद्महस्तन्तु रक्तवर्णं स्वरूपकम् ।करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥७॥मकुटद्विगुणन्तारं प्रभामण्डलमध्यमम् ।उषाश्च प्रत्युषादेवी सव्यासव्ये तु संस्थितः ॥८॥अरुणञ्चाग्रतः कृत्वा पङ्कजं तत्स्वरूपकम् ।सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् ॥९॥रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् ।पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥१०॥मृण्मयं यदिकुर्वीत दैविके प्रतिमं तथा ।शूलरज्जुमृदाद्यैस्तु वर्णभेदं सुशिल्पिकम् ॥११॥कर्माच्च मध्यमे स्थाप्य शैलजं वाथलोहकम् ।रत्नादि स्थापनान्तञ्च संक्षेपाच्छृणु सांप्रतम् ॥१२॥आलयस्याग्रतः कृत्वा मण्डपंविधिनान्वितम् ।तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागेति विस्तरात् ॥१३॥हस्तमात्रप्रमाणञ्च दर्पणोदरसन्निभम् ।कुण्डानिपरितः कृत्वा मृदा वा वालुकैश्च वा ॥१४॥शालिभिस्थण्डिलङ्कृत्वा रत्नन्यासायदेशिकः ।रत्नानामप्यलभे तु मौक्तिकं तु निधापयेत् ॥१५॥उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ।वस्त्रेण वेष्टयित्वा तु जले चैवाधिवासनम् ॥१६॥नीत्वा जलोषितं बिंबं संस्नाप्य पञ्चगव्यकैः ।हेमसूच्याथमधुना नेत्रं नेत्रेणमोचयेत् ॥१७॥बध्वा प्रतिसरं मंत्रीशयने चाधिवासयेत् ।उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ॥१८॥शयनस्य च दिक्भागे कुंभंवस्त्रेण वेष्टयेत् ।सकूर्चान् सापिधान् कुंभान् गन्धाद्यैर्विधिना यजेत् ॥१९॥ध्यात्वा तत्तत् स्वरूपाञ्च - - - - - - ।आवृतान् कलशानष्टौ लोकपालाधिकान् क्रमात् ॥२०॥वस्त्रकूर्च पिधानाद्यै स्थापयित्वा पृथक् पृथक् ।पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयन्तु वा ॥२१॥शिवाग्निं पूर्ववद् ध्यात्वा न्यस्त्वा चाद्यन्तु मध्यमे ।समिदाज्यचरूं लाजान् सक्तुसर्षपमेव च ॥२२॥सूर्यगायत्रि मन्त्रेण सर्वद्रव्याणि होमयेत् ।स्पर्शाहुतिं ततः कृत्वा तन्मूलेन तु देशिकः ॥२३॥प्रभाते सुमुहूर्ते तु पूर्णां दत्वा स्वमन्त्रतः ।आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥२४॥शयनात् बिंबमुत्थाप्य स्नानवेद्यामथानयेत् ।घृतः शिरोर्पणं कृत्वा नीत्वाकुंभन्तु सन्निधौ ॥२५॥कुंभस्थन्तु यथा देवं प्रतिमाया हृदिन्यसेत् ।संस्थाप्य कलशैरेव गन्धपुष्पादिनार्चयेत् ॥२६॥प्रभूतं हविषं दत्वा मूलमन्त्रेण देशिकः ।प्रारभेदुत्सवं तत्र कर्तावित्तानुसारतः ॥२७॥तदुत्सवविधौ सर्वमाहशास्त्रे तु चोदितम् ।आदित्य स्थापनं प्रोक्तं क्षेत्रपालविधिं शृणु ॥२८॥इति आदित्यस्थापनविधिपटल एकोनपञ्चाशत्तमः ॥४९॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP