संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| अथ अर्चनाङ्ग पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - अथ अर्चनाङ्ग पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अथ अर्चनाङ्ग पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् ।पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् ॥१॥दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु ।दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु ॥२॥दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् ।शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते ॥३॥उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् ।चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् ॥४॥एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् ।आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति ॥५॥आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ।तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते ॥६॥यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः ।व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् ॥७॥अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च ।सममर्धं पादमेवा कर्पूरेणसमायुतम् ॥८॥गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः शृणु ।श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् ॥९॥पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् ।कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् ॥१०॥नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् ।साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका ॥११॥द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका ।नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् ॥१२॥श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा ।एवमादीनि पुष्पाणि सात्विकानि समादिशेत् ॥१३॥रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा ।पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् ॥१४॥कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा ।एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् ॥१५॥करञ्जवकुलञ्चैव शिरीषं केतकी तथा ।लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी ॥१६॥किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् ।अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् ॥१७॥केशकीटापविद्धानि लूतसूत्राव्रतानि च ।स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् ॥१८॥शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा ।नागनन्दी रुद्रपर्णीधातकी पत्रमेव च ॥१९॥भद्री चैव महाभद्री द्रोणपत्रं तथैव च ।उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः ॥२०॥पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते ।तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् ॥२१॥उत्सवादिषु यात्रायां परिवेष क्रियासु च ।सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः ॥२२॥एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते ।कृष्णागरुर्भवेदेव कार्यः सद्विगुणं भवेत् ॥२३॥त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् ।शीतारिनामधूपोयं मधुनां पावितं भवेत् ॥२४॥एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते ।गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् ॥२५॥कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् ।गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् ॥२६॥चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते ।दीप प्रियो हि भगवान् देवदेवः सदाशिवः ॥२७॥अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं शृणु ।इति अर्चनाङ्गः सप्तमः पटलः ॥७॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP